83057: इण्कोः

Padacheda: इण्कोः | S | 5 | 1 |

Sutrartha

अधिकारोऽयम् । इतः परमस्य पादस्य समाप्तिपर्यन्तम् यत् किमपि कार्यमुच्यते तत् इण्-वर्णात् परस्य कवर्गीयवर्णात् परस्य च भवति ।

एतत् अधिकारसूत्रमस्ति । अपदान्तस्य मूर्धन्यः (8.3.55) अस्मिन् अधिकारे यः मूर्धन्यः आदेशः विधीयते, सः इतः परम् इण्-वर्णात् परस्य, कवर्गीवर्णात् परस्य वर्णस्य स्थानिनः एव भवति, अन्येषाम् न, इति आशयः । ‘इण्’ इत्यत्र परस्य णकारस्य (इत्युक्ते, लण्-प्रत्याहारस्य णकारस्य) ग्रहणं भवति । अतः इण् प्रत्याहारे अ/आ-एतौ विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते ।

Sutrartha (English)

This is an अधिकार, which goes till the end of the पाद. The कार्य designated in this अधिकार happens for a स्थानी that follows an इण् letter or a letter from कवर्ग.

Vasu English Summary

From this, up to the end of the chapter should be supplied, in every sūtra, the following - ‘when a vowel (with the exception of अ or आ) or a र् or a guttural precedes’.

Vasu English Translation

From this, up to the end of the chapter should be supplied, in every sūtra, the following - ‘when a vowel (with the exception of अ or आ) or a र् or a guttural precedes’. The word इण is a pratyahara formed with the second ण् of लण् ॥ It includes all vowels and semivowels excepts अ and आ ॥ Of the semi-vowels र् is only efficient: so that only is taken in the translation. कु means the letters of the क class. Thus इण्कोः is supplied in (8.3.59), to complete the sense. Thus सिषेव, सुष्वाप, अग्निषु, वायुषु, कर्तृषु, हर्तृषु, गीर्षु, धूर्षु, वाक्षु, त्वक्षु ॥

Why do we say “when preceded by इण् or कु”? Observe दास्यति, असौ ॥ Here the affix स of स्यति, and the substitute स in असौ (7.2.106) are not changed to ष ॥

Bhashya

इण्कोः नुम्विसर्जनीयर्शव्यवायेऽपि ॥ ॥ नुम्विसर्जनीयर्शव्यवोये निंसेः प्रतिषेधः॥ नुम्विसर्जनीयर्सव्यवाये निंसेः प्रतिषेधो वक्तव्यः। निंस्से निंस्स्वेति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। नुमैव व्यवाये, विसर्जनीयेनैव व्यवाये शरैव व्यवाये इति॥ किं वक्तव्यमेतत्?॥ न हि कथमनुच्यमानं गंस्यते?॥ प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति। तद्यथा गुणवृद्धिसंज्ञे प्रत्येकं भवतः॥ ननु चायमप्यस्ति दृष्टान्तः-समुदाये वाक्यपरिसमाप्तिः। तद्यथा-गर्गाः शतं दण्ड्यन्तामर्थि नश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति॥ एवं तर्हि॥योगविभागात्सिद्धम्॥(योगविभागात्सिद्धमेतत्(1))। योगविभागः करिष्यते। नुम्व्यवाये। ततो,-विसर्जनीयव्यवाये। ततः र्शव्यवाये॥ स तर्हि योगविभागः कर्तव्यः?॥ न कर्तव्यः। प्रत्येकं व्यवायशब्दः परिसमाप्यते॥

Kashika

इण्कोरित्येतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः, इणः कवर्गात् चेत्येवं तद् वेदितव्यम्। वक्ष्यति — ‘आदेशप्रत्यययोः‘(८.३.५९) — सिषेव। सुष्वाप। अग्निषु। वायुषु। कर्तृषु। हर्तृषु। गीर्षु। धूर्षु। वाक्षु। त्वक्षु। इण्कोरिति किम्? दास्यति। असौ॥

Siddhanta Kaumudi

इत्यधिकृत्य ॥

Balamanorama

इण्कोः - इण्कोः । इत्यधिकृत्येति । उत्तरत्रव विधिष्वनुवर्तत इति भावः । इण् च कुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वेत्वेकवचनमार्षम् । ‘इ’ णिति परणकारेण प्रत्याहारः । कुः=कवर्गः ।

Tattvabodhini

इण्कोः - इण्कोः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । कोः किम् । गवाक्षु । गवाङ्षु ।

