83083: ज्योतिरायुषः स्तोमः¶
Padacheda: ज्योतिर्-आयुषः | S | 5 | 1 |
स्तोमः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
ष् is substituted for the स् of स्तोम after ज्योतिस् and आयुस् in a compound.
Vasu English Translation¶
ष् is substituted for the स् of स्तोम after ज्योतिस् and आयुस् in a compound. As ज्योतिष्टोमः, आयुष्टोमः, but ज्योतिः स्तोमं दर्शयति where there is no compounding.
Kashika¶
ज्योतिस् आयुस् इत्येताभ्यामुत्तरस्य स्तोमसकारस्य मूर्धन्यादेशो भवति समासे। ज्योतिष्टोमः। आयुष्टोमः। समास इत्येव — ज्योतिः स्तोमं दर्शयति॥
Siddhanta Kaumudi¶
आभ्यां स्तोमस्य सस्य मूर्धन्यः स्यात्समासे । ज्यातिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः ॥
Balamanorama¶
ज्योतिरायुषः स्तोमः - ज्योतिरायुषः स्तोमः । अत्र त्रिसूत्र्याम्-अङ्गुलेः सङ्गः, भीरोः स्थानं, ज्योतिषः स्तोमः,आयुषःस्तोम इत्याद्यर्थे प्रत्यासत्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः । तद्ध्वनयन् प्रत्युदाहरति — अङ्गुलेः सङ्ग इत्यादि । नेहइण्को॑रित्यनुवर्तते, व्याख्यानात् ।
Tattvabodhini¶
ज्योतिरायुषः स्तोमः - ज्योतिषः स्तोम इति । इहज्योतिः स्तोमोऽय॑मिति प्रकत्युदाहर्तुमुचितम् ।
Padamanjari¶
ज्योतिष्टोम इति । अत्र’शर्व्यवाये’ इत्यधिकारात् षत्वम् । एवमायुष्टोमेऽपि ॥
Nyaas¶
ज्योतिःष्टीमः, आयुःरुटोमः इति। षष्ठोसमासः। सकारस्य रुत्वम, विसर्जनीयः, वा शरि (83।36) इति पक्षे सकारः। तस्य तकारस्य च ष्टुत्वम्॥
Prakriyasarvasvam¶
ज्योतिष्टोमः । आयुष्टोमः ।।
Sutra Prayogas¶
ज्योतिष्टोमाऽऽदिषु (भट्टिकाव्यम्): ज्योतिरायुषः स्तोमः इति पत्वम्।