83087: उपसर्गप्रादुर्भ्यामस्तिर्यच्परः

Padacheda: उपसर्ग-प्रादुर्भ्याम् | S | 5 | 2 |

अस्तिः | S | 1 | 1 |

यच्परः | S | 1 | 1 |

Sutrartha


Vasu English Summary

ष् is substituted for the स् of the verb अस् ‘to be’ when it is followed by a vowel or य् and is preceded by प्रादुः or an उपसर्ग (Preposition) इ or उ having in it.

Vasu English Translation

ष् is substituted for the स् of the verb अस् ‘to be’ when it is followed by a vowel or य् and is preceded by प्रादुः or an उपसर्ग (Preposition) इ or उ having in it. The word यच् परः means ‘followed by य् or अच्’ ॥ The word प्रादुः is an Indeclinable, meaning ‘evidently’.

Thus अभिषन्ति, निषन्ति, विषन्ति, प्रादुःषन्ति; अभिष्यात्, निष्यात्, विष्यात्, प्रादुःष्यात् ॥

Why do we say “when preceded by an Upasarga having an इ or उ?” Observe दधिस्यात्, मधुस्यात् ॥ Why do we say ‘of the verb अस्’? Observe अनुसृतम्, विसृतम् ॥

Question:- How is there any occasion for the application of the rule here? The context here relates to स, and the word “upasarga” qualifies that स, but here the upasarga is not applied to स् but to the whole verb सृ, therefore this is no counter-example. In fact, what is the necessity of using the word अस् at all in the sutra: for even without it, the word ‘upasarga’ would qualify that verb which consists of स् only, and such a verb is अस्, with its अ elided and no other verb? Nor is the employment of अस् necessary for प्रादुः, for it comes only in connection with the verbs कृ, भू and अस् ॥

Answer:- All that you urge, is true, yet the following counter-example should be given, as अनुसू, the son of Anusu will be आनुसेयः with ढक् as it belongs to Subhradi class. Thus अनुसू + ढक् = आनुसू + एय = आनुस् + एय ॥ Here the ऊ is elided by (6.4.147). Now when ऊ is elided, the स् is the only verb-element that remains, अनु is upasarga, and एय is affix; so that had अस् not been taken in the sutra, the rule would apply to this स् also.

Why do we say “when it is followed by a vowel or य्”? Observe निस्तः, विस्तः, प्रादुस्तः ॥

Bhashya

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः अस्तिग्रहणं किमर्थम्?॥ इह मा भूत्-अनुसृतं विसृतमिति॥ नैतदस्ति प्रयोजनं-यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चैतं सकारं प्रति क्रियायोगः॥ इहापि तर्हि न प्राप्नोति,-अभिषन्ति विषन्तीति। न ह्यस्तिः क्रियावचनः॥ कः पुनराह नाऽस्तिः क्रियावचन इति। क्रियावचनोऽस्तिः। आतश्च क्रियावचनः,-व्यत्यनुषते-कर्तरि कर्मव्यतिहारे इत्यनेनात्मनेपदं भवति॥ कर्मव्यतिहारश्च कः?॥ क्रियाव्यतिहारः॥ प्रादुःशब्दात्तर्हि मा भूत्॥ प्रादुःशब्दश्च नियतविषयः कृभ्वस्तियोग एव वर्तते॥ उपसर्गात्तर्हि स्यतेर्मा भूदिति॥ इष्यते उपसर्गात्स्यतेः षत्वम्। आतश्चेष्यते-एवं (तर्हि(1)) ह्याह-उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्ञ्जामिति॥ प्रादुःशब्दात्तर्हि स्यतेर्मा(1) भूत्॥ प्रादुःशब्दश्च नियतिविषयः कृभ्वस्तियोग एव वर्तते॥ इदं तर्हि प्रयोजनमिह मा भूत्-अनुसूतेरप्रत्ययः-(अनुसूः(1)), अनुस्वोऽपत्यमानुसेयः॥

Kashika

उपसर्गस्थाद् निमित्तात् प्रादुस्शब्दात् चोत्तरस्य यकारपरस्याच्परस्य चास्तिसकारस्य मूर्धन्यो भवति। अभिषन्ति। निषन्ति। विषन्ति। प्रादुःषन्ति। अभिष्यात्। निष्यात्। विष्यात्। प्रादुःष्यात्। उपसर्गादिति किम् ? दधि स्यात् । मधु स्यात्। अस्तीति किम ? अनुसृतम्। विसृतम्। अथासत्यपि अस्तिग्रहणे सकारमेव प्रत्युपसर्ग आश्रीयते, प्रादुःशब्दस्य च कृभ्वस्तिष्वेव प्रयोग इत्यन्यत्राप्रसङ्गः? तथाप्येतत् प्रत्युदाहर्तव्यम् — अनुसूते अनुसूः, अनुस्वोऽपत्यम् आनुसेयः। शुभ्रादित्वाद् ढक् (४.१.१२३)। ढे लोपोऽकद्र्वाः (६.४.१४७) इत्युवर्णलोपः। यच्पर इति किम् ? निस्तः। विस्तः। प्रादुःस्तः ॥

