82069: रोऽसुपि

Padacheda: रः | S | 1 | 1 |

असुपि | S | 7 | 1 |

Sutrartha

अहन्-इत्यस्य नकारस्य पदान्ते रेफादेशः भवति, परन्तु सुप्-प्रत्यये परे न भवति ।

“अहन्” (= दिवसः) इति नकारान्त-नपुंसकलिङ्गशब्दस्य यत्र पदसंज्ञा विधीयते, तत्र अस्य शब्दस्य अन्ते विद्यमानस्य नकारस्य प्रकृतसूत्रेण र् इति आदेशः विधीयते । परन्तु, यत्र अहन्-शब्दात् अनन्तरम् सुप्-प्रत्ययः विद्यते, तत्र अयम् रेफादेशः नैव प्रवर्तते, अतः तत्र अहन् (8.2.68) इत्यनेन नकारस्य रुँत्वं भवति —‌ इति अस्य सूत्रस्य आशयः । <hlb>यद्यपि अस्मिन् सूत्रे “असुपि” इति उक्तम् अस्ति, तथापि अस्य सूत्रस्य प्रयोगः सुप्-प्रत्ययस्य लुकि कृते एव कृतः दृश्यते । </hlb> कानिचन उदाहरणानि एतानि — 1. अहन्-शब्दस्य प्रथमैकवचनस्य “अहः” इति रूपम् इत्थं सिद्ध्यति —

अहन् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अहन् [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः "अहन्" इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति ।]
→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य **रोऽसुपि** (8.2.68) इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते **अहन्** (8.2.68) इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
  1. “अहर्निशम्” इति शब्दस्य सिद्धौ अहन्-शब्दस्य नकारस्य प्रकृतसूत्रेण रेफादेशः भवति —

अहश्च निशा च एतयोः समाहारः [**चार्थे द्वन्द्वः** (2.2.29) इति द्वन्द्वसमासः]
→ अहन् + सुँ + निशा + सुँ [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा]
→ अहन् + निशा [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति उभयोः सुप्-प्रत्यययोः लुक् । ]
→ अहन् निश [समाहारद्वन्द्वस्य नपुंसकत्वात् **ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इति ह्रस्वादेशः]
→ अहर् + निश [अहन्-शब्दस्य पदान्तनकारस्य **रोऽसुपि** (8.2.68) इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते **अहन्** (8.2.68) इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहर्निश
  1. “अहः ददाति” इत्यत्र संहितायाम् सत्याम् “अहन् सुँ ददाति” इत्यस्याम् स्थितौ सुँ-प्रत्ययस्य लुकि कृते प्रकृतसूत्रेण रेफादेशः भवति —

अहन् + सुँ + ददाति  [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अहन् ददाति  [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः "अहन्" इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति ।]
→ अहर् [अहन्-शब्दस्य पदान्तनकारस्य **रोऽसुपि** (8.2.68) इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते **अहन्** (8.2.68) इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः प्रवर्तते ।]
→ अहर्ददाति
<br>
अत्र यदि **अहन्** (8.2.68) इति सूत्रेण रुँत्वम् अभविष्यत्, तर्हि तदनन्तरम् **हशि च** (6.1.114) इत्यनेन अनिष्टम् उत्वम् अभविष्यत् ।

प्रकृतसूत्रस्य सुप्-प्रत्ययस्य लुकि कृते प्रयोगः

यद्यपि अस्मिन् सूत्रे “असुपि” इति निर्दिश्यते, तथापि अस्य सूत्रस्य सुबन्तप्रक्रियां विहाय अन्यानि उदाहरणानि नैव विद्यन्ते ! अतः, अस्य सूत्रस्य विधानसामर्थ्यात् सुबन्तप्रक्रियायाम् एव यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र इदम् सूत्रम् उपयुज्यते । अस्य स्पष्टीकरणार्थम् अस्मिन् सूत्रे भाष्यकारः ब्रूते —अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति । अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य यदा लुक् भवति, तदा **प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति सूत्रं तत्र नैव प्रवर्तते, अतः लुप्त-प्रत्ययः तत्र नैव उपतिष्ठते** — इति अस्य वाक्यस्य अर्थः । एतादृशं क्रियते चेदेव “असुपि” इति शब्दस्य अर्थः सङ्गच्छते, इति अत्र भाष्यकारस्य आशयः अस्ति । अतः, यत्र यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र तत्र प्रत्ययलक्षणं बाधित्वा, सुप्-प्रत्ययस्य अनुपस्थितिम् एव स्वीकृत्य “असुपि” इत्येव स्थितिं मत्वा प्रकृतसूत्रस्य प्रयोगः भवति

