83088: सुविनिर्दुर्भ्यः सुपिसूतिसमाः¶
Padacheda: सु-वि-निर्-दुर्भ्यः | S | 5 | 3 |
सुपि-सूति-समाः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
ष् is substituted for the स् of स्वप् , सूति and सम after सु , वि , निर् and दुर्।
Vasu English Translation¶
ष् is substituted for the स् of स्वप् , सूति and सम after सु , वि , निर् and दुर्। Karika:-
सुपेः षत्वं स्वपेर्मा भूर्द्विसुष्वापेति केन न । हलादिशेषान्न सुपिरिष्टं पूर्वं प्रसारणम् ॥ स्थादीनां नियमो मात्र प्राक्सितादुत्तरः सुपि । अनर्थके विषुषुपः षुपिभूतो द्विरुच्यते ॥
The word सुपि is exhibited in the sutra as the form of स्वप् with vocalisation. Thus सुषुप्तः, निःषुप्तः दुः षुप्तः ॥ The word सूति is the क्तिन् ending form of सू; the rule applies to this form only, as सुषूतिः, विषूतिः, निःषूति and दुःषूतिः ॥ The word सम also means the noun सम and not the verb सम स्तम वैक्लव्ये ॥ Thus सुषमम्, विषमम्, निःषमम्, दुःषमम् ॥
Karika- Why is षत्व taught with regard to the सुप् form of स्वप्? Answer:- सुपेः षत्वं स्वपेर्मा भूत्, so that the षत्व change should not take place in स्वप् form, as विस्वप्नः and विस्वप्नक् (3.2.172) ॥ Question:- विसुष्वापेति केन न? For what reason the षत्व change has not taken place in the reduplicate विसुष्वाप, for here also in the reduplicate, is the form सुप्, as विसुप्स्वप्, and then by applying हलादिशेष rule, the प् is elided, and एकदेशविकृतस्थानन्यत्वात् applies? Answer:- हलादि शेषान् न सुपिः, we reduplicate the form स्वप्, as विस्वप्स्वप् and then elide प्, as विस्वस्वप्, and then vocalise, as विसुस्वप् so that there being no form सुप्, there is no षत्व ॥ इष्टं पूर्वं प्रसारणं, in fact, the vocalisation takes place first, and then elision according to an ishti. See (5.1.1). Otherwise, in स्वप् स्वप्, as प् is elided, व् would also have been elided. Why is the स of विसुष्वाप not changed to ष by (8.3.64), स्थादीनां नियमो नात्र प्राक् सितादुत्तरः सुपि, the rule (8.3.64) does not apply, because that rule is confined only to verbs up to सित in (8.3.70), while सुप् is after that verb. Moreover the प् of सुप् being elided, the mere सु is अनर्थक, and the maxim is अर्थवद् ग्रहणे नानर्थकस्य ॥ Question:- If this maxim is applied, how do you form विषुषुपुः? Answer:- अनर्थके विषुषुपुः षुपिभूतोद्विरुच्यते, here the form षुप् is doubled, and not सुप् ॥ The root is first joined with the affix वि + स्वप्, then there is vocalisation विसुप्, then there is ष change, as विषुप्, then reduplication, as विषुप्षुप् ॥ Now षत्व being considered asiddha, the doubling should take place first? No, for we have already shown that for the purposes of doubling, the षत्व change is not asiddha (8.2.3) Vartika))
Bhashya¶
सुविनिर्दुर्भ्यः सुपिसूतिसमाः किमर्थं स्वपेः सूपिभूतस्य ग्रहणं क्रियते?॥ सुपेः षत्वं(2) स्वपेर्मा भूत्॥ सुपेः षत्वमुच्यते तत्स्वपेर्मा भूदिति। सुस्वप्नः(3) विस्वप्नगिति। ॥ विसुष्वापेति(2) केन न॥ विसुष्वापेत्यत्र कस्मान्न भवति?॥ हलादिशेषान्न(1) सुपिः॥ हलादिशेषे कृते नैष सुपिर्भवति॥ इदमिह संप्रधार्यं हलादिशेषः क्रियतां संप्रसारणमिति; किमत्र कर्तव्यम्?॥ परत्वाद्धलादिः शेषः॥ इष्टं पूर्वं प्रसारणम्(1)॥ इष्यते हलादिः शेषात्पूर्वं संप्रसारणम्॥ आतश्चेष्यते-एवं(तर्हि) ह्याह(2)-अभ्याससम्प्रसारणं हलादिः शेषाद्विप्रतिषेधेनेति॥ एवं तर्हि स्थादिष्वभ्यासेन चाभ्यासस्ये(3)त्येतस्मान्नियमान्न भविष्यति॥ स्थादीनां नियमो नात्र प्राक्सितादुत्तरः(1) सुपिः॥ प्राक्सितसंशब्दनात्स नियमः, उत्तरश्च सुपिः पठ्यते॥ एवं तर्ह्यर्थवद्ग्रहणेनानर्थकस्येत्येवमेतस्य न भविष्यति॥ अनर्थके विषुषुपुः(1)॥ यद्यर्थवतो ग्रहणं विषुषुपुरिति न सिध्यति॥ नैषः दोषः॥ कथम्?॥ सुपिभूतो(4) द्विरुच्यते(1)॥ सुपिभूतस्य द्विर्वचनम्। ॥ सुपेः षत्वं स्वपेर्मा भूद्विसुष्वापेति केन न। हलादिःशेषान्न सुपिरिष्टं पूर्वं प्रसारणम्॥1॥ स्थादीनां नियमो नाऽत्र प्राक्सितादुत्तरः सुपिः। अनर्थके विषुषुपुः सुपिभूतो द्विरुच्यते॥2॥
Kashika¶
सु वि निर् दुर् इत्येतेभ्य उत्तरस्य सुपि सूति सम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुपीति स्वपिः कृतसंप्रसारणो गृह्यते। सुषुप्तः। विषुप्तः। निःषुप्तः। दुःषुप्तः। सूतीति स्वरूपग्रहणम्। सुषूतिः। विषूतिः। निःषूतिः। दुःषूतिः। सम — सुषमम्। विषमम्। निःषमम्। दुःषमम्।
सुषेः षत्वं स्वपेर्मा भूद्विसुष्वापेति केन न ।
हलादिशेषान्न सुपिरिष्टं पूर्वं प्रसारणम्॥ १॥
स्थादीनां नियमो नात्र प्राक्सितादुत्तरः सुपिः।
अनर्थके विषुषुपुः षुपिभूतो द्विरुच्यते ॥ २॥
पूर्वत्रासिद्धीयमद्विर्वचने इति कृते षत्वे ततो द्विर्वचनम्॥
Siddhanta Kaumudi¶
