83069: वेश्च स्वनो भोजने

Padacheda: वेः | S | 5 | 1 |

च | S | 0 | 0 |

स्वनः | S | 6 | 1 |

भोजने | S | 7 | 1 |

Sutrartha


Vasu English Summary

The ष् is substituted for the स् of स्वन् after वि and अव when the sense is ‘to smack while eating’.

Vasu English Translation

The ष् is substituted for the स् of स्वन् after वि and अव when the sense is ‘to smack while eating’. Thus विश्वणति, ष्यष्वणत्, विषष्वाण, अवष्वणति, अवाष्वणत्, अवषष्वाण ॥ That is, he makes sound while eating, he eats with a smack.

Why do we say “when making a smacking sound in eating”? Observe विस्वनति मृदङ्गः “the drum sounds”.

Kashika

वेरुपसर्गादवाच्चोत्तरस्य भोजनार्थ स्वनतेः सकारस्य मूर्धन्यादेशो भवति। विष्वणति। व्यष्वणत्। विषष्वाण। अवष्वणति। अवाष्वणत्। अवषष्वाण। अभ्यवहारक्रियाविशेषोऽभिधीयते, यत्र स्वननमस्ति। भोजन इति किम्? विस्वनति मृदङ्गः॥

Siddhanta Kaumudi

व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥

Balamanorama

वेश्च स्वनो भोजने - वेश्च । अवादित्यनुकर्षणार्थश्चकारः । तदाह — व्यवाभ्यामिति । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थ- । अट्कुप्वाङिति णत्वम् ।

Tattvabodhini

वेश्च स्वनो भोजने - वेश्च । विष्वणति सशब्दं भुङ्क्त इत्यर्थः ।अट्कुप्वा॑ङिति णत्वम् । एवम् — अवष्वणति । व्यष्वणत् । विषष्वाण ।स्थादिष्वभ्यासेन चे॑ति षत्वम् । भोजने किम् । विखनति वीणा ।

Padamanjari

उदाहरणेषु स्वार्थपरित्यागेन भोजनमात्रे स्वनिर्वर्तत इति शङ्कामपनयति - अभ्यवहारक्रियाविशेष इति । तमेव विशेषं दर्शयति - यत्रेति । विष्वणतीति । सशब्दं भुङ्क्त इत्यर्थः ॥

Nyaas

चकारः अवात् (8.3.68) इत्यस्यानुकर्षणार्थः। वेरुत्तरस्य स्वनतेरनादेशसकरत्वादप्राप्ते। अवशब्दात्? पुनरनिणन्तत्वाच्चाप्राप्त एवेदमारभ्यते। अभ्यबहारक्रियाविशेषोऽभिधीयते इति। अनेन भोजनार्थतां दर्शयति। विष्वणति इति। सशब्दं भूङ्क्त इत्यर्थः। अनेकार्थत्वाद्धातूनां स्वनतिरत्राभ्यबहार क्रियाविशेषे वर्तते। यत्र इत्यादिना तमेव भोजनविशेषं दर्शयति॥

Prakriyasarvasvam

व्यवाभ्यां परस्य स्वनेर्भोजनेऽर्थे षः स्यात् । विष्वणति अवष्वणति । सशब्दं भुङ्क्त इति मध्ये वदन् भुङ्क्त इति वार्थः । भुक्तिमात्रमर्थ इत्यन्ये ।

Sutra Prayogas

  • व्यष्वणत् (शिशुपालवधम्): वेश्च स्वनो भोजने इति षत्वम्।

  • विष्वणान् (भट्टिकाव्यम्): वेश्च स्वनो भोजने इति पत्वम्।