82071: भुवश्च महाव्याहृतेः¶
Padacheda: भुवः | S | | | 6
च | S | 0 | 0 |
महाव्याहृतेः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas), both रु and र् may replace the final of the word भुवस् when used as a महाव्याहृति।
Vasu English Translation¶
In the छन्दस् (Vedas), both रु and र् may replace the final of the word भुवस् when used as a महाव्याहृति। Thus भुवरित्यन्तरिक्षम् or भुव इत्यन्तरिक्षम् ॥ The maha-vyahritis are three, used generally before the famous Gayatri mantra. They denote respectively the earth, the firmament and the heaven. भुवस् is an Indeclinable and a Vyahriti denoting the firmament. The other two are भूः and स्वः ॥
Why do we say when it is a maha-vyahriti? Observe भुवो विश्वेषु भुवनेषु यज्ञियः ॥ Here भुवः is a verb, 2nd Person Singular, Imperfect (लङ्) of the root भू, without guna of the root, and the अट् augment is not added as a Vedic diversity.
Kashika¶
भुवस् इत्येतस्य महाव्याहृतेश्छन्दसि विषय उभयथा भवति, रुर्वा रेफो वा। भुव इत्यन्तरिक्षम्। भुवरित्यन्तरिक्षम्। महाव्याहृतेरिति किम्? भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ (ऋ० १०.५०.४)। भुवरित्येतदव्ययमन्तरिक्षवाचि महाव्याहृतिः॥
Siddhanta Kaumudi¶
भुव इति (भुव॒ इति॑) । भवरिति (भुव॒रिति॑) ॥
Padamanjari¶
तिस्रो महाव्याहृतयः - पृथिव्यन्तरिक्षस्वर्गाणां वाचिकाः, इह तु मध्यमाया ग्रहणम् । भुवो विश्वेषु सवनेष्विति । तिङ्न्तमेतत् । भवतेः’च्छन्दसि लुङ्लङ्लिटः’ इति वर्तमाने लङ्, सिप्, शपि गुणाभावश्च्छन्दसः,’बहुलं च्छन्दस्यमाङ्योगे’ पिऽ इत्यडभावः । लाक्षणिकत्वादेवास्याग्रहणे सिद्धे महाव्याहृतिग्रहणम् - अस्याः परिभाषाया अनित्यत्वज्ञापनार्थम् । तेन क्रापयतीत्यादौ पुक् सिद्धो भवति ॥
Nyaas¶
भुवःशब्दः षष्ठ तप्रतिरूपकमव्ययम्, तस्य नित्यं रुत्वे प्राप्ते पक्षे रेफो यता स्यादित्येवमर्थमिदम्। चकार उभयथेत्यस्यानुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति। भुवो विआस्य इति। मूशब्दस्य षष्ठन्तस्य पञ्चम्यन्तस्य वा प्रयोगः। यद्येवम्, लाक्षणिकत्वादेवास्य [लाक्षणिकत्वादिनास्य -प्रांउ।पाठः] न भविष्यति, तत्किमेन्निवृत्त्यर्थेन महाव्याह्मतिग्रहणेन? एवं तह्र्रेतज्ज्ञापयति -अनित्यलक्षणा प्रतिपदोक्तपरिभाषेति। तेन क्रापयतीत्यतर पुगागमः सिद्धो भवति, नित्यत्वे तु तस्य न स्यात्, अस्याकारान्तस्य लाक्षणिकत्वात्। कीदृशी भुवःशब्दो महाव्याह्मतिर्भवति? इत्याह -भुवसित्येतत् इत्यादि। अन्तरिक्षं हि महत्, तस्य व्याह्मतिः=उक्तितर्यस्मात्; तस्मान्महाव्याह्मतिर्भवति॥
Prakriyasarvasvam¶
भुव इति सस्य रुत्वं रत्वं वा स्यात् । भुव इन्द्रवतः सवितृप्रसूता । भू¹रहं । भुवरहम् ।