82070: अम्नरूधरवरित्युभयथा छन्दसि ================================= **Padacheda:** अम्नरूधरवरित्युभयथा | S | | | 6 छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas), both रु and र् are substituted for the final 1. अमनस् 2. ऊधस् and 3. अवस्। Vasu English Translation ------------------------ In the छन्दस् (Vedas), both रु and र् are substituted for the final 1. अमनस् 2. ऊधस् and 3. अवस्। Thus अम्न एव or अम्नरेव, ऊध एव or ऊधरेव; अव एव or अवरेव ॥ When रु is substituted for the finals, this रु is replaced by य् by (8.3.17), which is elided by (8.3.19). The word अम्नस् means 'a little', and अवस् 'protection'. Vart:- रु and र both replace the final of प्रचेतस् before राजन्, in the Vedic as well as in the secular language. As प्रचेता राजन् (8.3.14), (6.3.111) प्रचेतो राजन् ॥ Vart:- The words अहर् &c before पति &c should be enumerated. That is, the finals of अहर् &c are replaced by रु or र before पति &c. As. अहर्पतिः or अहᳶपतिः or अहः पतिः, अहर्पुत्रः, अहᳶपुत्रः, अहः पुत्रः, गीर्पतिः, गीः पति, गीᳶपतिः; धूर्पति, धूः पतिः, धूᳵपतिः ॥ Here र् is substituted for the final र् of अहर् &c, which at first sight may appear superfluous. But it is so ordained, in order to prevent the *visarga* change of this र ॥ Bhashya ------- अम्नरूधरवरित्युभयथा छन्दसि ॥ छन्दसि(3) भाषायां(4) च प्रचेतसो राजन्युपसङ्ख्यानम्॥ छन्दसि भाषायां(1) च प्रचेतसो राजन्युपसङ्ख्यानं कर्तव्यम्। प्रचेतो राजन्। प्रचेता राजन्॥ अहरादीनां पत्यादिषूपङ्ख्यानम्(1)(5)॥ अहरादीनां पत्यादिषूपसङ्ख्यानं कर्तव्यम्। अहर्पतिः। अहः पतिः। झ्र्(अह)(पतिः(1))ट अहर्पुत्रः। अहः पुत्रः(6)। झ्र्अह)(पुत्रः।ट गीर्पतिः। गीः पतिः। झ्र्गी)(पतिःट। धूर्पतिः(1)। धूःपतिः(1)। झ्र्धू)(पतिः(1)टझ्र्अम्ररूधरवरिट Kashika ------- अम्नस् ऊधस् अवस् इत्येतेषां छन्दसि विषय उभयथा भवति, रुर्वा रेफो वा। अम्नस् — अ॒म्न॑ ए॒व॑ (मै०सं० १.६.१०)। अम्नरेव। ऊधस् — ऊध एव (काठ०सं० ७.५)। ऊध॑र् (ऋ०१०.१००.११) एव। अवस् — अ॒वः (शौ०सं० २०.२५.२) एव। अवरेव। यदा रुत्वं तदा **भोभगोअघोअपूर्वस्य योऽशि**(८.३.१७) इति यकारः॥ छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसंख्यानं कर्तव्यम्॥ प्रचेता॒ राज॒न् (ऋ०१.२४.१४), प्रचेतो॒ राज॒न् (तै०सं० १.५.११.३)॥ अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम्॥ अहर्पतिः, अहःपतिः। गीर्पतिः, गीःपतिः। धूर्पतिः, धूःपतिः। विसर्जनीयबाधनार्थमत्र पक्षे रेफस्यैव रेफो विधीयते॥ Siddhanta Kaumudi ----------------- रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊध एव । ऊधरेव । अवएव । अवरेव ॥ Padamanjari ----------- नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्ययमारम्भः । अम्नस्शब्द ईषदर्थे, अम्नरस्तमित इति यथा । अवःउरक्षणम् । प्रचेता राजन्निति । सकारस्य रेफः, तस्य रो रिऽ इति लोपः,'ढ्रलोपे पूर्वस्य दीर्घो' णःऽ इति दीर्घः । अहरादीनामित्यादि । उभयत्राप्यादिशब्दः प्रकारे । इदमपि च्छन्दसि भाषायां च ॥ Prakriyasarvasvam ----------------- एषां रुत्वं रत्वं च वा स्यात् । रुत्वे यत्वयलोपौ । अम्नश्शब्द ईषदर्थेऽ- व्ययमिति हरः । अम्नरस्तमितः । अम्न एव । ऊधरेव ऊधएव । अवरेव । अवएव । Vartika ------- अहरादीनां पत्यादिषु वा रेफः ।