83070: परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ================================================== **Padacheda:** परि-नि-विभ्यः | S | 5 | 3 | सेव-सित-सय-सिवु-सह-सुट्-स्तु-स्वञ्जाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for the स् of 1. सेव् 2. सित 3. सय 4. सिव् 5. सह 6. the augment सुट् 7. स्तु and 8. स्वज् after the उपसर्ग (Prepositions) परि , नि and वि। Vasu English Translation ------------------------ ष् is substituted for the स् of 1. सेव् 2. सित 3. सय 4. सिव् 5. सह 6. the augment सुट् 7. स्तु and 8. स्वज् after the उपसर्ग (Prepositions) परि , नि and वि। The root सेव belongs to *Bhuadi* class. The word सित is the Past Participle of षिञ् बन्धने, and सय is the noun derived from the same root with the affix अच्; सिच् is a *Divadi* root. Thus परिषेवते । निषेवते । विषेवते । पर्यषेवते । व्यषेवते । न्यषेवते । परिषिषेविषते । विषिषेविषते । निषिषेविषते । सित । परिषितो, विषितो, निषितः । सय परिषयो, निषयो, विषयः । सिव् । परिषीव्यति । निषीव्यति । विषीव्यति । पर्यषीव्यत् । न्यषीव्यत् । व्यषीव्यत् । पर्यसीव्यत् । न्यसीव्यत् । व्यसीव्यत् । सह परिषहते । निषहते । विषहते । पर्यषहत । न्यषहत । व्यषहत । पर्यसहत । न्यसहत । व्यसहत । सुट् । परिष्करोति । पर्यस्करोत् । स्तु । परिष्टौति । निष्टौति । विष्टौति । पर्यष्ठौत् । न्यष्टौत् । व्यष्टौत् । पर्यस्तौत् । न्यस्तौत् । व्यस्तौत् । ष्यञ्ज । दंशसञ्जस्वञ्जामिति नलोपः । परिष्वजते । निष्वजते । विष्वजते । पर्यष्वजत । पर्यस्वजत । पूर्वेणैव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम् । अड्व्यवाये विभाषा यथा स्यात् ॥ The nasal is elided in स्वंज् (6.4.25). The स of स्तु and स्वञ्ज् would have been changed to ष by (8.3.65) also. Their inclusion here is for the sake of subsequent *sutra*, by which the ष change is optional when the augment अट् intervenes. Kashika ------- परि नि वि इत्येतेभ्य उपसर्गेभ्य उत्तरेषां सेव सित सय सिवु सह सुट् स्तु स्वञ्ज इत्येतेषां सकारस्य मूर्धन्य आदेशो भवति। परिषेवते। निषेवते। विषेवते। पर्यषेवत। न्यषेवत। व्यषेवत। परिषिषेविषते। निषिषेविषते। विषिषेविषते। सित — परिषितः। निषितः। विषितः। सय — परिषयः। निषयः। विषयः। सिव् — परिषीव्यति। निषीव्यति। विषीव्यति। पर्यषीव्यत्। न्यषीव्यत्। व्यषीव्यत्। पर्यसीव्यत्। न्यसीव्यत्। व्यसीव्यत्। सह — परिषहते। निषहते। विषहते। पर्यषहत। न्यषहत। व्यषहत। पर्यसहत। न्यसहत। व्यसहत। सुट् — परिष्करोति। पर्यष्करोत्। पर्यस्करोत्। स्तु — परिष्टौति। निष्टौति। विष्टौति। पर्यष्टौत्। न्यष्टौत्। व्यष्टौत्। पर्यस्तौत्। न्यस्तौत्। व्यस्तौत्। स्वञ्ज — **दंशसञ्जस्वञ्जाम्०** (६.४.२५) इति नलोपः। परिष्वजते। निष्वजते। विष्वजते। पर्यष्वजत, पर्यस्वजत। पूर्वेणैव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम्, अड्व्यवाये विभाषा यथा स्यात्॥ Siddhanta Kaumudi ----------------- परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ॥ Balamanorama ------------ **परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्** - परिनिविभ्यः । सेवेत्यकार उच्चारणार्थः ।