83071: सिवादीनां वाऽड्व्यवायेऽपि

Padacheda: सिवादीनाम् | S | 6 | 3 |

वा | S | 0 | 0 |

अड्व्यवाये | S | 7 | 1 |

अपि | S | 0 | 0 |

Sutrartha


Vasu English Summary

The ष् change may take place optionally in the सिव् and the rest (of the last sūtra) even when the augment अ intervenes between the उपसर्ग (Prepositions) परि , नि and वि and the verb.

Vasu English Translation

The ष् change may take place optionally in the सिव् and the rest (of the last sūtra) even when the augment अ intervenes between the उपसर्ग (Prepositions) परि , नि and वि and the verb. The सिवादि are the four roots सिव् सह, स्तु and स्वञ्ज, as well as the augment सुट् ॥ This is an example of ubhayatra-vibhasha. In the case of स्तु and स्वञ्ज् it is prapta-vibhasha, in the case of others it is aprapta. The examples have already been given under the preceding sutra, and so need not be repeated here.

Kashika

अनन्तरसूत्रे सिवुसहसुट्स्तुस्वञ्जाम् (८.३.७०) इति सिवादयः। सिवादीनामड्व्यवायेऽपि परिनिविभ्य उत्तरस्य सकारस्य वा मूर्धन्यो भवति। तथा चैवोदाहृतम्॥

Siddhanta Kaumudi

परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यसहत । पर्यषहत ।{$ {!853 रमु!} क्रीडायाम्$} । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ॥ अथ कसन्ताः परस्मैपदिनः ।{$ {!854 षद्लृ!} विशसणगत्यवसादनेषु$} ॥

Balamanorama

सिवादीनां वाऽड्व्यवायेऽपि - सिवादीनां । ‘परिनिविभ्य’ इति सूत्रादुत्तरमिदं सूत्रम् । तदाह — परिनिविभ्यः परेषामिति ।सिवुसहसुट्स्तुस्वञ्जा॑मिति शेषः । रमु इति । नाऽयमुदिदिति माधवः । केचित्तु उदितं मत्वाउदितो वे॑ति क्त्वायामिड्विकल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि क्रादिनियमादिट् । तदाह — रेमिषे इति । अथ कसन्ता इति । ‘कस गतौ’ इत्येतत्पर्यन्ता इत्यर्थः । षद्लृधातुः षोपदेशोऽनिट्कश्च ।

Tattvabodhini

सिवादीनां वाऽड्व्यवायेऽपि - सिवादीनां । सिवुसहसुट्स्तुस्वञ्जः सिवादयः । पर्यषीव्यत् । पर्यसीव्यत् । पर्यष्करोत् । न्यष्टौत् । न्यस्तौत् । व्यष्वजत् । व्यस्वजत् । रम क्रीडायाम् । अमुमुदितं मत्वा रन्त्वा रमित्वेति केचिदुदाजह्युस्तन्माधवादयो न सहन्ते । तथा च क्त्वायां रन्त्वेत्येव साधु । रेमिषे इति । क्रादिनियमादिट् । पचाद्यचि टाप् । रमा । घञि तु — रामः । अमन्तत्वेन मित्त्वाण्णौ ह्यत्वः । रमयति । षद्लृ । विशरणमवयवानां विश्लेषः । अवसादनं — नाशः ।

Padamanjari

सिवादयः प्रत्यासतेः पूर्वसूत्रे सन्निविष्टा गृह्यन्ते । अभ्यत्रविभाषेयम्, स्तुस्वञ्ज्योः’प्राक् सिताद्’ इति प्राप्ते, इतरेषामप्राप्ते ॥

Nyaas

सिवादयः प्रत्यासत्तेः सिवुसहसुट्स्तुस्वञ्जाम् (8.3.70) इति पूर्वसूत्र एव सन्निनिष्टा गृह्यन्ते, न तु गणसन्निविष्टाः स्तुस्वञ्जोः प्राक्सितादड्व्यवाये (8.3.63) इति प्राप्ते, शेषाणामप्राप्ते विभाषेयमारभ्यते॥

Sutra Prayogas

  • व्यसहत (शिशुपालवधम्): सिवादीनां वाड्व्यवायेऽपि इति विकल्पान्न षत्वम्।

  • पर्यस्कारि (शिशुपालवधम्): सिवादीनां वाड्व्यवायेऽपि इति षत्वविकल्पः।

  • व्यषहत (भट्टिकाव्यम्): सहेः सिवादीनाम् इत्यादिना विभाषा पत्वम्।