83056: सहेः साडः सः =================== **Padacheda:** सहेः | S | 6 | 1 | साडः | S | 6 | 1 | सः | S | 6 | 1 | Sutrartha --------- **सह्-धातोः 'साड्' अस्य रूपस्य अपदान्तसकारस्य मूर्धन्यः षकारः भवति ।** 'सह्' इति भ्वादिगणस्य कश्चन धातुः । यदि अस्य धातोः 'साड्' इति रूपान्तरम् प्रक्रियायाम् दृश्यते, तर्हि अस्य सकारस्य षकारादेशः भवति । यथा, 'तुरम् (=वेगम्) सहते' अस्मिन् अर्थे सह्-धातोः 'तुरासाह्' इति हकारान्तः शब्दः सिद्ध्यति । अस्य प्रथमैकवचनस्य प्रक्रियायाम् - तुरासाह् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → तुरासाह् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → तुरासाढ् [**हो ढः** (8.2.31) इति पदान्तहकारस्य ढकारः] → तुरासाड् [**झलां जशोऽन्ते** (8.2.39) इति ढकारस्य डकारः] → तुराषाड् [**सहे साडः सः** (8.3.56) इत्यनेन सह्-धातुनिर्मितः यः साड्-शब्दः, तस्य अपदान्तस्य सकारस्य मूर्धन्यः षकारादेशः भवति ।] → तुराषाड्, तुराषाट् [**वाऽवसाने** (8.4.56) इति वैकल्पिकं चर्त्वम् ] Sutrartha (English) ------------------- The अपदान्त-सकार present in the 'साड्' form of the verb सह् is converted to षकार. Vasu English Summary -------------------- ष् is substituted for the स् in साह when this occurs in the form of साड (साट्). Vasu English Translation ------------------------ ष् is substituted for the स् in साह when this occurs in the form of साड (साट्). Thus जलाषाट्, तुराषाट्, पृतनाषाट् ॥ साड् is derived from सह् by the affix ण्वि (7.2.63), there is *vriddhi* of the penultimate, the ह is changed to ढ (8.2.31). and the *upapada* is lengthened (6.3.137). साढः सः would have been enough, for there is no other form साड् except this derived from सह्; why then the word सहेः is used in the *sutra*? There is another form साड् not derived from सह् ॥ Thus सह डेन वर्त्तते = सडः, सडस्य अपत्यं = साडिः ॥ He in whose name there is the letter ड is called सड; as मृड ॥ Why do we say 'in the form of साड्'? The rule will not apply when the form is साह, as जलासाहम्, तुरासाहम् ॥ Why do we say सः "for the स"? So that the आ of साड् may not be changed to cerebral : the ड् is already cerebral. Bhashya ------- सहेः साडः सः सग्रहणं किमर्थं न सहेस्साडो मूर्द्धन्यो भवतीत्येवोच्येत?॥ सहेस्साडो मूर्द्धन्यो भवतीत्युच्यमानेऽन्त्यस्य प्रसज्येत॥ ननु चाऽन्त्यस्य मूर्द्धन्यवचने(1) प्रयोजनं नास्तीति कृत्वा सकारस्य भविष्यति॥ कुतो नु खल्वेतदनन्त्यार्थे आरम्भे सकारस्य भविष्यति न पुनराकारस्य स्यात्?॥ स्थानेन्तरतमो भवतीति सकारस्य भविष्यति॥ भवेत्प्रकृतितोऽन्तरतमनिर्वृत्तौ सत्यां सिद्धं स्यात्। आदेशतस्त्वन्तरतमनिर्वृत्तौ सत्यामाकारस्य प्रसज्येत। तस्मात् सकारग्रहणं कर्तव्यम्॥