एभ्यः सुप्यादेः सस्य षः स्यात् । पूर्वं धातुरुपसर्गेण युज्यते । किति लिटि परत्वात्संप्रसारणे षत्वे च कृते द्वित्वम् । [(परिभाषा - ) पूर्वत्रासिद्धीयमद्विर्वचने] । सुषुषुपतुः । सुषुषुपुः । अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम् । षत्वस्यसिद्धत्वात्ततः पूर्वं हलादिः शेषः (SK2179) । नित्यत्वाच्च् । ततः सुपिरूपाभावान्न षः । सुसुष्वाप । सुस्वप्ता । अस्वपीत् । अस्वपत् । स्वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् ।{$ {!1069 श्वस!} प्राणने$} । श्वसिति । श्वसिता । अश्वसीत्-अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । ह्म्यन्तक्षण -(SK2299) इति न वृद्धिः । अश्वसीत् ।{$ {!1070 अन!} च$} । अनिति । आन । अनिता । आनीत् । आनत् ॥
Tattvabodhini¶
सुविनिर्दुर्भ्यः सुपिसूतिसमाः - सुपिसूतिसमा इति ।सूति॑ति क्तिन्नन्तः ।समे॑ति पचाद्यजन्तः । सुषुप्तिः । सुषूतिः । सुषमा । विषमः । अद्विर्वचन इति । तेन षत्वसहितस्य द्वित्वम् । सुपिरूपाभावादिति ।एकदेशविकृतमनन्यव॑दिति तु न प्रवर्तते, तस्य स्थानिवत्सूत्रशेषत्वात्, षत्वस्य त्रैपादिकत्वेन तत्कार्यं प्रति स्थानिवत्त्वाऽभावादित्याहुः । वस्तुतस्तुस्थानिवदादेश॑ इत्येनं प्रति त्रिपादी सिद्धेत्युक्तम् । तस्मादिह समाधानान्तरमूह्रमित्यन्ये ।
Padamanjari¶
सुपीत्यागन्तुक इकारः, न पुनरिका निर्देशः । तत्र’वचिस्वपि’ इति लक्षणप्राप्तेन सन्प्रसारणेन धातोरेवायं निर्देशः स्यात्, ततश्च यत्रास्यैतद्रूपं तत्र षत्वमित्ययमर्थो न लभ्यते । तस्मादागन्तुकेनेकारेण प्रयोगस्थस्य कृतसम्प्रसारणस्य रूपस्येदमनुकरणम् । तदाह - सुपीति स्वपिः कृतसम्प्रसारणो गृह्यते इति । एतच्च’सुपि’ इति निर्देशादेव लभ्यते, अन्यथा’वचिस्वपि’ इतिवन्निर्दिशेत् । सूतीति स्वरूपग्रहणमिति । सूतेः क्तिन्नन्तस्य ग्रहणमित्यर्थः । समेत्यपि स्वरूपग्रहणमेव, न’षम ष्टम वैक्लव्ये’ इति धातोर्ग्रहणम्; इक्शितपोरन्यतरस्याभावात् । अथ किमथ स्वपेः सुपि भूतस्य षत्वमुच्यते ? सुपेः षत्वं स्वपेर्मा भूत्, सुपेः षत्वमुच्यते, स्वपेर्मा भूदिति - विस्वप्नः, विस्वप्नमिति । विसुष्वापेति । अथ क्रियमाणेऽपि विकृतग्रहणे विसुष्वापेति केन न हेतुना केन विसुष्वापेत्यत्राभ्यासस्य षत्वं न भवति,’लिट।ल्भ्यासस्योभयेषाम्’ इति सम्प्रसारणे कृते सुपिरूपस्य भावात् प्रागेव हलादिशेषात्, कृते वा तस्मिन्नेकदेशविकृतस्यानन्यत्वादस्ति प्रसङ्गः । हलादिशेषान्न सुपिः । द्विर्वचने कृते परत्वाद्धलादिः शेषेण यकारे निवृते वकारस्य सम्प्रसारणम्, ततश्च सुपिरूपस्य कदाचिदप्यभावात् षत्वाभावः । इष्ट्ंअ पूर्वं प्रसारणम् । उक्तं तत्रोभयेषां ग्रहणस्य प्रयोजनम् - परमपि हलादिशेषं बाधित्वा उभयेषां सम्प्रसारणमेव यथा स्यादिति, तेन सम्प्रसारणमेव पूर्वमिष्टम्, विशेषतश्चात्रेष्टम्, अन्यथा षकारवद्वकारोऽपि निवर्तेत । न ह्यत्र हेतुरस्ति - षकारो निवर्तते वकारोऽवतिष्ठत इति । एवं तर्हि स्थादिष्वेवाभ्यासस्येत्येतस्मादेव नियमादत्र षत्वं न भविष्यति ? स्थादीनां नियमो नात्र । किं कारणम् ? प्राविसतादुतरः सुपि ।’