83108: सनोतेरनः =============== **Padacheda:** सनोतेः | S | 6 | 1 | अनः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The स of the verb सन् , when it loses its न् is changed to ष , under the same circumstances. Vasu English Translation ------------------------ The स of the verb सन् , when it loses its न् is changed to ष , under the same circumstances. Thus गोषाः (*Rig*. IX. 2.10), formed by the affix विट (3.2.67), the न् is elided by (6.4.41). So also नृषाः ॥ Why do we say 'when it loses its न्'? Observe गोसनिं वाचमुदीरयन् (*Atharvaveda* III.20.10). Here the affix is इन् (3.2.27). See however गोषणिं in *Rig*. VI.53.10. Though this ष change would have taken place by (8.3.106) also, the separate enumeration is for the sake of *niyama* or restriction. Some however read the word गोसनिः in the list of सवनानि words (8.3.110), and they hold that the proper counter-example is सिसानयिषति ॥ So also सिसनीः formed by adding क्विप् to the Derivative root सिसनिस, thus सिसनिस + क्विप् = सिसनिस् (the अ is elided by (6.4.48)) + 0. add सु, सिसनिस् + स् = सिसनिस् + 0 [स् is elided by (6.1.68). Now the final स् (of the Desiderative affix सन्) is liable to be changed either to ष् or to र् (रु). The ष being *asiddha*, the रु change takes place.] = सिसनिर् = सिसनीः (the lengthening is by (8.2.76)). Here the Desiderative affix सन् is not changed to ष, hence this word is not governed by (8.3.61). This being the object of this *sutra*, there will be ष change in शिषाणयिषति in the Causative. Bhashya ------- सनोतेरनः ॥ सनोतेरन इति च॥ (सनोतेरन इति च)॥ किम्?॥ वचनमनर्थकमित्येव॥ किं कारणम्?॥ (पूर्वपदादिति सिद्धत्वात्)॥ पूर्वपदादित्येव सिद्धम्॥ नियमार्थं तर्हीदं वक्तव्यम्-सनोतेरनकारस्यैव यथा स्यादिह मा भूत्-गोसनिमिति॥ सनोतेरन इति नियमार्थमिति चेत्सवनादिकृतत्वात्सिद्धम्॥ सनोतेरन इति नियमार्थमिति चेत्सवनादि (कृतत्वात्सिद्धम्। सवनादि)षु पाठः करिष्यते॥ सन्नर्थं तु॥ सन्नर्थं त्विदं वक्तव्यम्। सिसनिषति॥ एतदपि नास्ति प्रयोजनम्। स्तौतिण्योरेव षण्यभ्यासादित्येतस्मान्नियमान्न भविष्यति॥ ण्यर्थं तर्हीदं वक्तव्यं-सिसानयिषतीति(1)॥ कथं पुनरण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यो विज्ञातुम्?॥ सार्मथ्यात्। अण्यन्तस्य प्रतिषेधवचने प्रयोजनं नास्तीति कृत्वा ण्यन्तो(2) विज्ञास्यते॥ अथ वाऽयमस्त्यण्यन्तः सिसनिषतेरप्रत्ययः-सिसनीः॥ (सनोतेरनः)। Kashika ------- सनोतेरनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति। गो॒षाः (ऋ० ९.