83087: उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ====================================== **Padacheda:** उपसर्ग-प्रादुर्भ्याम् | S | 5 | 2 | अस्तिः | S | 1 | 1 | यच्परः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for the स् of the verb अस् 'to be' when it is followed by a vowel or य् and is preceded by प्रादुः or an उपसर्ग (Preposition) इ or उ having in it. Vasu English Translation ------------------------ ष् is substituted for the स् of the verb अस् 'to be' when it is followed by a vowel or य् and is preceded by प्रादुः or an उपसर्ग (Preposition) इ or उ having in it. The word यच् परः means 'followed by य् or अच्' ॥ The word प्रादुः is an Indeclinable, meaning 'evidently'. Thus अभिषन्ति, निषन्ति, विषन्ति, प्रादुःषन्ति; अभिष्यात्, निष्यात्, विष्यात्, प्रादुःष्यात् ॥ Why do we say "when preceded by an *Upasarga* having an इ or उ?" Observe दधिस्यात्, मधुस्यात् ॥ Why do we say 'of the verb अस्'? Observe अनुसृतम्, विसृतम् ॥ Question:- How is there any occasion for the application of the rule here? The context here relates to स, and the word "*upasarga*" qualifies that स, but here the *upasarga* is not applied to स् but to the whole verb सृ, therefore this is no counter-example. In fact, what is the necessity of using the word अस् at all in the *sutra*: for even without it, the word '*upasarga*' would qualify that verb which consists of स् only, and such a verb is अस्, with its अ elided and no other verb? Nor is the employment of अस् necessary for प्रादुः, for it comes only in connection with the verbs कृ, भू and अस् ॥ Answer:- All that you urge, is true, yet the following counter-example should be given, as अनुसू, the son of *Anusu* will be आनुसेयः with ढक् as it belongs to *Subhradi* class. Thus अनुसू + ढक् = आनुसू + एय = आनुस् + एय ॥ Here the ऊ is elided by (6.4.147). Now when ऊ is elided, the स् is the only verb-element that remains, अनु is *upasarga*, and एय is affix; so that had अस् not been taken in the *sutra*, the rule would apply to this स् also. Why do we say "when it is followed by a vowel or य्"? Observe निस्तः, विस्तः, प्रादुस्तः ॥ Bhashya ------- उपसर्गप्रादुर्भ्यामस्तिर्यच्परः अस्तिग्रहणं किमर्थम्?॥ इह मा भूत्-अनुसृतं विसृतमिति॥ नैतदस्ति प्रयोजनं-यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चैतं सकारं प्रति क्रियायोगः॥ इहापि तर्हि न प्राप्नोति,-अभिषन्ति विषन्तीति। न ह्यस्तिः क्रियावचनः॥ कः पुनराह नाऽस्तिः क्रियावचन इति। क्रियावचनोऽस्तिः। आतश्च क्रियावचनः,-व्यत्यनुषते-कर्तरि कर्मव्यतिहारे इत्यनेनात्मनेपदं भवति॥ कर्मव्यतिहारश्च कः?॥ क्रियाव्यतिहारः॥ प्रादुःशब्दात्तर्हि मा भूत्॥ प्रादुःशब्दश्च नियतविषयः कृभ्वस्तियोग एव वर्तते॥ उपसर्गात्तर्हि स्यतेर्मा भूदिति॥ इष्यते उपसर्गात्स्यतेः षत्वम्। आतश्चेष्यते-एवं (तर्हि(1)) ह्याह-उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्ञ्जामिति॥ प्रादुःशब्दात्तर्हि स्यतेर्मा(1) भूत्॥ प्रादुःशब्दश्च नियतिविषयः कृभ्वस्तियोग एव वर्तते॥ इदं तर्हि प्रयोजनमिह मा भूत्-अनुसूतेरप्रत्ययः-(अनुसूः(1)), अनुस्वोऽपत्यमानुसेयः॥ Kashika ------- उपसर्गस्थाद् निमित्तात् प्रादुस्शब्दात् चोत्तरस्य यकारपरस्याच्परस्य चास्तिसकारस्य मूर्धन्यो भवति। अभिषन्ति। निषन्ति। विषन्ति। प्रादुःषन्ति। अभिष्यात्। निष्यात्। विष्यात्। प्रादुःष्यात्। उपसर्गादिति किम् ? दधि स्यात् । मधु स्यात्। अस्तीति किम ? अनुसृतम्। विसृतम्। अथासत्यपि अस्तिग्रहणे सकारमेव प्रत्युपसर्ग आश्रीयते, प्रादुःशब्दस्य च कृभ्वस्तिष्वेव प्रयोग इत्यन्यत्राप्रसङ्गः? तथाप्येतत् प्रत्युदाहर्तव्यम् — अनुसूते अनुसूः, अनुस्वोऽपत्यम् आनुसेयः। शुभ्रादित्वाद् ढक् (४.१.१२३)। **ढे लोपोऽकद्र्वाः** (६.४.१४७) इत्युवर्णलोपः। यच्पर इति किम् ? निस्तः। विस्तः। प्रादुःस्तः ॥ Siddhanta Kaumudi ----------------- उसर्गेऽणः प्रादुसश्च परस्यास्तेः सस्य षः स्यारद्यकासेऽचि च परे । निष्यात् । प्रादुःष्यात् । निषन्ति । प्रादुः षन्ति । यच्परः किम् । अभिस्तः ।{$ {!1066 मृजू!} शुद्धौ$} ॥ Laghu Siddhanta Kaumudi ----------------------- उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारेऽचि च परे। निष्यात्। प्रनिषन्ति, प्रादुःषन्ति। यच्परः किम्? अभिस्तः॥ Balamanorama ------------ **उपसर्गप्रादुर्भ्यामस्तिर्यच्परः** - उपसर्गप्रादुभ्र्याम् । उपसर्गः प्रादुस् अनयोद्र्वन्द्वः । इण्कोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण संबध्यते, न प्रादुसि, ततः परस्य अस्तेः सस्य इणः परत्वाऽसंभवात् । कोरित्यपि असंभवान्न संबध्यते । अस्तिरिति षष्ठर्थे प्रथमा । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते, मूर्धन्य इत्यधिकृतम् । य् अच् — अनयोद्र्वन्द्वः । यचौ परौ यस्मादिति विग्रहः । यकारे अचि च परे इति लभ्यते । तदाह — उपसर्गेण इति । उपसर्गेण इति । उपसर्गस्थादिण इत्यर्थः । परस्येति । अस्तेः सस्य विशेषणमिदम्,न त्वस्तेः, तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति — निष्यात् प्रादुष्ष्यादिति । प्रादुसिति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन षः । षान्तत्वे तुप्रादुभ्र्या॑मिति रुत्वनिर्देशो नोपपद्यते । अच्परकत्वने उदाहरति — निषन्ति प्रादुष्षन्तीति । मृजूष् शुद्धाविति । ऊदित्त्वमिड्विकल्पार्थम् ।षिद्भिदादिभ्यो॑ऽङित्यङर्थं षित्त्वम् । वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करममनार्षमित्याहुः । Tattvabodhini ------------- **उपसर्गप्रादुर्भ्यामस्तिर्यच्परः** - उपसर्गप्रादुभ्र्याम् । प्रादुसिति सान्तमव्ययम् ।प्रादुषश्चे॑ति पाठे प्रादुभ्र्यामिति निर्देशो न युज्यते इति प्राचां षान्तपाठः प्रामादिकः । परस्येति । अयमस्तेः सस्य विशेषणं, न त्वस्तेः । तेन प्रादुरस्तीत्यत्र न षत्वम् । उपसर्गेत्यादि किम् । दधि स्यात् । अस्तेः किम् । परिसृजति । मृजू शुद्धौ । अयं न षित्, भिदादिपाठसामर्थ्यात् । Padamanjari ----------- य् च अच्च यचौ, तौ परौ यस्मात्स यच्परः । यचोरिति सप्तमीनिर्देशेनैव सिद्धे परग्रहणं चिन्त्यप्रयोजनम् । अभिषन्तीति । अदादित्वाच्छपो लुक्,'श्नसोरल्लोपः' । अनुसृतमिति । कथं पुनरत्र प्रसङ्गः, यावता सकारस्य प्रकृतत्वातमेव प्रत्युपसर्गत्वमाश्रयिष्यते; न चात्र सकारं प्रत्युपसर्गत्वमस्ति, तावन्मात्रस्याक्रियावचनत्वात्, तत्किमस्तिग्रहणेन; न च प्रादुः शब्दार्थमस्तिग्रहणं कृतम्, तस्य कृभ्वस्तिविषयत्वेन नियतत्वात्, तदेतदाशङ्कते तावत् । तथापीति । अनुसुशब्दः शुभ्रादिः, चतुष्पाद्वचन इत्यन्ये, ततो ठक्ठञोरन्यतरः,'ढेअ लोपो' कद्र्वाऽ इत्युकारलोपे सकारमात्रस्य क्रियावाचित्वात् षत्वप्रसङ्गः ॥ Nyaas ----- इदमपि पूर्ववदप्राप्ते वचनम्। यश्चाच्च तौ यचौ, चचौ परो यस्मात्? स यच्परः। प्रादुःशब्दस्यानुपसर्गत्वात्? पृथग्ग्रहणम्। `अभिषन्ति` इति। `अस भुवि` (धातुपाठः-1065) अदादित्वाच्छपो लुक्, `श्नसोरल्लोपः` (6। 4।111) इत्यकारस्य। `अभिष्यात्` इति। लिङ्। अनुसुनम्` इति। `सृ गतौ` (धातुपाठः-935)। ननु च सकारस्य प्रृतत्वात्? तमेव प्रत्युपसर्गत्वमाश्रीयते, न चानुसृतमित्यत्र यः सकारस्तं प्रत्यनुशब्दल्योपसर्गसंज्ञा; तन्मात्रस्यऽक्रियावचनत्वात्, क्रियावचनं च प्रति प्रादीनामुपसर्गसज्ञाविधानात्। `ये प्रति क्रियुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति` (म।भा।1.4.40) इति वचनात्। तस्मादसत्यप्यस्तिग्रहणे नैवात्र मूर्धन्यः प्रसज्येत। तत्किमस्तिग्रहणेन? तत्रैतत्? स्यात् -असति तस्मिन्? प्रादुःशब्दादुत्तरस्य धात्वन्तरसकारस्य भूर्धन्यः प्राप्नोति; अतस्तन्निवृत्त्यर्थमस्तिग्रहणम्, एतच्च नास्ति; प्रादुःशब्दस्य नियतविषयत्वात्। स हि सर्वदा कृभ्वस्तिथिषय एव प्रयुज्यते। तत्? कुतोऽयं प्रसङ्ग इति यो देशयितुकामस्तदीयं मतम्? `अथ` इत्यादिना दर्शयति। प्रत्युदाहरणान्तरं वक्तुकाम आह -`अन्यत्र` इति। अनुसुतमित्यत्र प्रत्युदाहरणे। `तथापि` इति। एवमपीत्यर्थः। एतेनैतद्दर्शयति -एवमपि कल्प्यमानेऽस्तिग्रहणन्यानुसेय इत्येतत्? प्रत्युदाहरणमस्त्येव। तस्मात्? कर्तव्यमेवास्तिग्रहणम्। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031) इत्येतस्मादनुपूर्वात्? क्विप्, अनुसूत इत्यनुसूः, तस्यापत्यं शुभ्रादित्वात्? (4.1.123) ढक्, एयादेशः, `ढे लोपेनाऽकद्रवाः` (6.4.147) इत्यूकारलोपः। अत्र सकारं प्रत्यनुशब्दस्योपसर्गसंज्ञेत्यसत्यस्तिग्रहणे [संज्ञेत्यस्तिग्रहणे -कांउ।पाठः] स्यादेव मूर्धन्यः॥ Prakriyasarvasvam ----------------- यकारेऽचि च परे उपसर्गेणः प्रादुपश्च परस्याऽस्तेः सस्य षः स्यात् । अभिष्यात् । अभिषन्ति । प्रादुष्यात् । प्रादुष्पन्ति । यच्परत्वाभावे षो न । अभिस्तः । तङि अल्लोपः । व्यतिस्ते† । अचूपरत्वात्षः । व्यतिषाते । व्यतिषते । 'तासस्त्योः—' इति सलोपः । व्यतिसे । अत्रास्तिसकारत्वाभावात् पदादित्वाच्च न षः । व्यतिषाथे । 'धिच' । व्यतिध्वे । 'ह एति इत्यस्तिसस्य हः । व्यतिहे । व्यतिस्वहे । सीयुटः सलापे व्यतिपीत । व्यतिषीयाताम् । व्यतिषीरन् । व्यतिषीथाः । व्यतिषीध्वम् । व्यतिषीय । व्यतिषीवहि । लोटि व्यतिस्ताम् । व्यतिषाताम् । व्यतिषताम् । 'तासस्त्यो'रिति सलोपे व्यतिस्व* । 'धि च' । व्यतिध्वम् । व्यत्यस् इ । इटष्टेरेत्वे नित्यत्वादेत ऐत्वे 'ह एति' इति न । आट्वृद्धी । आटः पित्त्वाद्दल्लोपो न । व्यत्यसै । व्यत्यसावहै । व्यत्यास्त । व्यत्यासाताम् । व्यत्यासत । व्यत्यास्थाः । व्यत्याध्वम् । व्यत्यासि । व्यत्यास्वहि । वच परिभाषणे । वक्ति । क्त्त्वाभावाद् 'वचिस्वपि—' इत्युत्वं न । वक्त्तः । वचिरन्तिपरो न प्रयुज्यते । वक्षि । वक्थः । वक्थ । वच्मि । वच्वः । वच्मः । यकः क्ित्त्वाचुत्वम् । उच्यते । लिङि वच्यात् । वच्याताम् । अन्तिपर इत्युक्तेर्लुटोऽन्यत्र ज्ञावपि प्रयोग एवेति माधवाद्याः । वच्युः । वक्तु, वक्तात् । वक्ताम् । वचन्तु । 'हेधिः' । कुत्वजश्त्वे । वग्धि । वचानि । वचाव । लङि हल्ङ्यादिलोपः । अवक् अवग् । अवक्ताम् । अवचन् । अवचम् । अवच्व । लुङि— Sutra Prayogas -------------- * **प्रादुष्कात्** (शिशुपालवधम्): `उपसर्गप्रादुर्भ्यामस्तिर्यच्परः` इति षत्वम्। * **प्रादुःषन्ति** (भट्टिकाव्यम्): `उपसर्गप्रादुर्भ्याम्` इत्यादिना दुःशब्दादुत्तरत्यास्तिसकारस्य पत्वम्।