83056: सहेः साडः सः

Padacheda: सहेः | S | 6 | 1 |

साडः | S | 6 | 1 |

सः | S | 6 | 1 |

Sutrartha

सह्-धातोः ‘साड्’ अस्य रूपस्य अपदान्तसकारस्य मूर्धन्यः षकारः भवति ।

‘सह्’ इति भ्वादिगणस्य कश्चन धातुः । यदि अस्य धातोः ‘साड्’ इति रूपान्तरम् प्रक्रियायाम् दृश्यते, तर्हि अस्य सकारस्य षकारादेशः भवति । यथा, ‘तुरम् (=वेगम्) सहते’ अस्मिन् अर्थे सह्-धातोः ‘तुरासाह्’ इति हकारान्तः शब्दः सिद्ध्यति । अस्य प्रथमैकवचनस्य प्रक्रियायाम् - तुरासाह् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → तुरासाह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → तुरासाढ् [हो ढः (8.2.31) इति पदान्तहकारस्य ढकारः] → तुरासाड् [झलां जशोऽन्ते (8.2.39) इति ढकारस्य डकारः] → तुराषाड् [सहे साडः सः (8.3.56) इत्यनेन सह्-धातुनिर्मितः यः साड्-शब्दः, तस्य अपदान्तस्य सकारस्य मूर्धन्यः षकारादेशः भवति ।] → तुराषाड्, तुराषाट् [वाऽवसाने (8.4.56) इति वैकल्पिकं चर्त्वम् ]

Sutrartha (English)

The अपदान्त-सकार present in the ‘साड्’ form of the verb सह् is converted to षकार.

Vasu English Summary

ष् is substituted for the स् in साह when this occurs in the form of साड (साट्).

Vasu English Translation

ष् is substituted for the स् in साह when this occurs in the form of साड (साट्). Thus जलाषाट्, तुराषाट्, पृतनाषाट् ॥ साड् is derived from सह् by the affix ण्वि (7.2.63), there is vriddhi of the penultimate, the ह is changed to ढ (8.2.31). and the upapada is lengthened (6.3.137).

साढः सः would have been enough, for there is no other form साड् except this derived from सह्; why then the word सहेः is used in the sutra? There is another form साड् not derived from सह् ॥ Thus सह डेन वर्त्तते = सडः, सडस्य अपत्यं = साडिः ॥ He in whose name there is the letter ड is called सड; as मृड ॥

Why do we say ‘in the form of साड्’? The rule will not apply when the form is साह, as जलासाहम्, तुरासाहम् ॥ Why do we say सः “for the स”? So that the आ of साड् may not be changed to cerebral : the ड् is already cerebral.

Bhashya

सहेः साडः सः सग्रहणं किमर्थं न सहेस्साडो मूर्द्धन्यो भवतीत्येवोच्येत?॥ सहेस्साडो मूर्द्धन्यो भवतीत्युच्यमानेऽन्त्यस्य प्रसज्येत॥ ननु चाऽन्त्यस्य मूर्द्धन्यवचने(1) प्रयोजनं नास्तीति कृत्वा सकारस्य भविष्यति॥ कुतो नु खल्वेतदनन्त्यार्थे आरम्भे सकारस्य भविष्यति न पुनराकारस्य स्यात्?॥ स्थानेन्तरतमो भवतीति सकारस्य भविष्यति॥ भवेत्प्रकृतितोऽन्तरतमनिर्वृत्तौ सत्यां सिद्धं स्यात्। आदेशतस्त्वन्तरतमनिर्वृत्तौ सत्यामाकारस्य प्रसज्येत। तस्मात् सकारग्रहणं कर्तव्यम्॥सकार(2)ग्रहणमुत्तरार्थम्॥ उत्तरार्थं च सकारग्रहणं क्रियते। आदेशप्रत्यययोस्सकारस्य यथा स्यादिह मा भूत्,-चितं स्तुतम्॥ अथ सहिग्रहणं किमर्थं न साडः सो भवतीत्येवोच्येत?॥ सहेरेव साड्रूपं भवति नान्यस्य भवति(1)। यद्येवं-॥ साडः षत्वे समानशब्दप्रतिषेधः ॥ साडः षत्वे समानशब्दानां प्रतिषेधो वक्तव्यः। साऽडो दण्डः, साऽडो वृश्चिक इति॥ अर्थवद्ग्रहणात्सिद्धम्॥ अर्थवतः साड्(रूप(2))शब्दस्य ग्रहणं, न चैषोऽर्थवान्॥ अर्थवद्ग्रहणात्सिद्धमिति चेत्तद्धितलोपेऽर्थवत्त्वात्प्रतिषेधः॥ अर्थवद्ग्रहणात्सिद्धमिति चेत्तद्धितलोपेऽर्थवत्त्वात्प्रतिषेधो वक्तव्यः। सह अडेन साऽडः, साऽडस्यापत्यं साऽडिरित्यत्र(3) प्राप्नोति॥ स तर्हि वक्तव्यः?(1)॥ न वक्तव्यः। षत्वतुकोरेकादेशस्याऽसिद्धत्वान्नैष साड्शब्दः॥ एवमपि सह डेन सडः, सडस्यापत्यं साडिः,-अत्र प्राप्नोति॥ तस्मात्सहिग्रहणं कर्तव्यम्॥(सहेः साडः सः।)

