82056: नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्

Padacheda: नुदविदोन्दत्राघ्राह्रीभ्यः | S | 5 | 3 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The निष्ठा त is optionally changed to न after 1. नुद 2. विद 3. उन्द 4. त्रा 5. घ्रा and 6. ह्री।

Vasu English Translation

The निष्ठा त is optionally changed to न after 1. नुद 2. विद 3. उन्द 4. त्रा 5. घ्रा and 6. ह्री। Karika:-

वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते । वित्तेर्विन्नश्च वित्तश्च भोगे विन्नश्च विन्दते ॥

Thus नुन्नः or नुत्तः, विन्नः or वित्तः, समुन्नः or समुत्तः, त्राणः or त्रातः, घ्राणः or घ्रातः, ह्रीणः or ह्रीतः ॥

With regard to ह्री, the न change was not ordained by any rule, and so It is an aprapta-vibhasha. With regards to others, the न change would have always taken place by (8.2.42) and (8.2.43), this makes it optional.

The root विद विचारणे of Rudhadi is to be taken here, and not the other विद roots. Thus the following : Karika

The Nishtha of विद्-वेत्ति of Adadi class is विदितः; (2) of विद्-विद्यते of Divadi class is विन्नः only; (3) of विद् of Tudadi is विन्नः; (4) of विद् of Rudhadi are both वित्तः and विन्नः ॥ The Tudadi विद् has also the form वित्तः in the sense of भोग by (8.2.58).

Bhashya

नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् किमयं विधिराहो स्वित्प्रतिषेधः?॥ किं चातः?॥ यदि तावद्विधिर्नकारग्रहणं कर्तव्यम्॥ न कर्तव्यम्। प्रकृतमनुवर्तते॥ क्व प्रकृतम्?॥रदाभ्यां निष्ठातो नः पूर्वस्य च द इति॥ तद्वा अनेकेन(5) निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुम्॥ अथ प्रतिषेधो, ह्रीग्रहणमनर्थकं(6), न ह्येतस्माद्विधिरस्तीति॥यथेच्छसि तथास्तु॥ अस्तु तावद्विधिः॥ ननु चोक्तं-नकारग्रहणं कर्तव्यं न कर्त्तव्यं प्रकृतमनुवर्तते, क्व प्रकृतं(1), रदाभ्यां निष्ठातो नः पूर्वस्य च द इति, तद्वा अनेकेन निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुमिति॥ संबन्धमनुवर्तिष्यते। अथ वा क्रियते न्यास एव द्विनकारको निर्देशः। नुदविदोन्दत्राघ्राह्रीभ्योन्यतरस्यां(2) न्न ध्याख्यापॄमूर्च्छिमदामिति। अथ वा पुनरस्तु प्रतिषेधः॥ न नु चोक्तं ह्रीग्रहणमनर्थकं न ह्येतस्माद्विधिरस्ती(6)ति॥ नानर्थकम्। एतदेव ज्ञापयत्याचार्यो भवत्येतस्माद्विधिरिति यदयं ह्रीग्रहणं करोति॥

Kashika

नुद विद उन्द त्रा घ्रा ह्री इत्येतेभ्य उत्तरस्य निष्ठातकारस्य नकार आदेशो भवत्यन्यतरस्याम्। नुद — नुन्नः, नुत्तः। विद — विन्नः, वित्तः। उन्द — समुन्नः, समुत्तः। त्रा — त्राणः, त्रातः। घ्रा — घ्राणः, घ्रातः। ह्री — ह्रीणः, ह्रीतः। ह्री इत्येतस्मादप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते। विद विचारणे इत्यस्य विदेरिह ग्रहणमिष्यते। एवं ह्युक्तम् —

वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते।

विन्तेर्विन्नश्च वित्तश्च भोगवित्तश्च विन्दतेः॥ इति॥

Siddhanta Kaumudi

एभ्यो निष्ठातस्य नो वा । नुन्नः । नुत्तः । विदविचारणे रौधादिक एव गृह्यते उन्दिना परेण साहचर्यात् । विन्नः । वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ॥

Balamanorama

नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् - नुदविदोन्द । ह्यीधातोरप्राप्ते, इतरेभ्यो नित्यं प्राप्ते न्तवविकल्पोऽयम् । रौधादिक इति । ‘विद विचारणे’ इत्ययमित्यर्थः । वेत्तेस्त्विति । ‘विद ज्ञाने’ इत्यस्येत्यर्थः । अयं सेट्, अनिट्केष्वनन्तर्भावात् । तदाह — विदित इति । अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वं नेति भावः । विद्यतेर्विन्न इति ।विद सत्ताया॑मित्ययमनिट् ।रदाभ्या॑मिति नित्यं नत्वमिति भावः । उन्दीति । उदाहरणसूचनम् ।