प्राक्सितात्’ इति तत्र वर्तते, तेन प्राक्सिता ये धातवस्तेषां मध्ये स्थादिष्वेवाभ्यासस्य षत्वमिति नियमेन सुनोतिसुवतिस्यतिस्तोभतय एव निवर्त्यन्ते, सुपिस्त्वयं ततोऽवधेरुतरः । एवं तहि ठर्थवद्ग्रहणे नानर्थकस्यऽ इत्येषमेतस्य न भविष्यति, स्थाने हि द्विर्वचनेन समुदायोऽर्थवान्, अवयवौ त्वनर्थकौ, द्विष्प्रयोगेऽर्थप्रत्यायनस्यानावर्तनाद् द्वाभ्यामर्थः प्रत्याय्यत इत्येकस्यानर्थक्यमेव ? तदेतदाह - अनर्थके विषुषुपुः । यद्यनर्थकस्य ग्रहणं न भवति, विषुषुपुरिति न सिद्ध्यति ? नैषः दोषः; षुषिभूतो द्विरुच्यते । अयमभिप्रायः - पूर्वं धातुरुपसर्गेण युज्यते, तत्र द्विर्वचनात् परत्वात्सम्प्रसारणम्, परत्वादेव षत्वम्, कृतषत्वस्यैव तस्य द्विर्वचनमिति । ननु षत्वस्यासिद्धत्वात्पूर्वं द्विर्वचनमेव प्राप्नोति ? अत आह - पूर्वत्रासिद्धीयमद्विर्वचन इति ॥
Nyaas¶
सुपिसूत्योः सात्पदाद्योः (8.3.111) इति निषेधे प्राप्ते। सम इत्येतदन्युत्पुन्नं प्रातिपदिकं सर्वादिषु षठते; तेनास्यादित एवाप्राप्ति षत्वमुच्यते। अथ तु`षम ष्टम अवैकल्पे` (धातुपाठः-829,830) इत्यस्य पचाद्यचि समशब्दो व्युत्पाद्यते, तथा च सनि तस्यापि प्रतिषेधे प्राप्त इदं वचनम्। सुषुप्तः इति। ञिष्वप्? शये [ष्वप -धातुपाठः-] (धातुपाठः-1068), निष्ठा, वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्, एकाचः (7.2.10) इतीट्प्रतिषेधः। सुषूतिः इति। सूतेः सूयतेर्वा स्त्रियां क्तित् (3.3.94) । सूतीति स्वरूपग्रहणम्। यत्रास्यैतद्रूपं नास्ति, तत्र न भवति -सुसूनम्, विसूतमिति। कथं पुनज्र्ञायते -स्वरूपग्रहणमेतत्, न पुनः सूत्र्लुग्विकरणसय ग्रहणमिति? भवति तस्यापि इविश्तपौ धातुनिर्देशे (वा 319) इति श्तिपि कृते सूतिरित्येष निर्दसः? समशब्देन साहचर्यात्? त य हीह स्यरूपं गृह्रत इति। यद्यपि सु पना धातुना साहचर्याद्धातोरपि ग्रहणं युक्तम्, तथापि शब्दपरविप्रतिषेधेन शब्दपरं यत्साहचर्यं तद्बलीय इति समशब्देनैव माहचर्यात स्वरूपमेव गृह्रते, न सुपिना धातुना साहचर्याद्धातुः। अथ किमर्थं सुपेः कृतसम्प्रसारणस्य षत्वमुच्यते? इत्यत आह -सुपेः षत्वं स्वपेर्मा भूत् इत्यादि। सुस्वापः, विस्वपनम्, निस्विपनम्, दुःखपनमित्यत्राकृतसम्प्रसारणस्य स्वपेः षत्वं मा भूदित्येवमर्थ स्वपेः कृतसम्प्रसारणस्य षत्वमुच्यते। यद्येवम्, विसुष्वापेति केन