Padamanjari

ठिण्ऽ इति परेण णकारेण प्रत्याहरः,’कु’ इति कवर्गस्य ग्रहणम्, तयोः समाहारद्वन्द्वे एकवचनम् । नुमागमस्तु सत्यपि नपुंसकत्वे न कृतः, ठनित्यमागमशास्त्रम्ऽ इति कृत्वा । वाक्ष्विति ।’चोः कुः’ इति कुत्वे कृते कवर्गात्परः सकारः । वर्गग्रहणम्’शासिवसिघसीनां च’ इत्यत्र घकारस्यापि ग्रहणार्थम् - जक्षतुरिति; अन्यथा चर्त्वस्यासिद्धत्वान्न स्यात् । अथ वचनसामर्थ्यात् चर्त्वस्य सिद्धत्वमाश्रीयेत; चिन्त्यं वर्गग्रहणस्य प्रयोजनम् । दास्यतीति । ननु च’नाज्झलौ’ इत्यत्रागृहीतसवर्णानामचां ग्रहणम् - इत्यसकृदुक्तम्, ततश्च यथा कुमारी शेते - इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, ततश्च यथा कुमारी शेते - इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, तथा आकारहकारयोरपि, ततः किम् ? हकारेणेणाकारस्य ग्रहणात् षत्वप्रसङ्गः ? नैष दोषः; हकारो विवृतः, आकारो विवृततरः । एवं हि पठन्ति - विवृतकरणाः स्वराः, तेभ्य एओ विवृततरौ, ताभ्यामैऔ, ताभ्यामप्याकारः संवृतोकार इति । एवं च कृत्वा - ठिष्टकासुऽ,’वयस्यासु’ - इत्यादयो निर्देशा उपपद्यन्ते । असाविति । ठदस औ सुलोपश्चऽ,’तदोः सः सौ’ इत्यादेशसकारोऽयम्, न त्विण्कोः परः ॥

Nyaas

इण्कोः इति द्वन्द्वैकवद्भावं कृत्वैकवचनेन निर्देशः। नुमागमस्तु सत्यपि नपुंसकत्वे अनित्यमागमशासनम् (व्या।प।99) इति न क्रियते। इणिति परेण णकारेण प्रत्याहारग्रहणम्। कु इति कवर्गस्य। कुतः पुतरेत दवसितम् -अनयोग्र्रहणम्, न पुनरिकारककारोकाराणामिति? व्याख्यानात्। सर्वसन्देहेष्विदमुपतिष्ठते -भवति हि व्याच्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति (व्या।प।75)। वाक्षु, त्वक्षु इति। चोः कुः (8.2.30) इति कुत्वम्। दास्यति इति। कथं पुनरिवं प्रत्युदाहरणमुपपद्यते, यावता अणुदित् सवर्णस्य चाप्रत्ययः (1.1.69) इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्; तुल्यस्थानप्रयत्नत्वात्; स्थानमस्ति ह्रनयोस्तुल्यमिति अकुहविसर्जनीयाः कण्ठ्याः इति। प्रयत्नोऽपि तुल्यः -विवृतं करणमूष्मणाअं स्वराणाञ्चेति; तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; नाज्झलौ (1.1.10) इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्; तुल्यस्थानप्रयत्नत्वात्; स्थानमस्ति ह्रनयोस्तुल्यमिति अकुहविसर्जनीयाः कण्ठ्याः इति। प्रयत्नोऽपि तुल्यः -विवृतं करणमूष्मणां स्वराणाञ्चेत्; तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; नाज्झलौ (1.1.10) इति सवर्णसंज्ञाप्रतिषेणादिति चेत्; न;[अयं भागा कांउ।पाठे नास्ति] अगुहीतसवर्णानां प्रतिवेधात्यं भागः कांउ।पाठे नास्ति]? नैष दोषः; यदयं वयस्यासु मूर्ध्नो मतुप् (4.4.127) इतयत्राकारादुत्तरस्य सकारस्य मूर्घन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते -मूध्र्नो मतुप्` (4.4.126) इत्यत्राकारादुत्तरस्य सकारस्य मूर्धन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते -हकारो गृह्रमाणो नाकारं ग्राहयति; अन्यथा वयस्यासु इति निर्देशं न कुर्यात्। असौ इति। तदोः सः सावनन्त्ययोः (7.2.106) इति दकारस्य सकारः, अदस औ सुलोपश्च (7.2.107) इत्यौत्वं सुलोपश्च॥

Sutra Prayogas

  • तप्स्यति (भट्टिकाव्यम्): इण्कोः इति पत्वम् ॥

  • प्रावुवूर्षु (भट्टिकाव्यम्): इण्कोः इति पत्वम्।