83070: परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्

Padacheda: परि-नि-विभ्यः | S | 5 | 3 |

सेव-सित-सय-सिवु-सह-सुट्-स्तु-स्वञ्जाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

ष् is substituted for the स् of 1. सेव् 2. सित 3. सय 4. सिव् 5. सह 6. the augment सुट् 7. स्तु and 8. स्वज् after the उपसर्ग (Prepositions) परि , नि and वि।

Vasu English Translation

ष् is substituted for the स् of 1. सेव् 2. सित 3. सय 4. सिव् 5. सह 6. the augment सुट् 7. स्तु and 8. स्वज् after the उपसर्ग (Prepositions) परि , नि and वि। The root सेव belongs to Bhuadi class. The word सित is the Past Participle of षिञ् बन्धने, and सय is the noun derived from the same root with the affix अच्; सिच् is a Divadi root.

Thus परिषेवते । निषेवते । विषेवते । पर्यषेवते । व्यषेवते । न्यषेवते । परिषिषेविषते । विषिषेविषते । निषिषेविषते । सित । परिषितो, विषितो, निषितः । सय परिषयो, निषयो, विषयः । सिव् । परिषीव्यति । निषीव्यति । विषीव्यति । पर्यषीव्यत् । न्यषीव्यत् । व्यषीव्यत् । पर्यसीव्यत् । न्यसीव्यत् । व्यसीव्यत् । सह परिषहते । निषहते । विषहते । पर्यषहत । न्यषहत । व्यषहत । पर्यसहत । न्यसहत । व्यसहत । सुट् । परिष्करोति । पर्यस्करोत् । स्तु । परिष्टौति । निष्टौति । विष्टौति । पर्यष्ठौत् । न्यष्टौत् । व्यष्टौत् । पर्यस्तौत् । न्यस्तौत् । व्यस्तौत् । ष्यञ्ज । दंशसञ्जस्वञ्जामिति नलोपः । परिष्वजते । निष्वजते । विष्वजते । पर्यष्वजत । पर्यस्वजत । पूर्वेणैव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम् । अड्व्यवाये विभाषा यथा स्यात् ॥

The nasal is elided in स्वंज् (6.4.25). The स of स्तु and स्वञ्ज् would have been changed to ष by (8.3.65) also. Their inclusion here is for the sake of subsequent sutra, by which the ष change is optional when the augment अट् intervenes.

Kashika

परि नि वि इत्येतेभ्य उपसर्गेभ्य उत्तरेषां सेव सित सय सिवु सह सुट् स्तु स्वञ्ज इत्येतेषां सकारस्य मूर्धन्य आदेशो भवति। परिषेवते। निषेवते। विषेवते। पर्यषेवत। न्यषेवत। व्यषेवत। परिषिषेविषते। निषिषेविषते। विषिषेविषते। सित — परिषितः। निषितः। विषितः। सय — परिषयः। निषयः। विषयः। सिव् — परिषीव्यति। निषीव्यति। विषीव्यति। पर्यषीव्यत्। न्यषीव्यत्। व्यषीव्यत्। पर्यसीव्यत्। न्यसीव्यत्। व्यसीव्यत्। सह — परिषहते। निषहते। विषहते। पर्यषहत। न्यषहत। व्यषहत। पर्यसहत। न्यसहत। व्यसहत। सुट् — परिष्करोति। पर्यष्करोत्। पर्यस्करोत्। स्तु — परिष्टौति। निष्टौति। विष्टौति। पर्यष्टौत्। न्यष्टौत्। व्यष्टौत्। पर्यस्तौत्। न्यस्तौत्। व्यस्तौत्। स्वञ्ज — दंशसञ्जस्वञ्जाम्० (६.४.२५) इति नलोपः। परिष्वजते। निष्वजते। विष्वजते। पर्यष्वजत, पर्यस्वजत। पूर्वेणैव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम्, अड्व्यवाये विभाषा यथा स्यात्॥

Siddhanta Kaumudi

परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ॥

Balamanorama

परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् - परिनिविभ्यः । सेवेत्यकार उच्चारणार्थः ।षेवृ सेवाया॑मिति धातोग्र्रहणम् । परिषेवते । निषेवते । विषेवते । सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम् । अस्यैव धातोरेरजन्तो वा पचाद्यजन्तो वा सयशब्दः । विषितः । विषयः । षिवु तन्तुसन्ताने । परिषीव्यति । षह मर्षणे । परिषहते । सुट् आगमः । परिष्करोति । स्तुस्वञ्जो॑रुपसर्गात्सुनोती॑त्येव सिद्धेसिवादीनां वे॑ति विकल्पार्थं पुनर्वचनम् ।

Tattvabodhini

परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् - परिनिवभ्यः । सेवेत्यत्र अकार उच्चारणार्थः । न च यङ्लुग्निवृत्तये शपा निर्देश एवास्त्विति शङ्क्यं, वकारान्तानामूठ्भाविनां यङ्लुङ् नास्तीति वक्ष्यमाणत्वात् ।षेवृ सेवायाम् । परिषेवते ।षिञ् बन्धने॑ । क्तान्तः सितशब्दः । एरजन्तः पचाद्यजन्तो वा सयशब्दः । विषितः । विषयः । प्रत्ययविशिष्टग्रहणं किम् । विसिनोति ।षिवु तन्तुसन्ताने॑ । परिषीव्यति ।षह मर्षणे॑ परिषहते । सुट आगमः । परिष्करोति । [विष्करोति] । स्तुस्वञ्ज्योःउपसर्गात्सुनोती॑त्येव सिद्धे परिनिविभ्यः परयोरेतयोःसिवादीनां वाड्व्यवायेऽपी॑ति विकल्पार्थं पुनर्वचनम् ।