बाध्यबाधकभावः

प्रकृतसूत्रम् अहन् (8.2.68) इत्यस्य अपवादरूपेण प्रवर्तते । सुप्-प्रत्ययस्य लुकि कृते, प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः तत्र “अहन्”-शब्दस्य पदसंज्ञा निःसंशयं भवति । अस्यां स्थितौ पदान्तनकारस्य अहन् (8.2.68) इति सूत्रेण रुँत्वं प्राप्नोति । परन्तु एतादृशं रुँत्वं क्रियते चेत् रोऽसुपि (8.2.69) इति सूत्रम् अनवकाशं भवेत्, यतः रोऽसुपि (8.2.69) इति सूत्रस्य प्रयोगः केवलम् सुब्लुकि कृते एव दृश्यते । अतः रोऽसुपि (8.2.69) इति सूत्रस्य विधानसामर्थ्यात् इदं सूत्रम् अहन् (8.2.68) इत्यस्य अपवादरूपेण प्रवर्तते । यत्र प्रत्ययस्य लोपः कृतः अस्ति, तत्र तु प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन सुप्-प्रत्ययः तत्र उपस्थितः एव स्वीक्रियते, अतः तत्र “असुपि” इति नैव सङ्गच्छते । अस्यां स्थितौ रोऽसुपि (8.2.69) इत्यस्यापि प्रयोगः न भवति, अतः “अहन्” शब्दस्य पदान्तनकारस्य तत्र अहन् (8.2.68) इत्यनेन रुँत्वम् एव विधीयते ।

असुपि इति प्रसज्यप्रतिषेधः

अस्मिन् सूत्रे प्रयुक्तः “असुपि” इति निषेधः प्रसज्यप्रतिषेधः अस्ति । यदि अत्र “असुपि” इति पर्युदासः स्यात्, तर्हि अग्रे सुप्-भिन्न-प्रत्ययम् अपेक्ष्यमाणम् इदं सूत्रम् “अहर्निशम्”, “अहर्ददाति” इत्यादिषु स्थलेषु नैव प्रसज्येत ।

वार्त्तिकम् - <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !>

अहन्-शब्दस्य पदान्तनकारस्य सुब्लुकि रोऽसुपि (8.2.69) इति सूत्रेण रेफादेशे प्राप्ते केषुचन स्थलेषु तद्बाधित्वा पुनः अहन (8.2.68) इत्यनेन रुँत्वं विधातुम् इदम् वार्त्तिकम् निर्मितम् अस्ति । “रुप”, “रात्रि”, “रथ” — एतेभ्यः कश्चन शब्दः उत्तरपदरूपेण विद्यते चेत् पूर्वपदरूपेण स्थितस्य “अहन्”-शब्दस्य रेफस्य रोऽसुपि (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुत्वम् एव भवति — इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि — <listsp> 1. “रूप”-शब्दे परे —

अह्नः रूपम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ अहन् + रूप [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रुप [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !>  इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रुप [**हशि च** (6.1.114) इति उकारः]
→ अहोरुप [**आद्गुणः** (6.1.87) इति गुणैकादेशः]

2. “रात्रि”-शब्दे परे — “गतम् अहः, रात्रिः एषा” (The day has passed, this is the night) इत्यस्य निर्माणे संहितायाम् सत्याम् अहन्-शब्दस्य नकारस्य रात्रि-शब्दे परे रुँत्वं भवति । प्रक्रिया इयम् —

गतम् (अहन् + सुँ), रात्रिः एषा
→ गतम् (अहन् + ०), रात्रिः एषा [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययस्य लुक् भवति ।]
→ गतम् अह रुँ + रात्रिः एषा [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> इति वार्त्तिकेन रुँत्वम् ।]
→ गतम् अह उ + रात्रिः एषा [**हशि च** (6.1.114) इति उत्वम्]
→ गतम् अहोरात्रिः एषा [**आद्गुणः** (6.1.87) इति गुणैकादेशः]

