82070: अम्नरूधरवरित्युभयथा छन्दसि

Padacheda: अम्नरूधरवरित्युभयथा | S | | | 6

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas), both रु and र् are substituted for the final 1. अमनस् 2. ऊधस् and 3. अवस्।

Vasu English Translation

In the छन्दस् (Vedas), both रु and र् are substituted for the final 1. अमनस् 2. ऊधस् and 3. अवस्। Thus अम्न एव or अम्नरेव, ऊध एव or ऊधरेव; अव एव or अवरेव ॥ When रु is substituted for the finals, this रु is replaced by य् by (8.3.17), which is elided by (8.3.19). The word अम्नस् means ‘a little’, and अवस् ‘protection’.

Vart:- रु and र both replace the final of प्रचेतस् before राजन्, in the Vedic as well as in the secular language. As प्रचेता राजन् (8.3.14), (6.3.111) प्रचेतो राजन् ॥

Vart:- The words अहर् &c before पति &c should be enumerated. That is, the finals of अहर् &c are replaced by रु or र before पति &c. As. अहर्पतिः or अहᳶपतिः or अहः पतिः, अहर्पुत्रः, अहᳶपुत्रः, अहः पुत्रः, गीर्पतिः, गीः पति, गीᳶपतिः; धूर्पति, धूः पतिः, धूᳵपतिः ॥ Here र् is substituted for the final र् of अहर् &c, which at first sight may appear superfluous. But it is so ordained, in order to prevent the visarga change of this र ॥

Bhashya

अम्नरूधरवरित्युभयथा छन्दसि ॥ छन्दसि(3) भाषायां(4) च प्रचेतसो राजन्युपसङ्ख्यानम्॥ छन्दसि भाषायां(1) च प्रचेतसो राजन्युपसङ्ख्यानं कर्तव्यम्। प्रचेतो राजन्। प्रचेता राजन्॥ अहरादीनां पत्यादिषूपङ्ख्यानम्(1)(5)॥ अहरादीनां पत्यादिषूपसङ्ख्यानं कर्तव्यम्। अहर्पतिः। अहः पतिः। झ्र्(अह)(पतिः(1))ट अहर्पुत्रः। अहः पुत्रः(6)। झ्र्अह)(पुत्रः।ट गीर्पतिः। गीः पतिः। झ्र्गी)(पतिःट। धूर्पतिः(1)। धूःपतिः(1)। झ्र्धू)(पतिः(1)टझ्र्अम्ररूधरवरिट

Kashika

अम्नस् ऊधस् अवस् इत्येतेषां छन्दसि विषय उभयथा भवति, रुर्वा रेफो वा। अम्नस् — अ॒म्न॑ ए॒व॑ (मै०सं० १.६.१०)। अम्नरेव। ऊधस् — ऊध एव (काठ०सं० ७.५)। ऊध॑र् (ऋ०१०.१००.११) एव। अवस् — अ॒वः (शौ०सं० २०.२५.२) एव। अवरेव। यदा रुत्वं तदा **भोभगोअघोअपूर्वस्य योऽशि**(८.३.१७) इति यकारः॥ छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसंख्यानं कर्तव्यम्॥ प्रचेता॒ राज॒न् (ऋ०१.२४.१४), प्रचेतो॒ राज॒न् (तै०सं० १.५.११.३)॥ अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम्॥ अहर्पतिः, अहःपतिः। गीर्पतिः, गीःपतिः। धूर्पतिः, धूःपतिः। विसर्जनीयबाधनार्थमत्र पक्षे रेफस्यैव रेफो विधीयते॥

Siddhanta Kaumudi

रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊध एव । ऊधरेव । अवएव । अवरेव ॥

Padamanjari

नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्ययमारम्भः । अम्नस्शब्द ईषदर्थे, अम्नरस्तमित इति यथा । अवःउरक्षणम् । प्रचेता राजन्निति । सकारस्य रेफः, तस्य रो रिऽ इति लोपः,’ढ्रलोपे पूर्वस्य दीर्घो’ णःऽ इति दीर्घः । अहरादीनामित्यादि । उभयत्राप्यादिशब्दः प्रकारे । इदमपि च्छन्दसि भाषायां च ॥

Prakriyasarvasvam

एषां रुत्वं रत्वं च वा स्यात् । रुत्वे यत्वयलोपौ । अम्नश्शब्द ईषदर्थेऽ- व्ययमिति हरः । अम्नरस्तमितः । अम्न एव । ऊधरेव ऊधएव । अवरेव । अवएव ।

Vartika

अहरादीनां पत्यादिषु वा रेफः ।