सकार(2)ग्रहणमुत्तरार्थम्॥ उत्तरार्थं च सकारग्रहणं क्रियते। आदेशप्रत्यययोस्सकारस्य यथा स्यादिह मा भूत्,-चितं स्तुतम्॥ अथ सहिग्रहणं किमर्थं न साडः सो भवतीत्येवोच्येत?॥ सहेरेव साड्रूपं भवति नान्यस्य भवति(1)। यद्येवं-॥ साडः षत्वे समानशब्दप्रतिषेधः ॥ साडः षत्वे समानशब्दानां प्रतिषेधो वक्तव्यः। साऽडो दण्डः, साऽडो वृश्चिक इति॥ अर्थवद्ग्रहणात्सिद्धम्॥ अर्थवतः साड्(रूप(2))शब्दस्य ग्रहणं, न चैषोऽर्थवान्॥ अर्थवद्ग्रहणात्सिद्धमिति चेत्तद्धितलोपेऽर्थवत्त्वात्प्रतिषेधः॥ अर्थवद्ग्रहणात्सिद्धमिति चेत्तद्धितलोपेऽर्थवत्त्वात्प्रतिषेधो वक्तव्यः। सह अडेन साऽडः, साऽडस्यापत्यं साऽडिरित्यत्र(3) प्राप्नोति॥ स तर्हि वक्तव्यः?(1)॥ न वक्तव्यः। षत्वतुकोरेकादेशस्याऽसिद्धत्वान्नैष साड्शब्दः॥ एवमपि सह डेन सडः, सडस्यापत्यं साडिः,-अत्र प्राप्नोति॥ तस्मात्सहिग्रहणं कर्तव्यम्॥(सहेः साडः सः।) Kashika ------- सहेर्धातोः साड्रूपस्य यः सकारस्तस्य मूर्धन्य आदेशो भवति। जलाषाट्। तुराषाट्। पृतनाषाट्। सहेरिति किम्? सह डेन वर्तते सडः, तस्यापत्यं साडिः। साड्ग्रहणं किम्? यत्रास्यैतद् रूपं तत्र यथा स्यात्। इह मा भूत् — तुरासाहम्। स इति किम्? आकारस्य मा भूत्॥ Siddhanta Kaumudi ----------------- साड्रूपस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषट् । तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि । तुरं सहत इत्यर्थे छन्दसि सहः (SK3409) इति ण्विः । लोके तु साहयतेः क्विप् । अन्येषामपि (SK539) इति पूर्वपदस्य दीर्घः ॥ Laghu Siddhanta Kaumudi ----------------------- साड्रूपस्य सहेः सस्य मूर्धन्यादेशः। तुराषाट्, तुराषाड्। तुरासाहौ। तुरासाहः। तुराषाड्भ्यामित्यादि॥ Balamanorama ------------ **सहेः साडः सः** - अत तुरासाह्शब्दात्सोह्र्यल्ङ्यादिलोपे हस्य ढत्वे कृते विशेषमाह — सहे) साडः सः ।इक्श्तिपौ धातुनिर्देशे॑ इति 'षह मर्षणे' इति धातोरिक्प्रत्यये 'धात्वादेः षः सः' इति षस्य सत्वे सहिशब्दः । षह्धातोरित्यर्थः । साडिति कृतढत्वडत्ववृद्धेरनुकरणं । तदाह — साडपस्येति । मूर्धन्येति ।अपदान्तस्य मूर्धन्यः॑ इति तदधिकारादिति भावः । मूर्धनि भवः — मूर्धन्यः । मूर्धस्थानक इत्यर्थः । तुराषट् तुराषाडिति । सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्यः षकारः, विवृतप्रयत्नसाम्यात् । 'वाऽवासाने' इति चर्त्वपक्षेऽपि मूर्धन्यो भवत्येव, सूत्रे 'साड' इति कृतजश्त्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भावः । तुरासाहाविति । अपदान्तत्वान्न मूर्धन्य इति भावः । इत्यादीति । तुराषाड्भिः । तुराषाड्भ्यः । तुरासाहे । तुरासाहः । तुरासाहः । तुरासाहोः । तुराषाट्सु-तुराषाट्त्सु । अथ तुराषाट्शब्दं व्युत्पादयति — तुरं सहते इत्यर्थे छन्दसि सह इतीति । कर्मण्युपपदे सहेर्ण्विः स्याच्छन्दसीति