अहोरात्रम् इति शब्दस्य सिद्धौ अपि अनेनैव वार्त्तिकेन रुँत्वं भवति —

अहः च रात्रिः च एतयोः समाहारः [**चार्थे द्वन्द्वः** (2.2.8) इति द्वन्द्वसमासः]
→ अहन् + रात्रि + अच् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक् । **अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः** (5.4.87) इति समासान्तः अच्-प्रत्ययः]
→ अहन् + रात् र् + अ [**यस्येति च** (6.4.148) इति इकारलोपः]
→ अहरुँ + रात्र [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !>  इति वार्त्तिकेन रुँत्वम् । अत्र **एकदेशविकृतमनन्यवत्** इति परिभाषाम् आश्रित्य रात्र-शब्दम् रात्रि-शब्दसदृशम् एव स्वीकृत्य प्रकृतवार्त्तिकस्य प्रयोगः भवति । ]
→ अहउ + रात्र [**हशि च** (6.1.114) इति उकारः]
→ अहो + रात्र [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
→ अहोरात्र
  1. “रथन्तर”-शब्दे परे —

अह्नः रथन्तरम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ अहन् + रथन्तर [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्]
→ अह रुँ + रथन्तर [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य <! रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !>  इति वार्त्तिकेन रुँत्वम्]
→ अहउ + रथन्तर [**हशि च** (6.1.114) इति उकारः]
→ अहोरथन्तर [**आद्गुणः** (6.1.87) इति गुणैकादेशः]

</listsp> केचन वैयाकरणाः अत्र **सर्वेषु अपि रेफादौ शब्देषु परेषु रुँत्वम् भवति — इति मन्यन्ते** । इत्युक्ते, तेषाम् मतेन केवलम् “रूप”, “रात्रि”, “रथन्तर” इत्येव न अपि तु “रम्य”, “रत्न”, “राजन्” इत्येतेषु अन्येषु रेफादिशब्देषु परेषु अपि अहन्-शब्दस्य नकारस्य रोऽसुपि (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुँत्वम् एव भवति, येन “अहोरम्यम्”, “अहोरत्नानि”, “अहोराजः” इत्येतानि रूपाणि सिद्ध्यन्ति । ये वैयाकरणाः अमुं पक्षं न स्वीकुर्वन्ति, तेषां मतेन तु एतेषु उदाहरणेषु रोऽसुपि (8.2.69) इत्यनेन रेफादेशे कृते, ततः रो रि (8.3.14) इति रेफलोपे, ततः च ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इति दीर्घादेशे कृते “अहारम्यम्”, “अहारत्नानि”, “अहाराजः” इत्येतानि रूपाणि एव उचितानि ज्ञेयानि । यथा —

अह्नः रत्नम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→  अहन् + रत्न [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्]
→ अहर् + रत्न [अहन्-शब्दस्य पदान्तनकारस्य **रोऽसुपि** (8.2.68) इति रुँत्वम् । अत्र सुप्-प्रत्ययस्य लुकि कृते **अहन्** (8.2.68) इति सूत्रेण प्राप्तं रुँत्वम् बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः प्रवर्तते ।]
→ अह + रत्न [**रो रि** (8.3.14) इति रेफे परे रेफस्य लोपः]
→ अहारत्न [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति रेफलोपः]

