83010: नॄन् पे ============== **Padacheda:** नॄन् | S | | | 6 पे | S | 7 | 1 | Sutrartha --------- **नॄन्-शब्दस्य अन्तिम-नकारस्य पकारे परे संहितायाम् विकल्पेन रुत्वं भवति ।** सूत्रपाठे **मतुवसो रु सम्बुद्धौ छन्दसि** (8.3.1) इत्यस्मात् सूत्रात् आरभ्य **कानाम्रेडिते** (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य **रुत्वप्रकरणस्य** इदम् दशमं सूत्रम् । **नृ-शब्दस्य द्वितीयाबहुवचनस्य "नॄन्" इति रूपस्य पकारे परे विकल्पेन रुँत्वम् भवति** इति अस्य सूत्रस्य अर्थः । यथा — .. code-block:: text नॄन् पाहि → नॄरुँ पाहि [**नॄन् पे** (8.3.10) इति नृ-शब्दस्य पकारे परे पाक्षिकं रुँत्वम्] → नॄँरुँ पाहि / नॄंरुँ पाहि [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इत्यनेन रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः] → नॄँः पाहि / नॄंः पाहि [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गनिर्माणम्] → नॄँःपाहि / नॄंःपाहि / नॄँ≍पाहि / नॄं≍पाहि [**कुप्वोः ≍क ≍पौ च** (8.3.37) इति विकल्पेन उपध्मानीयः]
पक्षे **नॄन् पे** (8.3.10) इति नृ-शब्दस्य पकारे परे पाक्षिके रुँत्वाभावे 'नॄन्पाहि' इत्यपि रूपम् सिद्ध्यति । अन्यानि कानिचन उदाहरणानि — 1. नॄन् पृच्छ → नॄँःपृच्छ / नॄंःपृच्छ / नॄँः≍पृच्छ / नॄंः≍पृच्छ । 2. नॄन् प्रार्थये → नॄँःप्रार्थये / नॄंःप्रार्थये / नॄँः≍प्रार्थये / नॄंः≍प्रार्थये । 3. नॄन् प्लोषति → नॄँःप्लोषति / नॄंःप्लोषति / नॄँः≍प्लोषति / नॄंः≍प्लोषति । अस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन **अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति अनुनासिकादेशः भवति, तदभावे च **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः । **रुँत्वम् नित्यम् भवति (न हि विकल्पेन) इति काशिका** प्रकृतसूत्रस्य काशिकाव्याख्याने "नॄन्" शब्दस्य नकारस्य नित्यम् (compulsory) एव रुँत्वम् उच्यते , न हि विकल्पेन । परन्तु **उभयथर्क्षु** (8.3.8) इत्यस्मात् सूत्रात् 'उभयथा' इति अपि केचन अनुवर्तयन्ति, येन रुँत्वस्य विकल्पः सम्भवति — इत्यपि निर्देशः तत्र कृतः दृश्यते । सिद्धान्तकौमुद्याम् तु 'रुः वा स्यात्' इत्येव अर्थः निर्दिष्टः अस्ति । Sutrartha (English) ------------------- In the context of संहिता, the ending नकार of the word नॄन् , when followed by पकार is optionally converted to रुँ. Vasu English Summary -------------------- रु is optionally substituted for the न् of नॄन् before प्। Vasu English Translation ------------------------ रु is optionally substituted for the न् of नॄन् before प्। The अ in प is for the sake of pronunciation only. Thus नॄँः पाहि or नॄंः पाहि; नॄँ प्रीणीहि or नॄँः प्रीणीहि ॥ Why do we say 'before प्'? Observe नॄन् भोजयति ॥ Some read the *anuvritti* of उभयथा into this *sutra*, so that it is an optional one. Thus we have नॄन् पाहि also. The nominative case in नॄन् has the force of Genitive. Kashika ------- नृृनित्येतस्य नकारस्य रुर्भवति पशब्दे परतः। अकार उच्चारणार्थः। नृृँः पा॑हि (ऋ० ८.८४.३), नंृृः पाहि। नृृँः प्रीणीहि, नृृंः प्रीणीहि। प इति किम् ? नृृन् भोजयति। उभयथेत्यपि केचिदनुवर्तयन्ति। नृृन् पा॒हि॒ (ऋ० १.