Tattvabodhini

नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् - नुदविदो ।रदाभ्यां॑संयोगादेरातः॑ इति नित्ये प्राप्ते, ह्रीत्यस्याऽप्राप्ते उभयत्र विभाषेयम् । वेत्तेस्त्विति । तथा च भाष्यम् - वेत्तेस्तु विदितो निष्ठा विद्यतेर्विघ्न इष्यते । विन्तेर्विन्नश्च वित्तश्च भोगे वित्ततश्च विदन्तेः॑ इति । नुन्नः नुत्त इति ।अनिदिता॑मिति नलोपः ।

Padamanjari

अत्रानन्तरस्य निपातनस्य विधातुमशक्यत्वाद्व्यवहितं विधेयमिति स्थिते’शुषः कः’ इत्यादिभिरादेशान्तरैर्व्यवहितमपि नत्वमेव विधीयते । कथम् ? उतरसूत्रे तावतदेव प्रतिषिध्यते; प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । तस्मातदेव बुद्धौ विपरिवर्तमानमत्रापि विकल्प्यते । समुन्न इति । ठुन्दी क्लेदनेऽ, ईदित्वादिट्प्रतिषेधः, ठनिदिताम्ऽ इत्युपधालोपः । उभयत्र विभाषेयमित्याह - ह्री इत्येतस्येति । विद विचारण इत्यस्येति । रौधादिकस्य; उन्दिना रौधादिकेन साहचर्यात् । यद्यपि तौदादिकेन नुदिनापि साहचर्यम्, तथापि परसाहचर्यमेव व्यवस्थापकम्;’विप्रतिषेधे परम्’ इत्यस्यैवमादावप्युपयोगात् । विचारणार्थस्य ग्रहणमित्येतदाप्तागमेन द्रढयति - एवं ह्युक्तमिति । वितेर्धातोर्निष्ठान्तशब्दरूपं विदित इतीष्यते, तस्य सेट्त्वात्; इह च रदाभ्यां निष्ठातःऽ इत्यनुवृतेः विद्यतेः सतार्थस्य विदेर्विन्न इतीष्यते; तस्यानिट्त्वात्, इह च तस्याग्रहणात् । विन्तेरिति । तिङ्न्तानुकरणात् षष्ठी । भोगवित इति । एकार्थीभावाभावेऽपि भाष्यकरनिपातनात्सप्तमीसमासः । भोगग्रहणमुपलक्षणम् । भोग प्रत्यययोरर्थयोः विन्दतेस्तौदादिकस्य विदेर्वित इतीष्यते, अन्यत्र विन्न इति नत्वमेव भवति, न त्वयं विकल्प इत्यर्थः । उक्तोऽत्र हेतुः ॥