Kashika

सहेर्धातोः साड्रूपस्य यः सकारस्तस्य मूर्धन्य आदेशो भवति। जलाषाट्। तुराषाट्। पृतनाषाट्। सहेरिति किम्? सह डेन वर्तते सडः, तस्यापत्यं साडिः। साड्ग्रहणं किम्? यत्रास्यैतद् रूपं तत्र यथा स्यात्। इह मा भूत् — तुरासाहम्। स इति किम्? आकारस्य मा भूत्॥

Siddhanta Kaumudi

साड्रूपस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषट् । तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि । तुरं सहत इत्यर्थे छन्दसि सहः (SK3409) इति ण्विः । लोके तु साहयतेः क्विप् । अन्येषामपि (SK539) इति पूर्वपदस्य दीर्घः ॥

Laghu Siddhanta Kaumudi

साड्रूपस्य सहेः सस्य मूर्धन्यादेशः। तुराषाट्, तुराषाड्। तुरासाहौ। तुरासाहः। तुराषाड्भ्यामित्यादि॥

Balamanorama

सहेः साडः सः - अत तुरासाह्शब्दात्सोह्र्यल्ङ्यादिलोपे हस्य ढत्वे कृते विशेषमाह — सहे) साडः सः ।इक्श्तिपौ धातुनिर्देशे॑ इति ‘षह मर्षणे’ इति धातोरिक्प्रत्यये ‘धात्वादेः षः सः’ इति षस्य सत्वे सहिशब्दः । षह्धातोरित्यर्थः । साडिति कृतढत्वडत्ववृद्धेरनुकरणं । तदाह — साडपस्येति । मूर्धन्येति ।अपदान्तस्य मूर्धन्यः॑ इति तदधिकारादिति भावः । मूर्धनि भवः — मूर्धन्यः । मूर्धस्थानक इत्यर्थः । तुराषट् तुराषाडिति । सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्यः षकारः, विवृतप्रयत्नसाम्यात् । ‘वाऽवासाने’ इति चर्त्वपक्षेऽपि मूर्धन्यो भवत्येव, सूत्रे ‘साड’ इति कृतजश्त्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भावः । तुरासाहाविति । अपदान्तत्वान्न मूर्धन्य इति भावः । इत्यादीति । तुराषाड्भिः । तुराषाड्भ्यः । तुरासाहे । तुरासाहः । तुरासाहः । तुरासाहोः । तुराषाट्सु-तुराषाट्त्सु । अथ तुराषाट्शब्दं व्युत्पादयति — तुरं सहते इत्यर्थे छन्दसि सह इतीति । कर्मण्युपपदे सहेर्ण्विः स्याच्छन्दसीति तदर्थः । णकार इत्, उपदावृद्धिः, अपृक्तलोपः । ननु ण्विप्रत्ययस्य छन्दोविषयत्वेन तुरासाह्शब्दस्य कथं लोके प्रयोग इत्यत आह — लोके त्विति । सहेर्ण्यन्तात्क्विपि णिलोपेऽपृक्तलोपे च सति लोके प्रयोज्य इति भावः । ननुनहिवृत्तिवृषिव्यधिरुआआवसाहतनिषु क्वौ॑ इति हि सहौ क्विबन्ते पर एव पूर्वपदस्य विहितो दीर्घः कथमिह स्यादित्यत आह — अन्येषामपीति । सहेः किम् । डकारेण सहितः सडः=मृडादिशब्दः, स यस्य नाम सोषपि लक्षणया सडः । तस्यापत्यम् । [साडिः] । अत इञ् ।यस्येति चे॑त्यकारलोपः । आदिवृद्धिः । साडिरिति रूपम् । अत्र न मूर्धन्य इति भाष्ये स्थितम् । इति हन्ताः । अथ वकारान्ताः । दिव्शब्दः स्त्रीलिङ्गः ।द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बर॑मित्यमरः । सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंसि सुदिव स् इति स्थिते- ।

