83008: उभयथर्क्षु ================= **Padacheda:** उभयथा | S | 0 | 0 | ऋक्षु | S | 7 | 3 | Sutrartha --------- **वैदिकप्रयोगेषु, पदान्तनकारात् परः संहितायाम् छव्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् नकारस्य विकल्पेन रुँ आदेशः भवति ।** सूत्रपाठे **मतुवसो रु सम्बुद्धौ छन्दसि** (8.3.1) इत्यस्मात् सूत्रात् आरभ्य **कानाम्रेडिते** (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य **रुत्वप्रकरणस्य** इदम् अष्टमम् सूत्रम् । ****नश्छव्यप्रशान्** (8.3.7) इति सूत्रेण पदान्तनकारस्य उक्तम् ऋत्वम् वैदिकप्रक्रियायाम् विकल्प्यते ** — इति अस्य सूत्रस्य आशयः । अस्मिन् सूत्रे 'उभयथा' तथा 'ऋक्षु' इति द्वे शब्दे प्रयुक्ते स्तः । अत्र 'उभयथा' इति शब्दस्य अर्थः 'विकल्पेन' इति अस्ति । *रुत्वं भवति न वा भवति; उभयथा प्रयोगाः दृश्यन्ते * — इति आशयः । 'ऋक्षु' इति शब्दः तु 'ऋक्' (छन्दसः पङ्क्तिः) इत्यस्य सप्तम्येकवचनम् अस्ति । वेदेषु पूर्वसूत्रेण उक्तं रुँत्वं विकल्प्यते इति अत्र आशयः । कानिचन उदाहरणानि एतानि — 1 आपस्तम्बीयश्रौत्रसूत्रेषु **तस्मिंस्त्वा देवयजन आ क्षिणोमीति** इति वाक्यम् विद्यते । अत्र "तस्मिन् + त्वा" इत्यत्र नकारस्य रुँत्वे कृते तस्मिंस्त्वा इति रूपम् सिद्ध्यति — .. code-block:: text तस्मिन् + त्वा → तस्मिरुँ + त्वा [**उभयथर्क्षु** (8.3.8) इत्यनेन रुँत्वम् ] → तस्मिंरुँ + त्वा [**अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः] → तस्मिंः + त्वा [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → तस्मिंस् त्वा [**विसर्जनीयस्य सः** (8.3.34) इति सकारादेशः ] → तस्मिंस्त्वा 2. पुरुषसूक्ते **पशूंँस्ताँश्चक्रे** इति उल्लेखः अस्ति । अत्र "पशून् + तान्" इत्यत्र तथा "तान् + चक्रे" इत्यत्र वर्तमानसूत्रेण रुँत्वं विधीयते । यथा - .. code-block:: text पशून् + तान् → पशूरुँ + तान् [**उभयथर्क्षु** (8.3.8) इत्यनेन रुँत्वम् ] → पशूँरुँ + तान् [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति अनुनासिकम्] → पशूँः + तान् [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → पशूँस् तान् [**विसर्जनीयस्य सः** (8.3.34) इति सकारादेशः ] → पशूँस्तान् 3. **तस्मिन्तं धेहि मा पणौ** (ऋग्वेदे 8.97.2) अस्यां पङ्क्तौ "तस्मिन् तम्" इत्यत्र पदान्त-नकारात् परः खय्-वर्णः, तस्मात् परः च अम्-वर्णः अस्ति । तथापि अत्र रुँत्वम् न भवति । रुँत्वस्य इयम् अनुपस्थितिः **उभयथर्क्षु** (8.3.8) इत्यनेन प्रतिपाद्यते । Sutrartha (English) ------------------- In the context of संहिता and in the vedas, when a पदान्त नकार is followed by a letter from छव् प्रत्याहार, which in turn is followed by a letter from अम् प्रत्याहार, then the नकार is optionally converted to रुँ. Vasu English Summary -------------------- In both ways in the ऋग् verses. Vasu English Translation ------------------------ In both ways in the ऋग् verses. This ordains an option to the last *sutra*, by which the रु substitution was compulsory. A word ending in म् followed by a letter of छव् class, which itself is followed by अम्, changes its final म् to र् optionally in the *Rig* *Veda*. Sometimes there is र् and sometimes म् ॥ Thus तस्मिन् त्वा दधाति or तस्मिँस् त्वा दधाति; पशूँस्ताँश्चक्रे ॥ Why do we say "in the *Rig* verses". No option is allowed here ताँस्त्व खाद सुखादिताम् ॥ Kashika ------- पूर्वण नित्ये प्राप्ते विकल्पः क्रियते। नकारान्तस्य पदस्य छवि परतोऽम्पर उभयथा ऋक्षु भवति, रुर्वा नकारो वा । तस्मिंस्त्वा दधाति, तस्मिन्त्वा दधाति। ऋक्ष्विति किम्? ताँस्त्वं खा॑द॒ सुखा॑दितान् (मा०सं० ११.७८)॥ Siddhanta Kaumudi ----------------- अम्परे छवि नकारस्य रुर्वा । पशून्तांश्चक्रे (प॒शून्तांश्च॑क्रे) ॥ Nyaas ----- पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम्॥ Prakriyasarvasvam ----------------- अम्परे छवि परे नान्तस्य पदस्य ऋक्षु रुर्वा नकारो वेत्युभयथा स्यात् । तांस्त्रायस्व । (तान्त्रायस्व) ।