Nyaas

समुन्नः, समुत्तः इति। अनिदिताम् (6.4.24) इति नलोपः। ह्रीत्यस्य [ह्यी इत्यतस्य -काशिका, पदमञ्जरी च] इति। ह्री लज्जायाम् (धातुपाठः-108530 इत्यस्य। अप्राप्त्रः इति। केनचिदविधानात्। इतरेषाम् इति। तत्र नुद प्रेरणे [णुद प्रेरणे -धातुपाठः] (धातुपाठः-1426), उन्दी क्लेदने (धातुपाठः-1457) -तयोः रदाभ्याम् (8.2.42) इति नित्यं प्राप्सम्। त्रैङ्? पालने (धातुपाठः-965), घ्रा गन्धोपादाने (धातुपाठः-926) -एतयोः ऋतश्च संयोगादेः (7.2.43) इत्यादिना। विद विचारणे इत्यस्य विदेरिह ग्रहणमिध्यते` इति। कथं पुनरस्य ग्रहणमिष्यते, श्लुविकरणेन ह्यीत्यनेन [ह्यीणा -प्रांउ पाठः] साहचार्यात्? नैतदस्ति; शविकरणेन नुदिना साहचर्याल्लाभार्थस्य विदेग्र्रहणप्रसङ्गात्? एवं तह्र्रन्यतरस्यामित्येषा व्यवस्थितविबाषा, तेन विचारणार्थस्यैव भवितव्यम्, नान्यस्य; यस्यैवं भवितव्यं तस्यैव ग्रहणं युक्तमिति स एव गृह्रते। कथं पुनज्र्ञायते -विचारणार्थस्य विदेर्यहणमिष्यते? इत्याह -एवं हि इत्यादि। इष्यत इति वक्ष्यमाणं प्रत्येकमभिसम्बध्यते। निष्ठा इत्यनेन निष्ठान्तमुपलक्षयतिः वेत्तेः इत्यादि। विद ज्ञाने (धातुपाठः-1064) इत्यस्य विदितः इत्येतद्रूपमिष्यते; नित्येट्त्वात्, तस्येटा निष्ठातकारस्य व्यवधाने सति नत्वस्यासम्भवात्। विद्यतेः इति। विद सत्तायाम् (धातुपाठः-1171) इत्यस्य श्यन्विकरतस्य [नास्ति -कांउपाठे] निष्ठान्तस्य विन्नः इत्येतद्रूपमिध्यते; एकाचः (7.2.10) इतीट्प्रतिषेधात्; रदाभ्याम् (8.2.42) इत्यादिना च नित्यं नत्वविधानात्। विन्तेविन्नश्च वित्तश्च इति। विद विचारणे (धातुपाठः-1450) इत्यस्य निष्ठान्तस्यैतद्रूपद्व्यमिष्यते; पूर्ववदिट्प्रतिषेधात्, अनेन च सूत्रेण (8.2.56) पक्षे नत्वविधानात्। भोगिवित्तश्च विन्दतेः इति। विब्दतेरित्यनेन लाभार्थविदिं दर्शयति। तस्य हि शे मुचादीनाम् (7.1.59) इति नुमि कृते विन्दतीत्येतद्रूपं भवति। भोगवित्त इति -भोगे वित्तो भोगवित्तः, सप्तमी (2.1.40) इति योगविभागात्? समासः। भोगग्रहणं चोपलक्षणमात्रम्। प्रत्ययोऽयि गृह्रते। विद्लृ लाभे (धातुपाठः-1432) इत्यस्य भोगे प्रत्यये चार्थे वित्त इत्येतद्रूपं निष्ठायामिष्यते; वितो भोगप्रत्यययोः (8.2.58) इति नत्वाभावस्य निपातनात्, यस्य विभाषा (7.2.15) इति निष्ठायामिट्प्रतिषेधाच्च। विन्दतेर्हि क्वसौ विभाषा गमहनविदविशाम् (7.2.68) इतीङ्विभाषितः; भोगवित्तश्च विन्दतेः इति ब्राउवताऽर्थतौ भोगप्रत्ययाभ्यामन्यत्र विन्न इत्येतद्रूपमिष्यत इत्युक्तं भवति॥

Prakriyasarvasvam

एभ्यो निष्ठानत्वं वा स्यात् । नुन्नः, नुतः । ‘विद विचारणे’ विन्नः, वित्तः । उन्नः, उत्तः । त्राणः त्रातः । घ्राणः, घ्रातः । ह्रीणः, ह्रीतः । वेत्तेस्तु सेट्त्वाद् विदितः । विद्यतिविन्दत्योर्विन्न एव ।

Sudha

तदाह - साड् रूपस्येति । तुराषाट्, तुराषाड् । तुरासाह् + स् अत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सलोपे **हो ढः**(8.2.31) इति हस्य ढत्वे तस्य पदान्तत्वात् जश्त्वेन डत्वे कृते **सहेः साडः सः**(8.3.56) इति साड् रूपस्य सकारस्य षत्वे डस्य च **वाऽवसाने**(8.4.56) इत्यनेन वा चर्त्वे ‘तुराषाट’ इति । चर्त्वाभावपक्षे ‘तुराषाड्’ इति रूपम् । तुरासाहौ । अपदान्तत्वान्न मूर्धन्य इति भावः । **तुराषाड्भ्यामिति । तुरासाह् + भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदान्तत्वात् **हो ढः**(8.2.31) इति हस्य ढत्वे तस्य जश्त्वेन डत्वे **सहेः साडः सः**(8.3.56) इति सस्य मूर्धन्यादेशे ‘तुरावाड्भ्याम्’ इति रूपम् । इत्यादीति । तुराषाड्भिः । तुरापाड्भ्यः । तुरासाहे । तुरासाहः । तुरासाहः । तुरासाहोः तुराषाट्सु ।

Sutra Prayogas

  • असंशयालोचितकार्यनुन्नः (किरातार्जुनीयम्): नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् इति निष्ठानत्वम्।

  • नुन्नम् (शिशुपालवधम्): नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् इति विकल्पान्निष्टानत्वभावः।

  • समुन्नमद्भि (शिशुपालवधम्): नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् इति निष्ठानत्वम्।

  • संह्रीणैः (भट्टिकाव्यम्): नुद-विद इत्यादिना ।