Siddhanta Kaumudi

उसर्गेऽणः प्रादुसश्च परस्यास्तेः सस्य षः स्यारद्यकासेऽचि च परे । निष्यात् । प्रादुःष्यात् । निषन्ति । प्रादुः षन्ति । यच्परः किम् । अभिस्तः ।{$ {!1066 मृजू!} शुद्धौ$} ॥

Laghu Siddhanta Kaumudi

उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारेऽचि च परे। निष्यात्। प्रनिषन्ति, प्रादुःषन्ति। यच्परः किम्? अभिस्तः॥

Balamanorama

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः - उपसर्गप्रादुभ्र्याम् । उपसर्गः प्रादुस् अनयोद्र्वन्द्वः । इण्कोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण संबध्यते, न प्रादुसि, ततः परस्य अस्तेः सस्य इणः परत्वाऽसंभवात् । कोरित्यपि असंभवान्न संबध्यते । अस्तिरिति षष्ठर्थे प्रथमा । ‘सहेः साडः सः’ इत्यतः स इति षष्ठन्तमनुवर्तते, मूर्धन्य इत्यधिकृतम् । य् अच् — अनयोद्र्वन्द्वः । यचौ परौ यस्मादिति विग्रहः । यकारे अचि च परे इति लभ्यते । तदाह — उपसर्गेण इति । उपसर्गेण इति । उपसर्गस्थादिण इत्यर्थः । परस्येति । अस्तेः सस्य विशेषणमिदम्,न त्वस्तेः, तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति — निष्यात् प्रादुष्ष्यादिति । प्रादुसिति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन षः । षान्तत्वे तुप्रादुभ्र्या॑मिति रुत्वनिर्देशो नोपपद्यते । अच्परकत्वने उदाहरति — निषन्ति प्रादुष्षन्तीति । मृजूष् शुद्धाविति । ऊदित्त्वमिड्विकल्पार्थम् ।षिद्भिदादिभ्यो॑ऽङित्यङर्थं षित्त्वम् । वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करममनार्षमित्याहुः ।

Tattvabodhini

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः - उपसर्गप्रादुभ्र्याम् । प्रादुसिति सान्तमव्ययम् ।प्रादुषश्चे॑ति पाठे प्रादुभ्र्यामिति निर्देशो न युज्यते इति प्राचां षान्तपाठः प्रामादिकः । परस्येति । अयमस्तेः सस्य विशेषणं, न त्वस्तेः । तेन प्रादुरस्तीत्यत्र न षत्वम् । उपसर्गेत्यादि किम् । दधि स्यात् । अस्तेः किम् । परिसृजति । मृजू शुद्धौ । अयं न षित्, भिदादिपाठसामर्थ्यात् ।

Padamanjari

य् च अच्च यचौ, तौ परौ यस्मात्स यच्परः । यचोरिति सप्तमीनिर्देशेनैव सिद्धे परग्रहणं चिन्त्यप्रयोजनम् । अभिषन्तीति । अदादित्वाच्छपो लुक्,’श्नसोरल्लोपः’ । अनुसृतमिति । कथं पुनरत्र प्रसङ्गः, यावता सकारस्य प्रकृतत्वातमेव प्रत्युपसर्गत्वमाश्रयिष्यते; न चात्र सकारं प्रत्युपसर्गत्वमस्ति, तावन्मात्रस्याक्रियावचनत्वात्, तत्किमस्तिग्रहणेन; न च प्रादुः शब्दार्थमस्तिग्रहणं कृतम्, तस्य कृभ्वस्तिविषयत्वेन नियतत्वात्, तदेतदाशङ्कते तावत् । तथापीति । अनुसुशब्दः शुभ्रादिः, चतुष्पाद्वचन इत्यन्ये, ततो ठक्ठञोरन्यतरः,’ढेअ लोपो’ कद्र्वाऽ इत्युकारलोपे सकारमात्रस्य क्रियावाचित्वात् षत्वप्रसङ्गः ॥