वार्त्तिकम् - <!अहरादीनां पत्यादिषु वा रेफः !>

सिद्धान्तकौमुद्याः प्रकृतसूत्रस्य व्याख्याने <!अहरादीनां पत्यादिषु वा रेफः !> इति अन्यत् वार्तिकम् अपि पाठितं दृश्यते । वस्तुतस्तु इदं वार्त्तिकं खरवसानयोर्विसर्जनीयः (8.3.37) इति सूत्रस्य विषये अस्ति, परन्तु अस्मिन् वार्त्तिके अहरादिगणः निर्दिष्टः अस्ति अतः कौमुद्याम् इदं वार्त्तिकम् अत्रैव पाठितं वर्तते । काशिकाकारेण इदमेव वार्त्तिकम् अम्नरूधरवरित्युभयथा छन्दसि (8.2.70) इति अग्रिमे सूत्रे पाठितम् अस्ति । अहरादिगणस्य शब्दानां पत्यादिगणस्य शब्दैः सह समासे कृते प्रक्रियायाम् रेफस्य **खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गादेशे प्राप्ते तद्बाधित्वा रेफस्य विकल्पेन रेफादेशः एव भवति</qt> — इति अस्य वार्त्तिकस्य अर्थः । अहरादिगणः अयम् — <hl>अहर्, गिर्, धुर्** पत्यादिगणः अयम् — पति, पुत्र ** रुपाणि एतादृशानि‌ — <listsp> 1. “अह्नः पतिः” तथा च “अह्नः पुत्रः” इति उभयत्र षष्ठीसमासे कृते, प्रक्रियायाम् **सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुब्लुकि, अहन्-शब्दस्य नकारस्य रोऽसुपि इत्यनेन रेफे, ततः खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गादेशे प्राप्ते तद्बाधित्वा <!अहरादीनां पत्यादिषु वा रेफः !> इति वार्त्तिकेन विकल्पेन रेफादेशः एव भवति, येन “अहर्पतिः”, “अहर्पुत्रः” इति रूपद्वयं सिद्ध्यति । पक्षे रेफस्य खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गादेशे कृते, ततः कुप्वोः ≍क≍पौ च (8.3.37) इति विकल्पेन उपध्मानीये कृते “अहःपतिः”, “अह≍पतिः”, “अहःपुत्रः”, “अह≍पुत्रः” इति रूपाणि अपि सिद्ध्यन्ति । 2. “गिर् +पतिः”, “गिर् +पुत्रः”, “धुर् +पतिः”, “धुर् +पुत्रः” इति चतुर्षु उदाहरणेषु तु रेफस्य खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गादेशे प्राप्ते तद्बाधित्वा <!अहरादीनां पत्यादिषु वा रेफः !> इति वार्त्तिकेन विकल्पेन रेफादेशः एव भवति, ततः र्वोरुपधाया दीर्घ इकः (8.2.76) इत्यनेन इक्-वर्णस्य दीर्घे कृते “गीर्पतिः”, “गीर्पुत्रः”, “धूर्पतिः”, “धूर्पुत्रः” इति रूपाणि सिद्ध्यन्ति । रेफस्य खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गादेशे कृते, ततः कुप्वोः ≍क≍पौ च (8.3.37) इति विकल्पेन उपध्मानीये कृते “गीःपतिः”, “गी≍पतिः”, “गीःपुत्रः”, “गी≍पुत्रः”, तथा च “धूःपतिः”, “धू≍पतिः”, “धूःपुत्रः”, “धू≍पुत्रः” इति रूपाणि अपि सिद्ध्यन्ति । </listsp> <note>”गीःपतिः”, “गीःपुत्रः” , “धूःपतिः” , “धूःपुत्रः” एतेषु स्थलेषु इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इति सूत्रं नैव प्रवर्तते, यतः तस्मिन् सूत्रे तपरकरणेन केवलं ह्रस्वस्वरस्यैव ग्रहणं भवति, दीर्घस्वरस्य न । </note>

भोजव्याकरणे, चान्द्रव्याकरणे अस्य सूत्रस्य भिन्नरूपेण उपस्थापनम्

भोजस्य सरस्वतिकण्ठाभरणम् इत्याख्ये व्याकरणे इदम् सूत्रम् लुक्यरेफे रः (सरस्वतिकण्ठाभरणम्, 7.3.119) इति भिन्नरूपेण प्रतिपादितम् अस्ति । एवमेव चन्द्रगोमिनः चान्द्रव्याकरणे अपि इदं सूत्रम् लुक्यरि रः (चान्द्रव्याकरणम् 6.3.100) इति स्वरूपे वर्तते । उभयत्रापि “असुपि” इति शब्दस्य स्थाने “लुकि” इति स्पष्टः निर्देशः कृतः वर्तते । प्रकृतसूत्रम् सुब्लुकि एव भवति, अतः अस्मिन् सूत्रे “असुपि” इत्यस्य स्थाने “लुकि” इत्येव सुवचं स्यात् — इति अत्र आशयः । अपि च, एतयोः स्थलयोः “अ-रेफे / अ-रि” इति ग्रहणेन एतद अपि स्पष्टी भवति यत् एतयोः वैयाकरणयोः मतेन सर्वेषु अपि रेफादौ शब्देषु प्रकृतसूत्रेण प्राप्तं रेफादेशं बाधित्वा अहन् (8.2.68) इत्यनेन रुत्वम् एव प्रवर्तते । वार्त्तिककारेण तु एतादृशम् रुत्वम् केवलम् “रुप”, “रात्रि”, “रथन्तर” इत्येतेषु परेषु एव विज्ञापितम् अस्ति ।