Tattvabodhini

सहेः साडः सः - सहेः साडः सः । सहेपिति किम् । सह डेन वर्तते सडः । यस्य नाम्निड॑शब्देऽस्ति । यथामृड॑इति । सडस्यापत्यं साडिः । इति हान्ताः ।

Padamanjari

साड्रूपस्येति । साडिति रूपं प्राप्तस्येत्यर्थः । जलाषाडिति ।’भजो ण्विः’ ,’च्छन्दसि सहः’ , उपधावृद्धिः, ढत्वम्, जश्त्वचर्त्वे, ठन्येषामपि दृश्यतेऽ इत्युपपदस्य दीर्घः, सकारस्यान्तरतमो मूर्धन्यः षकारः । सहेरिति किमिति । अन्यत्र साडशब्दस्यासम्भवं मन्यमानस्य प्रश्नः । सह डेनेति । अडः उ वृश्चिरकलाङ्गलम्, तस्यापत्यं साडिरिति । साड इत्यत्र तु साड्शब्दस्यानर्थकत्वादप्रसङ्गं मत्वा तद्धितान्तः प्रत्युदाहृतः, तत्र हि यस्येतिलोपे कृते साडशब्दोऽर्थवान् भवति । न च यस्येतिलोपस्य स्थानिवत्वम्;’पूर्वत्रासिद्धे न स्थानिवत’ इति वचनात् । एवमपि’षत्वतुकोरसिद्धः’ इत्यकादेशस्यासिद्धत्वात् साड्शब्दस्याभावः । तस्मात्सह डेन वर्तत इति सड इति पाठः । यस्य नाम्नि डशब्दो वर्तते स सडः, यथा - मृड इति, तस्यापत्यं साडिः । नन्वत्रापि बहिर्भूततद्धितापेक्षत्वाद्बहिरङ्गा वृद्धिः, क्व तर्हि स्यात् ? जलाषाडिति । नन्वत्रापि बहिर्भूत-णव्यपेक्षया बहिरङ्गैव वृद्धिः ? अथ तत्र वचनाद्भवति, इहापि प्राप्नोति - तुरासाहमिति ? तुरासाहं पुरोधायेत्यादौ तु ण्विरेव दुर्लभः, प्रागेव षत्वम् । आकारस्य मा भूदिति । ठन्त्यस्य मा भूत्ऽ इति तु नोक्तम्; डकारस्य डकारवचने प्रयोजनाभावात् । अथाप्यनन्तरतममूर्धन्यार्थं वचनं स्याद् ? एवमप्यपदान्तस्येत्यन्त्यस्य न भविष्यति । नन्वेवमपि ठलोऽन्त्यस्यऽ इत्यस्मिन्बाधिते सर्वादेशो मूर्धन्यः प्राप्नोति, तत्किमुच्यते - आकारस्य मा भूदिति ? उच्यते; ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इत्याकरस्य मूर्धन्यः प्राप्नोति ॥

