83086: अभिनिसः स्तनः शब्दसंज्ञायाम्¶
Padacheda: अभि-निसः | S | 5 | 1 |
स्तनः | S | 6 | 1 |
शब्दसंज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
ष् is optionally substituted for the स् of स्तन् after the double उपसर्ग (Preposition) अभि निस् when the word so formed is the name of a particular letter (विसर्ग).
Vasu English Translation¶
ष् is optionally substituted for the स् of स्तन् after the double उपसर्ग (Preposition) अभि निस् when the word so formed is the name of a particular letter (विसर्ग). As अभिनिष्टानो वर्णः, अभिनिष्टानो विसर्जनीयः or अभिनिस्तानो वर्णः or विसर्जनीयः ॥ The compound preposition अभि-निस् causes this change, and not any one of them separately. Thus Apastamba :- द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं दीर्घभिनिष्टान्तं, घोषवदाद्यन्तरन्तस्थम् “a name (nama) should be such that it should consist of two-syllables or four-syllables, that its first portion should be a noun (nama-purva), and its second portion a verb (akhyata), that it should end in a long vowel (dirgha) or a visarga (abhinishtana), that the first letter of such a noun should be a ghosha or sonant letter (ghosha-vad-adi), and a semi vowel (antastha) should be in the body of it.” Thus the names द्रविणोदा, वरिवोदा fulfill these conditions and are good names.
Why do we say “when it is the name of a particular letter.”? Observe अभिनिस्तनति मृदङ्गः ॥ The anuvritti of समासे ceases from this place.
Kashika¶
अभिनिस् इत्येतस्मादुत्तरस्य स्तनतिसकारस्य मूर्धन्यादेशो भवत्यन्यतरस्यां शब्दसंज्ञायां गम्यमानायाम्। अभिनिष्टानो वर्णः, अभिनिस्तानो वर्णः। अभिनिष्टानो विसर्जनीयः, अभिनिस्तानो विसर्जनीयः। शब्दसंज्ञायामिति किम् ? अभिनिस्स्तनति मृदङ्गः। समास इत्यतः प्रभृति निवृत्तम्॥
Siddhanta Kaumudi¶
अस्मात् स्तनेः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसञ्ज्ञायां किम् । अभिनिःस्तनति मृदङ्गः ॥
Padamanjari¶
अभिनिस् इत्येतस्मादिति । एतेन समुदायो निमितं न प्रत्येकमिति दर्शयति । अभिनिष्टानो विसर्जनीय इति । तथा चापस्तम्बः -‘द्व्यक्षरं चतुरक्षरं वा नाम पूर्वमाख्यातोतरं दीर्घाभिनिष्ठान्तं घोषवदाद्यन्तरन्तरस्थम्’ इति । द्व्यक्षरं चतुरक्षरं वा नाम कर्तव्यम्, कीदृशम् ? नामपूर्वम्, नाम प्रातिपदिकमक्रियावाचि तत्पूर्वपदम्, आख्यातोतरं क्रियावाच्युतरपदं दीर्घात्परो योऽभिनिष्टानो विसर्जनीयस्तदन्तं दीर्घान्तं विसर्जनीयान्तं चेत्यन्ये । गोषवान्वर्ण आदिर्यस्य तद्धोषवदादि, अन्तरन्तस्थं यरलवानामन्यतमं मध्ये यस्य ततथोक्तमेवंभूतं नाम कर्तव्यम् । द्रविणोदा वरिवोदा इत्याद्यौदाहरणम् ॥
Nyaas¶
अनादेशसकारत्वादप्राप्त एव षत्वे वचनम्। ष्टन शब्दे (धातुपाठः-461) इति भौवादिकस्य ग्रहणम्। स्तन गदी देवशब्दे [गदी परिवेदने (धातुपाठः-1860)] (धातुपाठः-1859) इत्यतस्य चौरादिकस्य तु न। तस्य ग्रहणे सत्यदन्तत्वात्? अत उपधायाः (7.2.116) इति न वृद्धिर्लभ्यते। अभि, निस् -इत्येताभ्यामेवेदं षत्वं विधीयते। न हि व्यस्तभ्यामुत्तरस्य तस्य स्तुनतेर्मूर्धन्षे कृते शब्दसंज्ञा गम्यते। अभिनिस इत्येतस्मात् इत्यादि। अभिनिसिति योऽयमुपसर्गसमवायस्तस्मादित्यर्थः। अभिनिष्टानः इति। अभिनिस्तव्यतेऽनेन, अकर्तरि च कारके संज्ञायाम् (3.3.19) इति घञ्। प्रादिसमासः। ननु च समानाधिकारादेवाभिनिःस्तनतीत्यत्र न भविष्यति। किमेतन्निवृत्त्यर्थेन शब्दसंज्ञाग्रहणेन? इत्यत आह -समास इत्यतः प्रभुति निवृत्तम् इति॥
Prakriyasarvasvam¶
अस्मात्परस्य स्तनिधातोः शब्दनाम्नि षः स्यात् । अभिनिष्टान इति विसर्जनीय ।।