Sutrartha (English)

The word अहन् gets रेफादेश at पदान्त, except when followed by a सुप्-प्रत्यय.

Vasu English Summary

When no case-ending follows (i.e. at the end of a word, in the narrower sense), र् is substituted for the न् of अहन्।

Vasu English Translation

When no case-ending follows (i.e. at the end of a word, in the narrower sense), र् is substituted for the न् of अहन्। Thus अहर्ददाति, अहर्भुङ्क्ते ॥ Why do we say ‘when no case-ending follows’? Observe अहोभ्याम्, अहोभिः ॥ Here रु-called र् replaced the final न् of अहन् ॥ The difference between this रु-called र and the ordinary र is illustrated in the above set of examples. The रु-called र is changed to उ by (6.1.113), the ordinary र is not so changed.

Objection:- In अहर्ददाति and अहर्भुङ्क्ते the case-ending is elided after अहन्, and so by Pratyaya-lakshana, we may say that there is a case-ending here also ? Answer:- This is not so, because of the following maxim अहो रविधौ लुमता लुप्ते प्रत्यय लक्षणं न भवति ॥ The rule of pratya lakshana does not apply to the substitution of र for the final of अहन् when the affix has been elided by लुक् or लुप्. Therefore, this अहन् is not considered to be followed by सुप् or case-affix. But where an affix is elided by using the word लोप, there the rule of Pratyaya-lakshana does apply to अहन् ॥ As हे दीर्घाहोऽत्र, हे दीर्घाहो निदाघ. (8.2.7). Here the affix is elided by using the word ‘lopa’ by (6.1.68).

Bhashya

रोऽसुपि ॥ असुपि रादेशे उपसर्जनसमासे प्रतिषेधोऽलुकि॥ असुपि रादेशे उपसर्जनसमासेऽलुकि प्रतिषेधो वक्तव्यः। दीर्घाहा निदाघ इति। ॥ सिद्धं तु सुपि प्रतिषेधात्॥ सिद्धमेतत्॥ कथम्?॥ सुपि प्रतिषेधात्। प्रसज्याऽयं प्रतिषेधः-सुपि नेति॥ इहाऽपि तर्हि न प्राप्नोति अहर्ददाति अहर्भुङ्क्त इति॥ लुकि चोक्तम्(1)॥ झ्र्लुकि चोक्तम्(2)ट॥ किमुक्तम्(1)?॥ अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति॥

Kashika

अहन्नित्येतस्य रेफादेशो भवत्यसुपि परतः। अहर्ददाति। अहर्भुङ्क्ते। असुपीति किम्? अहोभ्याम्। अहोभिः। ननु चात्रापि प्रत्ययलक्षणेन (१.१.६२) सुबस्ति — अहर्ददाति, अहर्भुङ्क्त इति? नैतदस्ति। उक्तमेतत् — अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति (महाभाष्य १.१६६) इति नायमहः शब्दः सुप्परो भवति। यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घाहोऽत्र, दीर्घाहा निदाघ इति। अत्र हि हल्ङ्याब्भ्यः० (६.१.६८) इति लोपेन प्रत्ययस्य निवृत्तिः॥

Siddhanta Kaumudi

अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ।<!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् !> (वार्तिकम्) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् ।<!अहरादीनां पत्यादिषु वा रेफः !> (वार्तिकम्) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥

Laghu Siddhanta Kaumudi

अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥

Balamanorama

रोऽसुपि - रोऽसुपि । रः-असुपीति छेदः । ‘अहन्’ इति सूत्रमनुवर्तते, तच्च लुप्तषष्ठीकं पदन्तदाह-अह्न इति । नतु सुपीति । पर्युदासाश्रयणे तुनञिवयुक्त॑न्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थः स्यात्, ततश्च अहर्वानित्यादावेव स्यान्न त्वहर्भातीत्यादावेव स्यान्न त्वहर्भातीत्यादावपि, अतः प्रसज्यप्रतिषेध इहाश्रितः । ननु अह इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धत्वात्किमर्थमिदमित्यत आह — रोरपवाद इति । अहरहरिति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अहन्-अहन् इति स्थिते रत्वम् ।न लुमते॑ति निषेधात्सुप्परकत्वाऽभावः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति । अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुहशि चे॑त्युत्वं स्यात् । अहोभ्यामिति ।अहन्-भ्या॑मिति स्थिते नकारस्य सुप्परकत्वान्न रेफः । अत्रेति । ‘अह’ न्निति रुत्वेहशि चे॑त्युत्वे आद्गुणः ।रूपरात्रि ।अहन्शब्दस्ये॑ति शेषः ।रोऽसुपी॑ति रत्वस्याऽयमपवादः । अहोरूपमिति.अह्नो रूपमिति विग्रहः ।अहन्-रूप॑मिति स्तिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः । रत्वे तु हशि चेत्युत्वं न स्यात् । गतमहो रात्रिरेषेति ।अहन्-रात्रि॑रिति स्थिते, रुत्वम्, उत्वम्ाद्गुणः । रत्वे तु उत्वं न स्यात् । ननु अहश्च रात्रिश्चेति द्वन्द्वे,अहस्सर्वैकदेशे॑त्यादिना समासान्ते अचि,यस्येति चे॑ति लोपे, अहन्-रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे आद्गुणे,रात्राह्नाहाः पुंसी॑ति पुंस्त्वे, ‘अहोरात्र’ इति रूपम् । अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथं रुत्वम् , ततश्चरोऽसुपी॑ति रत्वे उत्वं न स्यादित्यत आह-एकदेशेति । अहोरथन्तरमिति । अहश्च रथन्तरं चेति द्वन्द्वः । रथन्तरं = सामविशेषः ।अहरादीनाम् । ननुअहरादीना॑-मिति रेफविसिष्टस्योपादानाद्रेफस्य रेफविधानं व्यर्थमित्यत आह-विसर्गापवाद इति । अहर्पतिरिति । अह्नां पतिरिति विग्रहः । गीर्पतिरिति । गिरां पतिरिति विग्रहः । धूर्पतिरिति । धुरां पतिरिति विग्रहः । उभयत्रापि ‘र्वोरुपधाया’ इति दीर्घः । पक्षे इति । रत्वाऽभावपक्षे विसर्गस्यकुप्वो॑रिति उपध्मानीयविसर्गौ ।इदुदुपधस्ये॑ति षत्वं तु तपरकरणान्नेति भावः ।

Tattvabodhini

रोऽसुपि - रोऽसुपि ।असुपी॑ति यदि पर्युदासः स्यात्ततः सुप्सदृशे प्रत्यय एव स्यादहर्यतीत्यादौ, न त्वहर्भातीत्यादावपि । तस्मात्प्रसज्यप्रतिषेध एवेति व्याचष्टे-न तु सुपीति । अहरहरिति ।नित्यवीप्सयो॑रिति द्वित्वम् । न चात्र रेफादेशस्याऽसिद्धत्वात्पूर्वं नलोपे अकारस्यैव रेफः स्यादिति वाच्यम्,अह॑न्नित्याववर्त्त्य एकेन लोपाभावं निपात्य द्वितीयेन रुर्विधेय इतिअह॑न्निति सूत्रे वक्ष्यमाणतया रुत्वपवादस्यापि रेफादेशस्य नकारस्थानिकत्वलाभात् । अहोरात्र इति ।अहःसर्वैकदेशे॑त्यादिना समासान्तो वक्ष्यते ।रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । अहोरथन्तरमिति । रथन्तरं साम । तेनाह्नः समाहारद्वन्द्वः । पृथक्पदत्वं वा । अहारादीनामिति । उभयत्राप्यादिशब्दः प्रकारे । तेनस्वर्चक्षा रथिरः,॑कविः काव्येना स्वर्चना॑ इत्यादि ग्राह्रम् ।

