83055: अपदान्तस्य मूर्धन्यः¶
Padacheda: अपदान्तस्य | S | 6 | 1 |
मूर्धन्यः | S | 1 | 1 |
Sutrartha¶
अधिकारोऽयम् । इतः परमस्य पादस्य परिसमाप्तिपर्यन्तम् पदान्ते अविद्यमानस्य निर्दिष्टस्य वर्णस्य मूर्धन्यादेशः भवति ।
एतत् अधिकारसूत्रमस्ति । अस्य अधिकारः अष्टमाध्यायस्य तृतीयपादस्य समाप्तिपर्यन्तम् गच्छति । अस्मिन् अधिकारे यदि कश्चन वर्णस्य आदेशः उक्तः अस्ति, सः वर्णः च पदान्ते नास्ति, तर्हि तस्य वर्णस्य ‘मूर्धन्य’आदेशः भवति । किम् नाम मूर्धन्य-आदेशः? येषाम् वर्णानामुच्चारणस्थानम् मूर्धा अस्ति, तेषु अन्तरतमः वर्णः आदेशरूपेण विधीयते, इत्यर्थः । अस्मिन् अधिकारे प्रायः सर्वेषु सूत्रेषु सकारस्य स्थाने मूर्धन्यः षकारः विधीयते । केषुचन स्थलेषु धकारस्य स्थाने ढकारः अपि विधीयते । अतः अत्र ‘मूर्धन्यः’ आदेशः इति उक्तमस्ति ।
Sutrartha (English)¶
This is an अधिकार, which goes till the end of the पाद. For the स्थानी that does not occur at end of a पद, the closest ‘मूर्धन्य’ letter comes as the आदेश.
Vasu English Summary¶
Up to the end of the पद , is throughout to be supplied the following - ‘A cerebral letter substituted always in the room of …, when this letter does not stand at the end of a word’.
Vasu English Translation¶
Up to the end of the पद , is throughout to be supplied the following - ‘A cerebral letter substituted always in the room of …, when this letter does not stand at the end of a word’.
Bhashya¶
अपदान्तस्य मूर्द्धन्यः अथ मूर्द्धन्यग्रहणं किमर्थं, नाऽपदान्तस्य षो भवतीत्येवोच्येत, तत्रायमप्यर्थः(1) षकारग्रहणं न कर्तव्यं भवति। प्रकृतमनुवर्तते॥ क्व प्रकृतम्?॥ इणः ष इति॥ नैवं शक्यम्। अवश्यं मूर्द्धन्यग्रहणं कर्तव्यम् इहार्थमुत्तरार्थं(2) च॥ इहार्थं-तावत्-इणः षीध्वंलुङ्लिटां धोऽङ्गादित्यत्र मूर्द्धन्यग्रहणं न कर्तव्यं भवति। उत्तरार्थम्-रषाभ्यां नो णः समानपद इत्यत्र णकारग्रहणं न कर्तव्यं भवति। तत्रायमप्यर्थः(3) पदान्तस्य नेति प्रतिषेधो न वक्तव्यो भवति। अपदान्ताभिसम्बद्धं मूर्धन्यग्रहणमनुवर्तते(4)॥
Kashika¶
पदाधिकारो निवृत्तः। अपदान्तस्येति मूर्धन्य इति चैतदधिकृतं वेदितव्यमा पादपरिसमाप्तेः। वक्ष्यति — आदेशप्रत्यययोः (८.३.५९) — सिषेव। सुष्वाप। अग्निषु। वायुषु। अपदान्तस्येति किम्? अग्निस्तत्र। वायुस्तत्र। ष इत्येव सिद्धे मूर्धन्यग्रहणं ढकारार्थम्। अकृढ्वम्। चकृढ्वे॥
Siddhanta Kaumudi¶
आ पादपरिसमाप्तेरधिकारोऽयम् ॥
Balamanorama¶
अपदान्तस्य मूर्धन्यः - रामे — सु॑ इति स्थिते । आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह-अपदान्तस्य । मूर्धन्यः=मूर्धस्थानकः । अष्टमाध्यायस्य तृतीयापादे मध्यत इदं सूत्रं पठितम् । इत आरभ्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः ।
