83082: अग्नेः स्तुत्स्तोमसोमाः

Padacheda: अग्नेः | S | 5 | 1 |

स्तुत्-स्तोम-सोमाः | S | 1 | 3 |

Sutrartha


Vasu English Summary

ष् is substituted for the स् of 1. स्तुत 2. स्तोम and 3. सोम when preceded by अग्नि in a compound.

Vasu English Translation

ष् is substituted for the स् of 1. स्तुत 2. स्तोम and 3. सोम when preceded by अग्नि in a compound. Thus अग्निष्टुत्, अग्निष्टोमः, अग्नीषोमः ॥

Ishti:- The इ of अग्नि is lengthened before सोम and it is after such lengthened ई, that the स of सोम is changed to ष, otherwise not. As अग्निसोमौ माणवकौ ॥ So also अग्निसोमौ तिष्ठतः (where ‘agni’ means fire, and ‘soma’ a kind of herb) “the fire and the soma plant are here.”

When there is no compounding we have अग्ने सोमः ॥

The word अग्निष्टुत् is formed by क्विप्, the sacrifice in which Agni is praised (स्तूयते) is so called. अग्निष्टोमः is also the name of a sacrifice: the first division (संस्था) of the Soma-yaga. अग्नीषोमः is a देवता-द्वन्द्वः so where there is no Devata-Dvandva, the ष change will not take place. Thus where Agni and Soma are names of two boys, or where they refer to physical fire and herb. According to Asvalayana there is lengthening and ष change in the last case also, as अग्नीषोमौ प्रणेष्यामि ॥

Bhashya

अग्नेः स्तुत्सोमसोमाः ॥ अग्नेर्दीर्घात्सोमस्य॥ अग्नेर्दीर्घात्सोमस्येति वक्तव्यम्। अग्नीषोमौ॥ इतरथा ह्यनिष्टप्रसङ्गः॥ इतरथा ह्यनिष्टं प्रसज्येत। अग्निसोमौ माणवकाविति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। गौणमुख्य(1)योर्मुख्ये सम्प्रतिपत्तिः। तद्यथा गौरनुबन्ध्योऽजो(2) ऽग्नीषोमीयः इति न वाहीकोऽनुबध्यते॥ कथं तर्हि वाहीके वृद्ध्यात्वे भवतो-गौस्तिष्ठति गामानयेति?॥ अर्थाश्रय एतदेवं भवति। यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति॥ शब्दाश्रये च वृद्ध्यात्वे॥ (अग्नेःस्तुत्स्तोमसोमाः)।

Kashika

अग्नेरुत्तरस्य स्तुत् स्तोम सोम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति समासे। अग्निष्टुत्। अग्निष्टोमः। अग्नीषोमौ। अग्नेर्दीर्घात् सोमस्येष्यते। तेनेह न भवति — अग्निसोमौ माणवकौ। तथा च ज्योतिरग्निः, सोमो लताविशेषः। अग्निसोमौ तिष्ठतः। समास इत्येव — अग्नेः स्तोमः॥

Siddhanta Kaumudi

अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ॥

Balamanorama

अग्नेः स्तुत्स्तोमसोमाः - अग्ने स्तुत् । स्तुत्-स्तोम-सोम इति द्वन्द्वात् षष्ठर्थे प्रथमा । ‘सहेः साडः सः’ इत्यतः ‘स’ इति षष्ठएकवचनान्तमनुवर्तते । अग्नेरिति पञ्चमी । ‘समासेऽङ्गुलेः’ इत्यतः समासे इत्यनुवर्तते । तदाह — अग्नेः परेषामिति । षः स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यनुवृत्तेरिति भावः । ‘सात्पदाद्योः’ इति षत्वनिषेधापवादोऽयम् । अग्निष्टुदिति । क्रतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्रविशेषस्य, संस्थाविशेषस्य च नाम । अग्नीषोमाविति । अग्निश्च सोमश्चेति विग्रहः । ईत्त्वषत्वे । अग्नीवरुणाविति । अग्निश्च वरुणश्चेति विग्रहः । ईत्त्वम् । देवताद्वन्द्वे किम् । अग्निर्नाम कश्चित्, सोमो नाम कश्चित् । अग्निसोमौ अदेवताद्वन्द्वत्वादीत्त्वं न । अत एव च न षत्वम्,अग्नेर्दीर्घात् सोमस्य इष्यते॑इति वार्तिकात् । इद्वृद्धौ ।अग्ने॑रिति ‘देवताद्वन्द्वे’ इति चानुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदाऽसम्भवात् । तदाह — वृद्धिमतीति । इदिति तकार उच्चारणार्थः । प्रयोजनाऽभावान्नेत्संज्ञा । नापि तपरकरणं, विधीयमानत्वादेव सवर्माऽग्राहकत्वात् । अग्नामरुताविति.अग्निश्च मरुच्चेति विग्रहः ।देवताद्वन्द्वे चे॑त्यानङ् । आग्निमारुतं कर्मेति ।साऽस्य देवते॑त्यण् । तद्धितान्तप्रातिपदिकावयवत्वात्सुपो लुक् । अग्नोवरुणाविति ।ईदग्ने॑इतीत्त्वम् । आग्निवारुणमिति ।साऽस्य देवते॑त्यण् । ननुतद्धितेष्वचामादे॑रित्यादेरचो वृद्धिविधानात्कथमुत्तरपदस्याऽऽदिवृद्धिरित्यत आह — देवताद्वन्द्वेचेत्युभयपदवृद्धिरिति । नन्वग्नोरिकारस्य इकारविधिव्र्यर्थ इत्यत आह — आनङमीत्त्वं च बाधित्वेति ।आग्निमारुत॑मित्यत्रानङ्,आग्निवारुण॑मित्यत्र ईत्त्वस्य च बाधनार्थग्नोरिकारस्य पुनरिकारविधानमित्यर्थः । ननुसमर्थानां प्रथमाद्रे॑त्यत्र परिनिष्ठितात्तद्धितोत्पत्तिरिति वक्ष्यते । तथा च अग्नामरुतौ देवते अस्येति, अग्नीवरणौ देवते अस्येति च विग्रहे अग्नामरुच्छब्दादग्नीवरुणशब्दाच्च आनङीत्त्वाभ्यां परिनिष्ठिताद्देवताद्वन्द्वात्साऽस्य देवते॑त्यण्तद्धित उत्पद्यते । ततस्तन्निमित्तकोभयपदवृद्धिः । ततः ‘इद्वृद्धौ’ इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानङीत्त्वयोः कथम् ‘इद्वृद्धौ’ इत्यनेन बाधः , युगपत्प्रवृत्तावेव बाध्यवाधकभावाभ्युपगमात् । उक्तं च भाष्ये — ॒भुक्तवन्तं प्रति मा भुक्था इत्युक्ते किं तेन कृतं स्या॑दिति । अत आह — अलौकिके [विग्रह]वाक्ये इति । अग्नि मरुत् औ देवते अस्येति, अग्नि वरुण औ देवते अस्येति च तद्धिताऽलौकिकविग्रहवाक्ये आनङीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीमुत्तरपदस्य वृद्धिमत्त्वं नास्ति,तद्धिताऽभावात् , तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः ।

