83084: मातृपितृभ्यां स्वसा¶
Padacheda: मातृ-पितृभ्याम् | S | 5 | 2 |
स्वसा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
ष् is optionally substituted for the स् of स्वसृ after मातृ and पितृ in a compound.
Vasu English Translation¶
ष् is optionally substituted for the स् of स्वसृ after मातृ and पितृ in a compound. As मातृष्वसा, पितृष्वसा ॥ See (6.3.24).
Kashika¶
मातृ पितृ इत्येताभ्यामुत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति। मातृष्वसा। पितृष्वसा॥
Siddhanta Kaumudi¶
आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा ॥
Balamanorama¶
मातृपितृभ्यां स्वसा - मातृपितृभ्यां स्वसा । स्वसुरिति । सूत्रे षष्ठर्थे प्रथमेति भावः । मातृष्वसा पितृष्वसेति । लुक्पक्षे नित्यमेव षत्वम् । आदेश प्रत्ययसकारत्वाऽभावादप्राप्ते षत्वविधिरयम् । षत्वविधौ समासग्रहमांनुवृत्तेः फलं दर्शयति — असमासे त्विति । वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः । *****इति बालमनोरमायामलुक्समासः*****अथ तद्धितेष्वपत्याधिकारप्रकरणम् । — — — — — — — — — — — —
Prakriyasarvasvam¶
मातृष्वसा । पितृष्वसा ।।
Sutra Prayogas¶
पितृष्वस्रे (शिशुपालवधम्): मातृपितृभ्यां स्वसा इति षत्वम्।
मातृ-ष्वसेय्याश्च (भट्टिकाव्यम्): मातृ-पितृभ्याम् इति पत्वम्।