Tattvabodhini¶
अपदान्तस्य मूर्धन्यः - अपदान्तस्य ।ष॑ इत्येव सिद्धे मूर्धन्यग्रहणम्इणः षीध्व॑मिति ढत्वार्थम् । चकृढ्वे । अकृढ्वम् ।
Padamanjari¶
मूर्धन्यग्रहणमनर्थकम्,’ष’ इत्येव सिद्धम् ? अत आह - ष इत्येव सिद्धे इति ।’ष’ इत्युच्यमाने ठिणः षीध्वम्ऽ इत्यत्रापि षत्वं प्रसज्येत, ढत्वं चेष्यते । अथात्रैव मूर्धन्यग्रहणं क्रियते, उतरेषु योगेषु पुनः षग्रहणं कर्तव्यम् । मूर्धन्यग्रहणे तु क्रेयमाणे न दोषो भवति ॥
Nyaas¶
मूर्धनि भवो मूर्धन्यः -शरीरावयवाद्यत् (4.3.55) , ये चाभावकर्मणोः (6.4.168) इति प्रकृतिवद्भावः। सिषेच, इति। षिचिर्? क्षरणे (धातुपाठः-1434), ञिष्वप्? शये (धातुपाठः-1068), धात्वादेः षः सः 96.1.66) इति सत्वम्, लिट्, तिप्, णल्। स्वपेः लिटभ्यासस्योभयेषाम् (6.1.17) इति सम्प्रसारणम्। अथ श्रूर्थन्यग्रहणं किमर्थम्, न ष इत्येवोचयेत, षकारेऽपि कृते सिषेचेत्यादि सिध्यति, लघधु च सूत्रं भवति? इत्वाह -ष इत्येवं सिद्धे इति। यदि ष इत्येवोच्येत अकृढवम्, चकृढ्वे इत्यत्रापि इणः षीध्वं लुङ्? लिटां धोऽङ्गात् (8.3.78) इति षत्वं प्रसज्येत? ढत्वं चेष्यते, तच्च मूर्धन्यग्रहणे सति सिध्यत्येव। अत्र हि सत्यान्तरतम्यान्नादानुप्रदानस्य घोषवतो महाप्राणस्य घकारस्य तादृशो ढकारो भवति। यदि पुनः इणः षीध्वम् इति सूत्रे ढग्रहणं क्रियते, तदा शक्यत इह सूत्रे मूर्धन्यग्रहणमकर्तुम्। तथा च ढग्रहणं न कृतं वैचित्र्यार्थम्। ननु च क्रियामाणेन ढग्रहणेन षकारस्य व्यवच्छिन्नत्वादत उत्तरेषु षग्रहणं कर्तव्यं जायेत। जायतां नाम, तथापि मूर्धम्यग्रहणात्? स्वरूपग्रहणमेव लाघवं भवति। स्वरूपग्रहणे हि षण्मात्रा भवन्ति -इह ष इत्युक्ते द्वे मात्रे उत्तरसूत्रे ढ इल्युक्ते द्वे, उत्तरत्र ष इत्युक्ते द्वे। ताः सर्वाः सङ्कलिताः षण्मात्रा भवन्ति। मूर्धन्यग्रहणे सति सप्त। तस्मात्? स्वरूपग्रहणे सति लाघवं भवति। यदि तु सन्तावपि षकारढकारी प्रकृतौ, तथापि षकारस्य स्वरितत्वात्? स्यैषानुवृत्तिरिति कल्प्यते, तदा सुतरां स्वरूपग्रहणे ललाघवं भवति। `अकृढवम् इति। ह्रस्वादङ्गात् (8.2.27) इति सिचो लोप-। अथान्तग्रहणहणं किमर्थम्? अपदस्य मूर्घन्यः इत्युच्यमानेऽपदस्य यः सकारस्तस्य मूर्धन्यो विज्ञायेत। तथा च करिष्यतीत्यादौ न स्यात्; पदसकारत्वात्। क्व तर्हि स्यात्? करिष्यतेत्यादौ यत्र पदसंज्ञा नास्ति। अत्र हि भसंज्ञा पदसंज्ञां बाधेत। तस्मादन्तग्रहणं क्रियते॥
Prakriyasarvasvam¶
एतदधिक्रियते । अपदान्तस्येत्युक्तिर्हरिस्त्वमित्यादौ पदान्तस्य प्रत्ययसस्य षत्वाभावार्था ॥
Sutra Prayogas¶
**** (भट्टिकाव्यम्): अपदान्तस्य मूर्धन्यः इत्यधिकृत्याह।