Nyaas

इदमपि पूर्ववदप्राप्ते वचनम्। यश्चाच्च तौ यचौ, चचौ परो यस्मात्? स यच्परः। प्रादुःशब्दस्यानुपसर्गत्वात्? पृथग्ग्रहणम्। अभिषन्ति इति। अस भुवि (धातुपाठः-1065) अदादित्वाच्छपो लुक्, श्नसोरल्लोपः (6। 4।111) इत्यकारस्य। अभिष्यात् इति। लिङ्। अनुसुनम्` इति। सृ गतौ (धातुपाठः-935)। ननु च सकारस्य प्रृतत्वात्? तमेव प्रत्युपसर्गत्वमाश्रीयते, न चानुसृतमित्यत्र यः सकारस्तं प्रत्यनुशब्दल्योपसर्गसंज्ञा; तन्मात्रस्यऽक्रियावचनत्वात्, क्रियावचनं च प्रति प्रादीनामुपसर्गसज्ञाविधानात्। ये प्रति क्रियुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति (म।भा।1.4.40) इति वचनात्। तस्मादसत्यप्यस्तिग्रहणे नैवात्र मूर्धन्यः प्रसज्येत। तत्किमस्तिग्रहणेन? तत्रैतत्? स्यात् -असति तस्मिन्? प्रादुःशब्दादुत्तरस्य धात्वन्तरसकारस्य भूर्धन्यः प्राप्नोति; अतस्तन्निवृत्त्यर्थमस्तिग्रहणम्, एतच्च नास्ति; प्रादुःशब्दस्य नियतविषयत्वात्। स हि सर्वदा कृभ्वस्तिथिषय एव प्रयुज्यते। तत्? कुतोऽयं प्रसङ्ग इति यो देशयितुकामस्तदीयं मतम्? अथ इत्यादिना दर्शयति। प्रत्युदाहरणान्तरं वक्तुकाम आह -अन्यत्र इति। अनुसुतमित्यत्र प्रत्युदाहरणे। तथापि इति। एवमपीत्यर्थः। एतेनैतद्दर्शयति -एवमपि कल्प्यमानेऽस्तिग्रहणन्यानुसेय इत्येतत्? प्रत्युदाहरणमस्त्येव। तस्मात्? कर्तव्यमेवास्तिग्रहणम्। षूङ्? प्राणिगर्भविमोचने (धातुपाठः-1031) इत्येतस्मादनुपूर्वात्? क्विप्, अनुसूत इत्यनुसूः, तस्यापत्यं शुभ्रादित्वात्? (4.1.123) ढक्, एयादेशः, ढे लोपेनाऽकद्रवाः (6.4.147) इत्यूकारलोपः। अत्र सकारं प्रत्यनुशब्दस्योपसर्गसंज्ञेत्यसत्यस्तिग्रहणे [संज्ञेत्यस्तिग्रहणे -कांउ।पाठः] स्यादेव मूर्धन्यः॥

Prakriyasarvasvam

यकारेऽचि च परे उपसर्गेणः प्रादुपश्च परस्याऽस्तेः सस्य षः स्यात् । अभिष्यात् । अभिषन्ति । प्रादुष्यात् । प्रादुष्पन्ति । यच्परत्वाभावे षो न । अभिस्तः । तङि अल्लोपः । व्यतिस्ते† । अचूपरत्वात्षः । व्यतिषाते । व्यतिषते । ‘तासस्त्योः—’ इति सलोपः । व्यतिसे । अत्रास्तिसकारत्वाभावात् पदादित्वाच्च न षः । व्यतिषाथे । ‘धिच’ । व्यतिध्वे । ‘ह एति इत्यस्तिसस्य हः । व्यतिहे । व्यतिस्वहे । सीयुटः सलापे व्यतिपीत । व्यतिषीयाताम् । व्यतिषीरन् । व्यतिषीथाः । व्यतिषीध्वम् । व्यतिषीय । व्यतिषीवहि । लोटि व्यतिस्ताम् । व्यतिषाताम् । व्यतिषताम् । ‘तासस्त्यो’रिति सलोपे व्यतिस्व* । ‘धि च’ । व्यतिध्वम् । व्यत्यस् इ । इटष्टेरेत्वे नित्यत्वादेत ऐत्वे ‘ह एति’ इति न । आट्वृद्धी । आटः पित्त्वाद्दल्लोपो न । व्यत्यसै । व्यत्यसावहै । व्यत्यास्त । व्यत्यासाताम् । व्यत्यासत । व्यत्यास्थाः । व्यत्याध्वम् । व्यत्यासि । व्यत्यास्वहि । वच परिभाषणे । वक्ति । क्त्त्वाभावाद् ‘वचिस्वपि—’ इत्युत्वं न । वक्त्तः । वचिरन्तिपरो न प्रयुज्यते । वक्षि । वक्थः । वक्थ । वच्मि । वच्वः । वच्मः । यकः क्ित्त्वाचुत्वम् । उच्यते । लिङि वच्यात् । वच्याताम् । अन्तिपर इत्युक्तेर्लुटोऽन्यत्र ज्ञावपि प्रयोग एवेति माधवाद्याः । वच्युः । वक्तु, वक्तात् । वक्ताम् । वचन्तु । ‘हेधिः’ । कुत्वजश्त्वे । वग्धि । वचानि । वचाव । लङि हल्ङ्यादिलोपः । अवक् अवग् । अवक्ताम् । अवचन् । अवचम् । अवच्व । लुङि—

Sutra Prayogas

  • प्रादुष्कात् (शिशुपालवधम्): उपसर्गप्रादुर्भ्यामस्तिर्यच्परः इति षत्वम्।

  • प्रादुःषन्ति (भट्टिकाव्यम्): उपसर्गप्रादुर्भ्याम् इत्यादिना दुःशब्दादुत्तरत्यास्तिसकारस्य पत्वम्।