न` इति? स्वपेर्लिट्, तिप्, णल्, द्विर्वचनम्, लिट्यभ्यासस्योभयेषाम् (6.1.17) इति सम्प्रसारणम्। कृतसम्प्रसारणस्य स्वपेरभ्यासस्येति केन हेतुना षत्वं न भवति? नास्त्येव स हेतुयेन हेतुना विसुष्वापेत्यत्र न भविष्यतीत्यभिप्रायः। परस्य तु सकारस्य आदेशप्रत्यययोः (8.3.59) इत्यनेन षत्वं भवत्येव, न तद्धिषयेयं चिन्ता। हलादिशेषान्न सुपिः इति। एतेन येन हेतुना षत्वमत्र न भवति तं दर्शयति। लिट्यभ्यासस्योभयेषाम् (6.1.17) इत्येतस्माद्धि सम्प्रसारणात्परत्वाद्धलादिशेषे कृते यद्यपि पश्चात्? सम्प्रसारणं क्रियते, तथापि सुप इति रूपं न भवति; पकारस्यारणात्परत्वाद्धलादशेषे कृते यद्यपि पश्चात्? सम्प्रसारणं क्रियते, तथापि सुप्? इति रूपंनि भवति; पकारस्याभावात्। तस्मात्? षत्वं न भविष्यतीत्यभिप्रायः। तेन सुप सुप इत्यस्य रूपत्याभावः षत्वाभावे हेतुरुक्तः। पूर्वपक्षवादिना तु प्राक्? सम्प्रसारणे कृते पश्चाद्धलादिशेषेण पकारो निवृत्त इति मन्यमानेन देशितम्। ननु पश्चादपि पकारस्य निवृत्तिः, नैवायं सुपिर्भवति, पकाराभावात्, तत्? किमिति देशितम्? एकदेशविकृतस्यानन्य`त्वात्? (व्या।प।16) सुपिरेवायमित्यभिप्रायः। यदा तु परत्वाद्धलादिशेषे कृते सम्प्रसारणं भवति, तदैकदेशविकृतस्यानन्यत्वे सुपिरयं न भवति; न हि तदा सुपेरेव विकारः, किं तर्हि? स्वपेः। अत आह -`इष्ट पूर्वं सम्प्रसारणम् इति। हलादिशेषादिं पूर्वं सम्प्रसारणमेवेष्यते। तथा ह्रुभयेषां ग्रहणं तत्रैवमर्थं कृतम् -परमपि हलादिशेषं बाधित्वा पूर्वं सम्प्रसारणमेव यथा स्यादिति। तस्मद्धलादिशेषात्पूर्वमभ्यासस्य सम्प्रसारणेणैव भवितव्यमित्युक्तम् -हलादिशेषान्न सुपिरिति। ततश्च विसुष्वापेति केन न इत्येतद्देश्यं तदवस्थमेव। एवं तर्हि स्थादिष्वभ्यासेन चाभ्यासस्य (8.3.64) इति योऽयं नियमः स्थादीनमेवाभ्यासस्य प्रवर्तते, नान्येषामित्येतस्मन्नियमात्? विसुष्वाप इत्यत्राभ्यासस्य षत्वं न भवतीत्यत आह -स्थादीनाम् इत्यादि। स्थादिनिमित्तको नियमः स्थादिनियमः स्थादिभिव्र्यपदिश्यते; स्थादिनिमित्तकत्वं तु नियमस्य तानुपादाय विधानात्। स्थादीनां यो नियमः सोऽत्र न प्रवर्तते। कथं विसुष्वाप इत्यत्राभ्यासस्य षत्वं न भविष्यति? कस्मात्? पुनः स्थादिनियमोऽत्र न प्रवर्तते? इत्यत आह -प्राक्? सितात् इति। तेषु पुनर्नियमविधानादिति शेषः। स्थादिष्वभ्यासेन चाभ्यासस्य। (8.3.64) इत्यत्र `प्राक्सितात् (8.3.63) इति वर्तते। तेन सेवासत` (8.3.70) इत्यत्र सितसंशब्दनाद्ये प्राग्ब्यवस्थिताः सुनोतिसुवतिस्यतिस्तोभतिप्रभृतयस्तेष्वेवागं नियमः, अतस्तेषामेवाभ्यासस्य षत्वं व्यावर्तयति, नान्येषामिति दर्शयति सिद्धान्तवादिमस्तु