१७४.१) इत्यपि यथा स्यात्॥ Siddhanta Kaumudi ----------------- नॄनित्यस्य रुः स्याद्वा पकारे परे ॥ Laghu Siddhanta Kaumudi ----------------------- नॄनित्यस्य रुर्वा पे॥ Balamanorama ------------ **नॄन् पे** - नृन्पे । 'नृन्' इति द्वितीयान्तशब्दस्वरूपपरं षष्ठन्तम् । षष्ठ्याः सौत्रौ लुक् । नलोपाऽभावोऽपि सौत्र एव । 'मतुवसो रु' इत्यतो 'रु' इत्यनुवर्तते ।उभयथर्क्ष्वि॑त्यतंउभयथे॑त्यनुवर्तते । कदाचिद्भवति कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाह-नृनित्यस्येत्यादिना ।अलोऽन्त्यस्य॑ । नृन्-पाहीति स्थिते नस्य रुत्वम् । अनुनासिकानुस्वारविकल्पः॑ । Tattvabodhini ------------- **नॄन् पे** - नृन्पे । पकारोपरि अकार उच्चारणार्थः । तेननृ#ः पुनाती॑त्यादि सिद्धम् ।उभयथक्र्षु॑ इत्यतउभयथे॑नुवृत्तेर्विकल्पः फलित इत्याशयेनाह-रुः स्याद्वेति । कुप्वो क । अत्रकुप्वो॑रिति रेफस्य विसर्गः, जिह्वामूलीयस्य खत्र्वात् ।खर्परे शरी॑ति विसर्गस्यास्य लोपः, जिह्वामूलीयस्य शत्र्वात् ।वा शरी॑ति विसर्गस्य विसर्ग एव वा । आदेशयोः कपावुच्चारणार्थौ । चाद्विसर्ग इति । प्राचा तुचाद्विकल्पः॑ इत्युक्तं , तदसत् । कपाभ्यां मुक्ते विसर्जनीयस्य सत्वप्रसङ्गात् । Padamanjari ----------- नृनिति षष्ठ।ल्र्थे प्रथमा । एवमुतरत्रापि'पे' इत्यकार उच्चारणार्थः, पकारमात्रं निमितम् ॥ Nyaas ----- `नृन्?` इति। `सुपां सुलुक्` (7.1.39) इत्यादिना षष्ठआ लुकं कृत्व निर्देशः। अथ वा - विभक्तिरेवात्र नोत्पद्यते, अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात्। यथा-गवित्ययमाहेत्यादि। `पे` इति पकारमात्रमेव निमित्तत्वेनोपात्तम्; न समुदायः। अकारस्तूच्चारणार्थः, अन्यथा हि यद्यकारसमुदायो निमित्तत्येनाश्रीयते, तदा नृ#ः पचतीत्येवमादावेव स्यात्, न तु नृन्? प्रीणीहीत्यादौ। `अटि` इति चेह निवृत्तम्; निमित्तान्तरो पादानात्। अथ तस्यैव निमित्तस्यैतद्विशेषणं कस्मान्न विज्ञायते -अटि परतो यः पकार इति? अशक्यमेवं विज्ञातुम्; इह न स्यात् -नृ#ः प्साति, नृ#ः प्लावयतीति। तस्मादस्य निवृत्तिरङ्ग्रहणस्य युक्ता॥ Praudhamanorama --------------- पकारोपर्यकार उच्चारणार्थः। तेन नॄः पुनातीत्यादि सिद्धम्। 'उभयथर्क्षु' इत्यत 'उभयथा' इत्यनुवृत्तेर्विकल्पः फलित इत्याशयेनाह— Sarala ------ (नॄनित्यस्य रुः स्याद्वा पकारे परे) । **नॄन्** इति द्वितीयान्तानुकरणं लुप्तषष्ठ्यन्तम् । **मतुवसो रु सम्बुद्धौ छन्दसि** (८.३.१) इत्यतो "रु" इति, **उभयथर्क्षु** (८.३.८) इत्यत "उभयथे"ति चानुवर्त्तते । "पे" इत्यकारो न विवक्षितः । ते नॄँः प्रीणाति, नॄः पुनाति - इत्यादौ रुत्वं सिध्यतीत्यभिप्रेत्याह - **नॄनित्यस्येति** ॥ Sudha ----- **नॄन् पे इति । ** नॄन् इति द्वितीयान्तशब्दस्वरूपपरम्बोध्यम् । तच्च षष्ठ्यन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । **मतुवसो रु सम्बुद्धौ छन्दसि** (8.3.1) इत्यतो रुँ इत्यनुवर्तते । **उभयथर्क्षु** (8.3.8) इत्यत उभयथेत्यनुवर्तते । कदाचिद्भवति, कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः । विकल्प इति यावत् । तदाह — **नॄनित्यस्येत्यादिना ।** Sutra Prayogas -------------- * **सुप्रतिष्णात-सूत्राणा** (भट्टिकाव्यम्): `सूत्रं प्रतिष्णातम्` इति निपातनम् ।