षेवृ सेवाया॑मिति धातोग्र्रहणम् । परिषेवते । निषेवते । विषेवते । सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम् । अस्यैव धातोरेरजन्तो वा पचाद्यजन्तो वा सयशब्दः । विषितः । विषयः । षिवु तन्तुसन्ताने । परिषीव्यति । षह मर्षणे । परिषहते । सुट् आगमः । परिष्करोति । स्तुस्वञ्जो॑रुपसर्गात्सुनोती॑त्येव सिद्धेसिवादीनां वे॑ति विकल्पार्थं पुनर्वचनम् । Tattvabodhini ------------- **परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्** - परिनिवभ्यः । सेवेत्यत्र अकार उच्चारणार्थः । न च यङ्लुग्निवृत्तये शपा निर्देश एवास्त्विति शङ्क्यं, वकारान्तानामूठ्भाविनां यङ्लुङ् नास्तीति वक्ष्यमाणत्वात् ।षेवृ सेवायाम् । परिषेवते ।षिञ् बन्धने॑ । क्तान्तः सितशब्दः । एरजन्तः पचाद्यजन्तो वा सयशब्दः । विषितः । विषयः । प्रत्ययविशिष्टग्रहणं किम् । विसिनोति ।षिवु तन्तुसन्ताने॑ । परिषीव्यति ।षह मर्षणे॑ परिषहते । सुट आगमः । परिष्करोति । [विष्करोति] । स्तुस्वञ्ज्योःउपसर्गात्सुनोती॑त्येव सिद्धे परिनिविभ्यः परयोरेतयोःसिवादीनां वाड्व्यवायेऽपी॑ति विकल्पार्थं पुनर्वचनम् । Padamanjari ----------- सेवतिर्भूवादिष्वनुदातेत् । सित इति ।'षिञ् बन्धने' क्तान्तः । सय इति । स एवैरजन्तः,'षिवु तन्तुसन्ताने' दिवादिः,'षह मर्षणे' अनुदातेत् । सुडिति ।'सुट् कात्पूर्वः' इत्यस्य ग्रहणम् । स्तुस्वञ्जी उक्तार्थौ, तयोः ठुपसर्गात्सुनोतिऽ इत्यादिनैव सिद्धे पर्यादिपूर्वयोरुतरसूत्रेणाड्व्यवाये विकल्पार्थं वचनम् ॥ Nyaas ----- `षेवृ सेवृ सेवने` [नास्ति धातुपाठे] (धातुपाठः-501) इति भ्वादावात्मनेपदिनौ पठएते। योऽत्र वोपदेशस्तस्य **सात्पदाद्योः** (8.3.111) इति प्रतिषेधे प्राप्ते, इतरस्य त्वप्राप्त एव षत्वे वचनम्। `सित` इति। `षिञ्? बन्धने` (धातुपाठः-1248) इत्येतस्य पूर्ववत्? प्रतिषेधे प्राप्ते वचनम्। अपरे तु स्यतेरपि ग्रहणमिच्छन्ति, तस्यापि क्ते `द्यतिस्यति` (7.4.40) इत्यादिनेत्त्वे कृते सित इति रूपम्। किमर्थं पुनस्तस्य ग्रहणम्, यावता `उपसर्गात् सुनोति` (8.3.65) इत्यादिना सिद्धमेव? नियमार्थम् -परिनिविभ्य एवोपसर्गेभ्यो यथा स्यात्, अन्येभ्यो मा भूदिति। `सय` इति। सुनोतेः `एरच्` (3.3.56) इत्यजन्तस्य ग्रहणमन्यप्रत्ययान्तनिवृत्त्यर्थम्। `सिवु` इति। `षिवु तन्तुसन्ताने` (धातुपाठः-1108) पूर्ववत्? प्रतिषेधे प्राप्तेऽस्यग्रहणम्। `सह`[नास्ति -प्रांउ।पाठे] इति। `षह मर्षणे` (धातुपाठः-852)। `सुट्` इति। **सुट् कात् पूर्वः** (6.1.135) सुडागमः, [रुडागमः -कांउ।पाठः] तस्यानादेशसकारत्वादप्राप्त एव षत्व उपादानम्। स्तुस्वञ्जोः `उपसर्गात्? सुनोति` (8.3.65) इत्यादिनैव सिद्ध उत्तरसूत्रेणाड्व्यवायेऽपि विकल्पो यता स्यादिति ग्रहणम्। `परिषोध्यति` इति। `हलि च` (8.2.77) इति दीर्घः। `परिष्करोति` इति। **सम्पर्युपेभ्यः करोतौ भूषणे** (6.1.137) इत्यादिना सुट्॥ Prakriyasarvasvam ----------------- परिनिविभ्यः परेषां सेवादीनां सस्य षः स्यात् । अत्र सुट्स्तुस्वञ्जामि- त्युक्ते२रस्य सुटः षत्वम् । परिष्करोति । 'अनचि च' (८-४-४७) इति षस्य द्वित्वम् । परिष्ष्करोति । सस्य द्वित्वम् । उपस्स्करोति । 'संस्कृतं भक्षाः' (४-२-१६) इति सूत्रोक्तेः सम्पूर्वस्याभूषणेऽपि । परिषेवते निषेवते विषेवते । एते सेवान्ताः प्राक्सितात्सुनोत्यादयः स्थादयश्च । शिष्टानां तु परिषितः । एरचि विषयः । निषीव्यति विषहते परिष्टौति परिष्वजते । स्तुस्वञ्ज्योः पुनरुक्तिः सिवादीनां 'वाऽव्यवायेऽपी'ति अद्व्यवाये परिनिविभ्यो विकल्पाऽर्थेति । गुपू रक्षणे । Sutra Prayogas -------------- * **विषेहिरे** (शिशुपालवधम्): `परिनिविभ्यः सेवसितसयसिवुसह-` इत्यादिना सहेः षत्वम् * **व्यसहत** (शिशुपालवधम्): `परिनिविभ्यः सेवसितसयसिवुसहसुदः स्तुस्वञ्जाम्` इति षत्वप्राप्तिः। * **पर्यस्कारि** (शिशुपालवधम्): `परिनिविभ्यः` इत्यादिना षत्वप्राप्तिः। * **विषह्य** (भट्टिकाव्यम्): `परि-नि विभ्यः` इति षत्वम्। * **पर्यष्वजत** (भट्टिकाव्यम्): `परि-नि- विभ्यः` इत्यादिना षत्वम्।