सामान्येन नियम इत्यभि प्रायः। स्यादेतत् -सुपिरपि प्राक्सितादेव व्यवस्थितः; तेनात्रापि नियमः प्रवर्त्तिष्यते? इत्यत आह -उत्तरः सुयिः इति। सितादित्येतदपेक्षते। सितशब्दादुत्तरः सुपिः पठते, तत्? कुतस्तत्र नियमस्य प्रवृत्तिः अतो नियमेन तदभ्यासस्य षत्वं न व्यावर्त्त्यत इति विसुष्वापेति केन न इत्यविकलं देश्यमेव। एवं तर्हि अर्थवद्ग्रहणे नानर्थकस्य (व्या।प।1) इत्यर्थवेतः सुपेग्र्रहणात्, इह च तस्यानर्थकत्वात्? षत्वं न भविष्यति। न ह्यत्र सुपिरर्थवान्। तथा हि -यदा तादत्? स्थाने द्विर्वचनं तदा समुदाय एवार्थवान्? अवयवस्त्वनर्थक एव। यदा तु द्विष्प्रयोगो द्विर्वचनम्, तदापि शब्दस्यावृत्तिः, नार्थस्य, तेन कृतेऽपि द्विर्वचनं समुदायस्यैवार्थवत्त्वम्, न तु केवलायाः प्रकृतेः, नापि केवलाभ्यासस्येत्यत आह -अनर्थके विषुषुपुः इति। कथं षत्वमिति वाक्यशेषः। यद्यर्थवतः सुपेग्र्रहणात्? विसुध्वाप इत्यत्र षत्वं न भवति, एवं सति विषुषुपुः इत्यत्र कथं षत्वं न भविष्यति, अत्रापि ह्रनर्थकत्वान्नैव षत्वेन भवितव्यम्, यथा विसुष्वापेत्यत्र? इत्यत्र आह सुपिभूतो द्विरुच्यते` [षुपि -प्रांउ।पाठः] इति। पुपीत्येतद्रूपमापन्नोद्विरुच्यत इत्यर्थः। स्वपेर्लिट्, उस्, द्विर्वचनम्, असंयोगाल्लिट्? कित्? (1.2.5) इति कित्त्वम्, वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम। अनेन षत्वम्। विषुप्ुस इति स्थित आन्तरतम्यात्? षुप्? इत्येतस्य द्विर्वचनम्, एवं पुपिभूते द्विरुच्यमाने विषुषुपुरित्यत्राभ्यासस्य षत्वं सिध्यति पिसुष्वापेत्यत्र षुपिभूतस्य द्विर्वचनं नास्ति; पुपिभूतस्याभावात्। तदेवं कुतः सम्प्रसारणे हि कृते षुपिभूते भवितव्यम्? णलः कित्त्वाभावात्? सम्प्रसारणमेव मास्ति, कुतः पुनः षत्वम्। तस्मात्? सुपोत्येतदेव द्विरुच्यते यद्यप्युत्तरकालं सम्प्रसारणे कृते सुपीत्येवं भवति, तथाप्यनर्थकत्वात्? तस्य मूर्धन्यो न भवतीति। तदेवं यदि कृतसम्प्रसारणस्य णत्वं भवति `विसुष्वापेति केन न इति देश्यमर्थवद्ग्रहणपरिभाषा (व्या।प।1) माश्रित्य परिह्मतम्। ननु च द्विर्वचने कर्तव्ये षत्वमसिद्धम्, तत्? किमुच्यते षुपिभूतो द्विरुच्यते इति? अत आह -पूर्वत्रासिद्धीयम् इत्यादि।
Prakriyasarvasvam¶
एभ्यः परस्य सुपेः सूतिसमशब्दयोश्च षः स्यात् । सुपिरिति कृतप्रसारणः स्वपिरुक्तः । सुषुप्तः । विषुप्तः । निष्षुप्तः । दुःषुप्तः । क्वसौ तु षत्वे कृते द्विरुक्तेरभ्यासेऽपि षत्वश्रुतिः । विषुषुप्ष्वान् । एवं सुषूतिः । सुषममित्यादि । कृतह्रस्वा समा, समशब्दो वाऽयम् ।।
Sutra Prayogas¶
क्षत्रिय-दुःषूतेरयं (भट्टिकाव्यम्): सु-वि-निर्- दुर्भ्यः इति पत्वम्।