तदर्थः । णकार इत्, उपदावृद्धिः, अपृक्तलोपः । ननु ण्विप्रत्ययस्य छन्दोविषयत्वेन तुरासाह्शब्दस्य कथं लोके प्रयोग इत्यत आह — लोके त्विति । सहेर्ण्यन्तात्क्विपि णिलोपेऽपृक्तलोपे च सति लोके प्रयोज्य इति भावः । ननुनहिवृत्तिवृषिव्यधिरुआआवसाहतनिषु क्वौ॑ इति हि सहौ क्विबन्ते पर एव पूर्वपदस्य विहितो दीर्घः कथमिह स्यादित्यत आह — अन्येषामपीति । सहेः किम् । डकारेण सहितः सडः=मृडादिशब्दः, स यस्य नाम सोषपि लक्षणया सडः । तस्यापत्यम् । [साडिः] । अत इञ् ।यस्येति चे॑त्यकारलोपः । आदिवृद्धिः । साडिरिति रूपम् । अत्र न मूर्धन्य इति भाष्ये स्थितम् । इति हन्ताः । अथ वकारान्ताः । दिव्शब्दः स्त्रीलिङ्गः ।द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बर॑मित्यमरः । सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंसि सुदिव स् इति स्थिते- । Tattvabodhini ------------- **सहेः साडः सः** - सहेः साडः सः । सहेपिति किम् । सह डेन वर्तते सडः । यस्य नाम्निड॑शब्देऽस्ति । यथामृड॑इति । सडस्यापत्यं साडिः । इति हान्ताः । Padamanjari ----------- साड्रूपस्येति । साडिति रूपं प्राप्तस्येत्यर्थः । जलाषाडिति ।'भजो ण्विः' ,'च्छन्दसि सहः' , उपधावृद्धिः, ढत्वम्, जश्त्वचर्त्वे, ठन्येषामपि दृश्यतेऽ इत्युपपदस्य दीर्घः, सकारस्यान्तरतमो मूर्धन्यः षकारः । सहेरिति किमिति । अन्यत्र साडशब्दस्यासम्भवं मन्यमानस्य प्रश्नः । सह डेनेति । अडः उ वृश्चिरकलाङ्गलम्, तस्यापत्यं साडिरिति । साड इत्यत्र तु साड्शब्दस्यानर्थकत्वादप्रसङ्गं मत्वा तद्धितान्तः प्रत्युदाहृतः, तत्र हि यस्येतिलोपे कृते साडशब्दोऽर्थवान् भवति । न च यस्येतिलोपस्य स्थानिवत्वम्;'पूर्वत्रासिद्धे न स्थानिवत' इति वचनात् । एवमपि'षत्वतुकोरसिद्धः' इत्यकादेशस्यासिद्धत्वात् साड्शब्दस्याभावः । तस्मात्सह डेन वर्तत इति सड इति पाठः । यस्य नाम्नि डशब्दो वर्तते स सडः, यथा - मृड इति, तस्यापत्यं साडिः । नन्वत्रापि बहिर्भूततद्धितापेक्षत्वाद्बहिरङ्गा वृद्धिः, क्व तर्हि स्यात् ? जलाषाडिति । नन्वत्रापि बहिर्भूत-णव्यपेक्षया बहिरङ्गैव वृद्धिः ? अथ तत्र वचनाद्भवति, इहापि प्राप्नोति - तुरासाहमिति ? तुरासाहं पुरोधायेत्यादौ तु ण्विरेव दुर्लभः, प्रागेव षत्वम् । आकारस्य मा भूदिति । ठन्त्यस्य मा भूत्ऽ इति तु नोक्तम्; डकारस्य डकारवचने प्रयोजनाभावात् । अथाप्यनन्तरतममूर्धन्यार्थं वचनं स्याद् ? एवमप्यपदान्तस्येत्यन्त्यस्य न भविष्यति । नन्वेवमपि ठलोऽन्त्यस्यऽ इत्यस्मिन्बाधिते सर्वादेशो मूर्धन्यः प्राप्नोति, तत्किमुच्यते - आकारस्य मा भूदिति ? उच्यते; ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इत्याकरस्य मूर्धन्यः प्राप्नोति ॥ Nyaas ----- `साडपस्य` इति। साडित्येतद्रूपमापन्नस्येत्यर्थः। `जलाषाट्` इति। जलं सहत इति `भजो ज्विः` (3.2.62) इत्यनुवर्तमाने **छन्दसि सहः** (3.2.63) इति ण्विः, **अत उपधायाः** (7.2.116) इति वृद्धिः, `हो ढः` (8.2.31) इति ढत्वम्, तस्य जश्त्वम् -डकारः, **अन्येषामपि दृश्यते** (6.3.137) इति दीर्घः। सकारस्योष्मणो घोषवत आन्तरतम्यात्? तादृश एव षकारः। `सह डेन` इत्यादि। डीङः **सप्तम्यां जनेर्डः** (3.2.97) इत्यनुवर्तमाने **अन्येष्वपि दृश्यते** (3.2.101) इति डप्रत्ययः; अपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात्। सह डेन वर्तत इति **तेन सहेति तुल्ययोगे** (2.2.28) इति बहुव्रीहिः, **वोपसर्जनस्य** (6.3.82) इति सहशब्दस्य सभावः, सडस्यापत्यमिति अत इञि (4.1.95) **यस्येति च** (6.4.148) इत्यकारलोपः, आदिवृद्धौ च साडिरित्येतद्रूपं भवतीति, असति सहेरित्येतस्मिन्? मूर्घन्यः प्रसज्येत। `अचः परस्मिन्? पूर्वविधौ` (1.1.57) इत्यकारस्य स्थानिवत्त्वान्नास्ति साडित्येतत्तद्रूपमिति चेत्? न; `पूर्वत्रासिद्धे न स्थानिवत्` (जै।प।वृ।48) इति स्थानिवद्भावनिषेधात्। नन्वेवमपि नैवात्र साडित्येतद्रूपमस्ति? षत्वे कर्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्व#आत्। इहापि तर्हि न स्यात् -जलाषाडिति? षत्वे कर्तव्ये बहिरङ्गाया वृद्धेरसिद्धत्वादेव; सा ह्रङ्गमाश्रित्य भवति, अङ्गसंज्ञा च प्रत्यये सति, प्रत्ययो ह्रु पपदाश्रय इति व्यक्तमुपधादृद्धेर्बहिरङ्गत्वम्। षत्वं त्वन्तरङ्गं साङ्भूतस्य विधीयत इति `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यसिद्धत्वात्? षत्वं न भविष्यतीति वचनमिदमनर्थकं स्यात्। तस्मान्मा भूद्वचनस्य वैयथ्र्यमिति नैयं परिभाषोपतिष्ठते। `तुरासाहम्` इति। द्वितदीयैकवचनान्तमेतत्। क्वचित्? `जलासाहम्` इति पाठः, स त्वयुक्तः; इष्टत्वादिह षत्वस्य। तथा च वक्ष्यति - (8.3.110) `सवनादिष्वआसनिग्रहणमनिणोऽपि षत्वं भवतीति ज्ञापनार्थम्। तेन जलाषाहम्। अआषाहमित्येतत्? सिद्धं भवति` इति। `स इति किम्` इति। एवं मन्यते -अलोऽन्त्यपरिभाषया (1.1.51) अन्तस्य तावङ्डकारेण भवितव्यम्, अन्तस्य भवन्नान्तरतम्याडुकारः स्यात्, एतच्चायुक्तम्; डकारस्य डकारविधाने प्रयोजनाभावात्। तस्मादन्तरेणापि सग्रहणं सकारस्यैव भविष्यति। इतरस्तु `स` इत्येतस्मिन्नसति `अनन्त्यविकारेऽन्त्यसदेशस्य` (व्या।प।63) इत्याकारस्य द्विमात्रिकस्यान्तरतम्यात्? तादृश ऋकारो मूर्धन्यः स्यादित्यनेनाभिप्रायेणाअह -`आकारस्य मा भूत्` इति॥ Praudhamanorama --------------- सहेरिति किम्? सह डेन वर्तत इति सडः। यस्य नाम्नि डशब्दोऽस्ति। यथा मृड इति। सडस्यापत्यं साडिः। ॥ इति हान्ताः ॥ Prakriyasarvasvam ----------------- साडूपस्य सहेः सस्य मूर्धन्यः स्यात् । षत्वमित्यर्थः । तुराषाड् । साड्रूपाभावे तुरासाहौ । एवं पृतनाषाड् । पृतनासाहौ ॥ Sutra Prayogas -------------- * **तुराषाडिव** (रघुवंशम्): `सहेः साडः सः` इति षत्वम्। * **तुरासाहं** (कुमारसम्भवम्): `सहेः साढः सः` इति षत्वं न भवति। * **** (भट्टिकाव्यम्): `सहेः साडः सः` इति छन्दोविपयत्वान्नोदाहृतम्।