Nyaas

साडपस्य इति। साडित्येतद्रूपमापन्नस्येत्यर्थः। जलाषाट् इति। जलं सहत इति भजो ज्विः (3.2.62) इत्यनुवर्तमाने छन्दसि सहः (3.2.63) इति ण्विः, अत उपधायाः (7.2.116) इति वृद्धिः, हो ढः (8.2.31) इति ढत्वम्, तस्य जश्त्वम् -डकारः, अन्येषामपि दृश्यते (6.3.137) इति दीर्घः। सकारस्योष्मणो घोषवत आन्तरतम्यात्? तादृश एव षकारः। सह डेन इत्यादि। डीङः सप्तम्यां जनेर्डः (3.2.97) इत्यनुवर्तमाने अन्येष्वपि दृश्यते (3.2.101) इति डप्रत्ययः; अपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात्। सह डेन वर्तत इति तेन सहेति तुल्ययोगे (2.2.28) इति बहुव्रीहिः, वोपसर्जनस्य (6.3.82) इति सहशब्दस्य सभावः, सडस्यापत्यमिति अत इञि (4.1.95) यस्येति च (6.4.148) इत्यकारलोपः, आदिवृद्धौ च साडिरित्येतद्रूपं भवतीति, असति सहेरित्येतस्मिन्? मूर्घन्यः प्रसज्येत। अचः परस्मिन्? पूर्वविधौ (1.1.57) इत्यकारस्य स्थानिवत्त्वान्नास्ति साडित्येतत्तद्रूपमिति चेत्? न; पूर्वत्रासिद्धे न स्थानिवत् (जै।प।वृ।48) इति स्थानिवद्भावनिषेधात्। नन्वेवमपि नैवात्र साडित्येतद्रूपमस्ति? षत्वे कर्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्व#आत्। इहापि तर्हि न स्यात् -जलाषाडिति? षत्वे कर्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्वादेव; सा ह्रङ्गमाश्रित्य भवति, अङ्गसंज्ञा च प्रत्यये सति, प्रत्ययो ह्रु पपदाश्रय इति व्यक्तमुपधादृद्धेर्बहिरङ्गत्वम्। षत्वं त्वन्तरङ्गं साङ्भूतस्य विधीयत इति असिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इत्यसिद्धत्वात्? षत्वं न भविष्यतीति वचनमिदमनर्थकं स्यात्। तस्मान्मा भूद्वचनस्य वैयथ्र्यमिति नैयं परिभाषोपतिष्ठते। तुरासाहम् इति। द्वितदीयैकवचनान्तमेतत्। क्वचित्? जलासाहम् इति पाठः, स त्वयुक्तः; इष्टत्वादिह षत्वस्य। तथा च वक्ष्यति - (8.3.110) सवनादिष्वआसनिग्रहणमनिणोऽपि षत्वं भवतीति ज्ञापनार्थम्। तेन जलाषाहम्। अआषाहमित्येतत्? सिद्धं भवति इति। स इति किम् इति। एवं मन्यते -अलोऽन्त्यपरिभाषया (1.1.51) अन्तस्य तावङ्डकारेण भवितव्यम्, अन्तस्य भवन्नान्तरतम्याडुकारः स्यात्, एतच्चायुक्तम्; डकारस्य डकारविधाने प्रयोजनाभावात्। तस्मादन्तरेणापि सग्रहणं सकारस्यैव भविष्यति। इतरस्तु इत्येतस्मिन्नसति अनन्त्यविकारेऽन्त्यसदेशस्य (व्या।प।63) इत्याकारस्य द्विमात्रिकस्यान्तरतम्यात्? तादृश ऋकारो मूर्धन्यः स्यादित्यनेनाभिप्रायेणाअह -आकारस्य मा भूत् इति॥

Praudhamanorama

सहेरिति किम्? सह डेन वर्तत इति सडः। यस्य नाम्नि डशब्दोऽस्ति। यथा मृड इति। सडस्यापत्यं साडिः। ॥ इति हान्ताः ॥

Prakriyasarvasvam

साडूपस्य सहेः सस्य मूर्धन्यः स्यात् । षत्वमित्यर्थः । तुराषाड् । साड्रूपाभावे तुरासाहौ । एवं पृतनाषाड् । पृतनासाहौ ॥

Sutra Prayogas

  • तुराषाडिव (रघुवंशम्): सहेः साडः सः इति षत्वम्।

  • तुरासाहं (कुमारसम्भवम्): सहेः साढः सः इति षत्वं न भवति।

  • **** (भट्टिकाव्यम्): सहेः साडः सः इति छन्दोविपयत्वान्नोदाहृतम्।