Padamanjari

पूर्वस्यायमपवादः । रऽ इत्यकार उच्चारणार्थः । अदर्ददातीति । अत्यन्तसंयोगे द्वितीया । अह्नो रुविधाविति । यथा चैतत्सूत्रेणैव सिद्धम्, तथा’न लुमताङ्गस्य’ इत्यत्रोक्तम् । दीर्घाहो निदाघ इति । ठसुपिऽ इति प्रसज्यप्रतिषेधः । पर्युदासे तु सुप्सदृशो हल्परोऽस्तीति स्यादेवात्र रेफः । प्रसज्यप्रतिषेधे तु प्रत्ययलक्षणेन प्रतिषेधे सति रुरेव भवति, ततश्च तन्निबन्धने यत्वोत्वे भवतः ॥

Praudhamanorama

अहोरात्र इति। रात्राह्नाहाः— (2.4.29) इति पुंस्त्वम्। अहरादीनामिति। उभयत्रादिशब्दः प्रकारे। तेन ‘स्वर्चक्षो रथिनः सत्यशुष्मः’। ‘विप्रः कविः काव्येन स्वर्चनो’ इत्यादि ग्राह्यम्।

Prakriyasarvasvam

असुपि परेऽह्नोऽन्त्यस्य रेफादेशः स्यात् । अहर्दिदम् । अहर्गणः । सुपि परे तु ‘अहन्’ (८-२-६८) इति रुत्वउत्वे चाहोभ्यामिति वक्ष्यते । ‘अह्नो रूपरात्रिर- थन्तरेषु रुत्वं वाच्यम्’ (वा० ८-२-६८) । तस्योत्वम् । अहोरूपम् । अहोरात्रम् । अहोरथन्तरम् । अन्यत्रापि रेफे परेऽह्नो रुत्वमेवेति भोजः । अहो रम्यम् । अहर्पतिः । रुत्वे कृते रस्य खरि विसर्गे प्राप्ते ‘अहरादीनां पत्यादिषु रस्य वा रेफो वाच्यः’ (वा० ८-२-७०) । अहर्पतिः । गीर्पतिः धूर्पतिः । पक्षे अहःपतिः । गीःपतिरित्यादि । उपर्बुधे नित्यम् । गीष्पतिस्तु कस्कादिः । पुनर् रमते । सोरुत्वे विष्णु र् रमया ।

Sarala

अहन् (८.२.६८) इति सूत्रानुवृत्तेराह - अह्न इति । अहरह इति । वीप्सायां द्विर्वचनम् । “अहन्” - अहन्नित्यलौकिकं वाक्यम् । प्रतिदिनमिति तदर्थः । अहर्गणः - दिनसमूहः, ज्यौतिषशास्त्रप्रसिद्धदिनसमूहो वा ॥

Sudha

रोऽसुपीति । ** रः असुपीति च्छेदः । **अहन् (8.2.68) इति सूत्रमनुवर्तते । तच्च लुप्तषष्ठीकं पदम् । तदाह — अह्नो रेफादेश इत्यादिना । अहरह इति । नित्यवीप्सयोः (8.1.4) इति द्विर्वचनम् । “अहन् अहन्” इति स्थिते रोऽसुपि (8.2.69) इत्यनेन सर्वस्याहन् शब्दस्य रेफादेशे प्राप्ते अलोऽन्त्यस्य (1.1.52) इति परिभाषया उभयत्रान्त्यस्य नस्य जाते, “अहर् अहर्” इति जाते तत्र खरवसानयोर्विसर्जनीयः (8.3.15) इत्यन्तस्य विसर्गे, कृते च संयोेगे “अहरहः” इति भवति । “अहन् गणः” अत्र रोऽसुपि (8.2.69) इति सर्वस्य रेफादेशे प्राप्ते अलोऽन्त्यस्य (1.1.52) इति परिभाषया अन्त्यस्य विहिते सयुक्ते च कृते “अहर्गणः” इति रूपम् ॥

Sutra Prayogas

  • अहर्-निशम् (भट्टिकाव्यम्): अह्नो नकारस्य रो ऽसुपि इति रत्वम्।