Padamanjari

सेवतिर्भूवादिष्वनुदातेत् । सित इति ।’षिञ् बन्धने’ क्तान्तः । सय इति । स एवैरजन्तः,’षिवु तन्तुसन्ताने’ दिवादिः,’षह मर्षणे’ अनुदातेत् । सुडिति ।’सुट् कात्पूर्वः’ इत्यस्य ग्रहणम् । स्तुस्वञ्जी उक्तार्थौ, तयोः ठुपसर्गात्सुनोतिऽ इत्यादिनैव सिद्धे पर्यादिपूर्वयोरुतरसूत्रेणाड्व्यवाये विकल्पार्थं वचनम् ॥

Nyaas

षेवृ सेवृ सेवने [नास्ति धातुपाठे] (धातुपाठः-501) इति भ्वादावात्मनेपदिनौ पठएते। योऽत्र वोपदेशस्तस्य सात्पदाद्योः (8.3.111) इति प्रतिषेधे प्राप्ते, इतरस्य त्वप्राप्त एव षत्वे वचनम्। सित इति। षिञ्? बन्धने (धातुपाठः-1248) इत्येतस्य पूर्ववत्? प्रतिषेधे प्राप्ते वचनम्। अपरे तु स्यतेरपि ग्रहणमिच्छन्ति, तस्यापि क्ते द्यतिस्यति (7.4.40) इत्यादिनेत्त्वे कृते सित इति रूपम्। किमर्थं पुनस्तस्य ग्रहणम्, यावता उपसर्गात् सुनोति (8.3.65) इत्यादिना सिद्धमेव? नियमार्थम् -परिनिविभ्य एवोपसर्गेभ्यो यथा स्यात्, अन्येभ्यो मा भूदिति। सय इति। सुनोतेः एरच् (3.3.56) इत्यजन्तस्य ग्रहणमन्यप्रत्ययान्तनिवृत्त्यर्थम्। सिवु इति। षिवु तन्तुसन्ताने (धातुपाठः-1108) पूर्ववत्? प्रतिषेधे प्राप्तेऽस्यग्रहणम्। सह`[नास्ति -प्रांउ।पाठे] इति। `षह मर्षणे (धातुपाठः-852)। सुट् इति। सुट् कात् पूर्वः (6.1.135) सुडागमः, [रुडागमः -कांउ।पाठः] तस्यानादेशसकारत्वादप्राप्त एव षत्व उपादानम्। स्तुस्वञ्जोः उपसर्गात्? सुनोति (8.3.65) इत्यादिनैव सिद्ध उत्तरसूत्रेणाड्व्यवायेऽपि विकल्पो यता स्यादिति ग्रहणम्। परिषोध्यति इति। हलि च (8.2.77) इति दीर्घः। परिष्करोति इति। सम्पर्युपेभ्यः करोतौ भूषणे (6.1.137) इत्यादिना सुट्॥

Prakriyasarvasvam

परिनिविभ्यः परेषां सेवादीनां सस्य षः स्यात् । अत्र सुट्स्तुस्वञ्जामि- त्युक्ते२रस्य सुटः षत्वम् । परिष्करोति । ‘अनचि च’ (८-४-४७) इति षस्य द्वित्वम् । परिष्ष्करोति । सस्य द्वित्वम् । उपस्स्करोति । ‘संस्कृतं भक्षाः’ (४-२-१६) इति सूत्रोक्तेः सम्पूर्वस्याभूषणेऽपि । परिषेवते निषेवते विषेवते । एते सेवान्ताः प्राक्सितात्सुनोत्यादयः स्थादयश्च । शिष्टानां तु परिषितः । एरचि विषयः । निषीव्यति विषहते परिष्टौति परिष्वजते । स्तुस्वञ्ज्योः पुनरुक्तिः सिवादीनां ‘वाऽव्यवायेऽपी’ति अद्व्यवाये परिनिविभ्यो विकल्पाऽर्थेति । गुपू रक्षणे ।

Sutra Prayogas

  • विषेहिरे (शिशुपालवधम्): परिनिविभ्यः सेवसितसयसिवुसह- इत्यादिना सहेः षत्वम्

  • व्यसहत (शिशुपालवधम्): परिनिविभ्यः सेवसितसयसिवुसहसुदः स्तुस्वञ्जाम् इति षत्वप्राप्तिः।

  • पर्यस्कारि (शिशुपालवधम्): परिनिविभ्यः इत्यादिना षत्वप्राप्तिः।

  • विषह्य (भट्टिकाव्यम्): परि-नि विभ्यः इति षत्वम्।

  • पर्यष्वजत (भट्टिकाव्यम्): परि-नि- विभ्यः इत्यादिना षत्वम्।