83109: सहेः पृतनर्ताभ्यां च

Padacheda: सहेः | S | 6 | 1 |

पृतना-ऋताभ्याम् | S | 5 | 2 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

ष् is substituted for the स् of सह after पृतना and ऋत।

Vasu English Translation

ष् is substituted for the स् of सह after पृतना and ऋत। Thus पृतनाषाहम्, ऋताषाहम् ॥ Some divide this sutra into two; as (1) सहेः; (2) पृतनार्त्ताभ्यां च ॥ So that the rule may apply to ऋतीषहः also. The word ऋति is lengthened by (6.3.116), in sanhita : and the ष change takes place in sanhita only. Otherwise the form is ऋतिसहम् ॥ The word च ‘and’ in the sutra includes words other than those not mentioned in it. The word ऋतीषहं would be valid by this also.

Kashika

पृतना ऋत इत्येताभ्यामुत्तरस्य सहिसकारस्य मूर्धन्यादेशो भवति। पृतना॒षाह॑म् (ऋ० ६.७२.५)। ऋताषाहम्। केचित् सहेः इति योगविभागं कुर्वन्ति। ऋ॑ती॒षह॑म् (ऋ० ६.१४.४) इत्यत्रापि यथा स्यात्। ऋतिशब्दस्य पूर्वपदस्य संहितायाम् (६.३.११६) एतद् दीर्घत्वम्, षत्वं च। अवग्रहे तु ऋति सहम् इत्येव भवति। चकारोऽनुक्तसमुच्चयार्थः। तेन ऋ॑ती॒षह॑म् (ऋ० ६.१४.४) इति सिद्धम्॥

Siddhanta Kaumudi

पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ॥

Padamanjari

आदिग्रहणं शक्यमकर्तुम्, पदादिति पञ्चमीनिर्द्देशः कर्तव्यः - पदात्परस्य सकारस्य नेति । इहापि तर्हि न प्राप्नोति -अग्निषु, वायुषु, त्वक्षु ? सातिप्रतिषेधो ज्ञापयति - स्वादौ यत्पदं न तस्मात्प्रतिषेध इति । तत्रायमप्यर्थः - दधिसिक्, मधुसिगित्यादौ प्रतिषेधः सिद्धो भवति, न ह्ययं सकारः पदादिः । गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति वचनात् पदात्परस्तु भवति, तत्रापि पूर्वपदस्य सुबन्तत्वात् । बहुचस्तु प्रतिषेधः । बहुवस्तु परस्य प्रतिषेधो वक्तव्यः - बहुसेक्ता, न ह्यत्र पदात्परः सकारः ॥

Nyaas

असाडर्थम्, अनिणर्थञ्च। पृतनाषाहम् इति। छन्दसि सहः (3.2.63) इति ण्विः। ऋतीषाहम् इति। अन्येषामपि दृश्यते (6.3.137) इती दीर्घः। ऋतीषहम् इति। कृत्यल्युटो बहुलम् (3.3.113) इति क्विप्। नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ (6.3.116) इती दीर्घत्वम्। संहितायामेतद्दीर्घत्वं षत्वञ्च इति। उभयोरपि विधाने संहिताधिकाराद्दीर्घस्य प्रतिपादनम् -ऋतीशब्दस्यायं प्रयोग इति प्रतिपादनार्थम्। अन्यथा हि ऋतिशब्दान्तरमेवेदभित्याशङ्क्येत। [ह्रतिशब्दान्तर -प्रांउ।पाठः] यस्तु मन्यते -वर्णव्यत्ययेनैवात्र चत्वं भविष्यति, तत्? किमेतदर्थेन वोगविभागेनेति, तं प्रति षत्वस्य सांहितकत्वं प्रतिपादितम्। यदि हि व्यत्ययो बहुलम् (3.1.85) इति षकारः क्रियते, ततोऽसंहितायामेव स्यात्, न हि तत्र संहिताधिकारोऽस्ति। तस्मात्? संहिताधिकारे यथा स्यादिति योगविभागः कर्तव्य इति भावः। अनुक्तसमुच्चयार्थः इति। न केवलं साङ्भूतस्येण्कोः परस्येति, अपि तु पृतनर्ताभ्याञ्च षत्वं भवतीति। ये तु योगविभागं न कुर्वन्ति, ते ऋतीबहमित्यर्थश्चकारः समुच्चयार्थं इति वर्णयन्ति॥

Prakriyasarvasvam

आभ्यां परस्य सहेः षः स्यात् । पृतनाषाट् सुवीरः । ऋताषाडृतधामा । ‘अन्येषामपि-’ (६-३-१३७) इति दीर्घः । चकारादृतौ (षा ? ष) हम् । अस्य ॥ ‘नहिवृति-’ (६-३-११६) इति दीर्घः । स च दीर्घः संहितायामेवेत्यवग्रहे न । ऋतिसहम् ।