83083: ज्योतिरायुषः स्तोमः ========================== **Padacheda:** ज्योतिर्-आयुषः | S | 5 | 1 | स्तोमः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for the स् of स्तोम after ज्योतिस् and आयुस् in a compound. Vasu English Translation ------------------------ ष् is substituted for the स् of स्तोम after ज्योतिस् and आयुस् in a compound. As ज्योतिष्टोमः, आयुष्टोमः, but ज्योतिः स्तोमं दर्शयति where there is no compounding. Kashika ------- ज्योतिस् आयुस् इत्येताभ्यामुत्तरस्य स्तोमसकारस्य मूर्धन्यादेशो भवति समासे। ज्योतिष्टोमः। आयुष्टोमः। समास इत्येव — ज्योतिः स्तोमं दर्शयति॥ Siddhanta Kaumudi ----------------- आभ्यां स्तोमस्य सस्य मूर्धन्यः स्यात्समासे । ज्यातिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः ॥ Balamanorama ------------ **ज्योतिरायुषः स्तोमः** - ज्योतिरायुषः स्तोमः । अत्र त्रिसूत्र्याम्-अङ्गुलेः सङ्गः, भीरोः स्थानं, ज्योतिषः स्तोमः,आयुषःस्तोम इत्याद्यर्थे प्रत्यासत्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः । तद्ध्वनयन् प्रत्युदाहरति — अङ्गुलेः सङ्ग इत्यादि । नेहइण्को॑रित्यनुवर्तते, व्याख्यानात् । Tattvabodhini ------------- **ज्योतिरायुषः स्तोमः** - ज्योतिषः स्तोम इति । इहज्योतिः स्तोमोऽय॑मिति प्रकत्युदाहर्तुमुचितम् । Padamanjari ----------- ज्योतिष्टोम इति । अत्र'शर्व्यवाये' इत्यधिकारात् षत्वम् । एवमायुष्टोमेऽपि ॥ Nyaas ----- `ज्योतिःष्टीमः, आयुःरुटोमः` इति। षष्ठोसमासः। सकारस्य रुत्वम, विसर्जनीयः, `वा शरि` (83।36) इति पक्षे सकारः। तस्य तकारस्य च ष्टुत्वम्॥ Prakriyasarvasvam ----------------- ज्योतिष्टोमः । आयुष्टोमः ।। Sutra Prayogas -------------- * **ज्योतिष्टोमाऽऽदिषु** (भट्टिकाव्यम्): `ज्योतिरायुषः स्तोमः` इति पत्वम्।