Tattvabodhini

अग्नेः स्तुत्स्तोमसोमाः - अग्नेः ।सात्पदाद्यो॑रिति निषेधेऽयमारम्भः । अग्निष्टुदिति । अग्निः स्तूयतेऽस्मिन् स कतुविशेषः । सम्पदादित्वादधिकरणे क्विप् । अग्निष्टोम इति । अग्नीनां स्तोमोऽग्निष्टोमः । सोमयागस्य संस्थास्वाद्या संस्थोच्यते ।

Padamanjari

अग्निष्टुअदिति । सम्पदादित्वादधिकरणे क्विप्, यत्राग्निः स्तूयते सोऽग्निष्टुअतुक्रतुविशेषः, तत्रेदं भवति - अपि वा सर्वेषु देवताशब्देष्वग्निमेवाभिसन्नमेदिति । अग्निष्टोम इति । सोमयागस्य सप्तं संस्थाः; तत्राद्या संस्थोच्यते । अग्नेर्दीर्घादिति । देवताद्वन्द्वे षत्वमित्यर्थः; तत्रैव दीर्घस्य विधानात् । अग्निसोमौ माणवकाविति । अत्र माणवके संज्ञात्वेन विनियुक्तावग्निसोमषत्वाभावः । अग्निसोमौ तिष्ठत इति । आश्वलायनस्तु तत्रापि दीर्घषत्वे प्रायुङ्क्त - अग्नीषोमौ प्रणेष्यामीति ॥

Nyaas

पदादिसकारत्वात प्रतिषेधे प्राप्तेऽयमारभ्यते। एवमुत्तरत्रापि। स्तोमसोमशब्दी स्तौतिसुनोतिभ्याम्? अर्तिस्तुसुहुरुसृधुक्षिक्षुभायावापदियक्षिनिभ्यो मन् [क्षुभायापदियक्षिभ्य -द।उ। क्षुभायावापदियक्षीनीभ्यः -प्रांयांउ।पाठः] (द।उ।7।26) इति मन्प्रत्ययं विधाय व्युत्पाद्येते। अव्युगत्पत्तिपक्षे त्वादित एवाप्राप्तेऽनयोः षत्वं विधीयते। अग्निष्टुत् इति। अग्नावुपपदे स्तौतेः क्विप। ह्यस्यस्य` (6.1.69) इत्यादिना तुक। उपपदसमासः। अग्निष्टोभः इति। षष्ठीसमासः अग्निषोमौ इति। द्वन्द्वः, ईदग्ने सोमदरुणयोः` (6.3.26) इतीत्त्वम्। अग्नेर्दीर्घात्? सोमशब्दस्य षत्वभिध्यते (इति)। एतच्च भाष्ये `विभाषेटः (8.3.79) इत्यतो विभाषाग्परहणानुवृत्तेर्लभ्यते। न च तदमुवृत्तादतिप्रसङ्गः स्यात्, व्यवस्थितविभाषाविज्ञानात्॥

Prakriyasarvasvam

अग्नेः परेषामेषां समासे सस्य षः स्यात् । अग्नीषोमौ । अग्नेर्दीर्घादेव सोमस्य षः । तेनाग्निसोमौ द्विजावित्यत्र न ।। अग्निः स्तूयतेऽत्रेति सम्पदादिक्किप्यग्निष्टुत् क्रतुः अग्निष्टोमः ॥

Sutra Prayogas

  • अग्निष्टोमादि-संस्थेषु (भट्टिकाव्यम्): अग्नेः स्तुत् स्तोम- सोमाः इति पत्वम्।