२.१०)। नृ॒षाः (ऋ० ९.२.१०)। अन इति किम्? गो॒सनिं॒ वाच॑मुदेय॒म् (शौ०सं० ३.२०.१०)। पूर्वपदादित्येव सिद्धे नियमार्थमिदम्। अत्र केचित् सवनादिपाठाद् गोसनिर्नियमस्य फलं न भवतीति सिसानयिषतीति प्रत्युदाहरन्ति। सिसनिषतेरप्रत्ययः, सिसनीरित्यपरे॥ Siddhanta Kaumudi ----------------- गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॑सि) । अनः किम् । गोसनिः ॥ Padamanjari ----------- विस्रंसिकाया इति । रोगाख्यायाम्ऽ इति ण्वुल् । विस्रब्धमिति ।'सृम्भु विश्वासे' क्तः,'यस्य विभाषा' इतीट्प्रतिषेधः, ठनिदिताम्ऽ इति नलोपः । विसृप इति ।'सृपितृदोः कसुन्' । सवनेसवन इत्यादौ वीप्सायां द्विर्वचनम् । किंस इत्यत्र ठयोगवाहानामट्सुणत्वं शर्षु जश्भावषत्वेऽ इति वचनाच्छर्व्यवाये इति षत्वप्रसङ्गः । यथा तु शषूपदेशो न कर्तव्यस्तथा'हयवरट्' इत्यत्रोक्तम् । अश्वसनिग्रहणमनर्थकमनिणन्तत्वात् ? अत आह - अश्वसनिग्रहणमिति । ज्ञापनस्य प्रयोजनमाह - जलाषाहमिति ॥ Nyaas ----- `अनः` इति। अविद्यमानो नकारोऽस्येत्यर्थः। `गोषाः` इति। `षणु धाने` (धातुपाठः-1464)। गां सनोतीति **जनसनखनक्रमगमो विट्** (3.2.67) , `विङवनोरनुनासिकस्यात्` (6.4.41) इत्यात्त्वम्। `गोसनिम्` इति। **स्तम्बशकृतोरिन्** (3.2.24) इत्यत इन्नित्यनुवर्तमाने `छन्दसि वनसनरक्षिमयाम्` (3.2.27) इतीन्प्रत्यवः। ननु **पूर्वपदात्** (8.3.106) इत्येव गोषा इत्यादौ षत्वं सिद्धम्। तत्किकर्थमिदमित्याह -`पूर्वपदादित्येव` इति। अविद्यमाननकारस्यैव भवति; नान्यस्येत्येव नियमो यथा स्यादित्येवमर्थमेतत्। यद्येवम्, गोसनिमिति न नियमस्य फलम्, सवनादित्वात्? इत्याह -`अत्र` इत्यादि। इतिकरणो हेतौ। यस्मात्सवनादिषु पाठाद्गोसनिशब्दो नियमस्य फलं न भवति, तस्मात्? केचित्? सिसानयिवतीति प्रत्युदाहरन्ति। `सिसनीरित्यपरे` इति। सनोतेण्र्यन्तस्य सनि रूपम् -सिसानयिषतीति। अत्र यदि नियमार्थमेतन्नोच्येत, तदा स्तौतिण्योरेव (8.3.61) षत्वं स्यात्। अस्मस्तु सति न भवतीति ण्यन्तस्मोदाहरणम्। अम्यन्तस्य स्तीतिण्योरेव (8.3.61) इत्यत एव नियमात्? षत्वनिवृत्तेः सिद्धत्वात्। सिसनोरोति -सनोतेः सन्, इट्, द्विर्वचनम्, सनः सकारस्य णत्वम्; सिसनिष इति स्थिते क्किप्, अतो लोपः (6.4.48) , षत्वस्यासिद्धत्वाद्रूत्वम्, `र्वोरुपदाया दीर्घ हकः` (8.2.76) इति दीर्घः। सिसनीरिति स्थितेऽत्र सनः वत्वभूतस्याभावात्? स्तौतिण्योरेव (8.3.61) इत्येषे नियमो न प्रवर्तते। अत्र यदीदं नोच्येत, **आदेशप्रत्यययोः** (8.3.59) इति मूर्धन्यः स्यात्; अस्मस्तु सत#इ न भवति॥ Prakriyasarvasvam ----------------- नकाररहितस्यैव सनोतेरुक्तषो भवेत् । अग्निः सनोतीत्यादौ न षोषा इन्दो नृषा भवेत् ॥ गोषणि पितुषणिरित्यादि दृश्यते ।