82056: नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् ============================================= **Padacheda:** नुदविदोन्दत्राघ्राह्रीभ्यः | S | 5 | 3 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The निष्ठा त is optionally changed to न after 1. नुद 2. विद 3. उन्द 4. त्रा 5. घ्रा and 6. ह्री। Vasu English Translation ------------------------ The निष्ठा त is optionally changed to न after 1. नुद 2. विद 3. उन्द 4. त्रा 5. घ्रा and 6. ह्री। Karika:- वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते । वित्तेर्विन्नश्च वित्तश्च भोगे विन्नश्च विन्दते ॥ Thus नुन्नः or नुत्तः, विन्नः or वित्तः, समुन्नः or समुत्तः, त्राणः or त्रातः, घ्राणः or घ्रातः, ह्रीणः or ह्रीतः ॥ With regard to ह्री, the न change was not ordained by any rule, and so It is an *aprapta*-*vibhasha*. With regards to others, the न change would have always taken place by (8.2.42) and (8.2.43), this makes it optional. The root विद विचारणे of *Rudhadi* is to be taken here, and not the other विद roots. Thus the following : *Karika* The *Nishtha* of विद्-वेत्ति of *Adadi* class is विदितः; (2) of विद्-विद्यते of *Divadi* class is विन्नः only; (3) of विद् of *Tudadi* is विन्नः; (4) of विद् of *Rudhadi* are both वित्तः and विन्नः ॥ The *Tudadi* विद् has also the form वित्तः in the sense of भोग by (8.2.58). Bhashya ------- नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् किमयं विधिराहो स्वित्प्रतिषेधः?॥ किं चातः?॥ यदि तावद्विधिर्नकारग्रहणं कर्तव्यम्॥ न कर्तव्यम्। प्रकृतमनुवर्तते॥ क्व प्रकृतम्?॥रदाभ्यां निष्ठातो नः पूर्वस्य च द इति॥ तद्वा अनेकेन(5) निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुम्॥ अथ प्रतिषेधो, ह्रीग्रहणमनर्थकं(6), न ह्येतस्माद्विधिरस्तीति॥यथेच्छसि तथास्तु॥ अस्तु तावद्विधिः॥ ननु चोक्तं-नकारग्रहणं कर्तव्यं न कर्त्तव्यं प्रकृतमनुवर्तते, क्व प्रकृतं(1), रदाभ्यां निष्ठातो नः पूर्वस्य च द इति, तद्वा अनेकेन निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुमिति॥ संबन्धमनुवर्तिष्यते। अथ वा क्रियते न्यास एव द्विनकारको निर्देशः। नुदविदोन्दत्राघ्राह्रीभ्योन्यतरस्यां(2) न्न ध्याख्यापॄमूर्च्छिमदामिति। अथ वा पुनरस्तु प्रतिषेधः॥ न नु चोक्तं ह्रीग्रहणमनर्थकं न ह्येतस्माद्विधिरस्ती(6)ति॥ नानर्थकम्। एतदेव ज्ञापयत्याचार्यो भवत्येतस्माद्विधिरिति यदयं ह्रीग्रहणं करोति॥ Kashika ------- नुद विद उन्द त्रा घ्रा ह्री इत्येतेभ्य उत्तरस्य निष्ठातकारस्य नकार आदेशो भवत्यन्यतरस्याम्। नुद — नुन्नः, नुत्तः। विद — विन्नः, वित्तः। उन्द — समुन्नः, समुत्तः। त्रा — त्राणः, त्रातः। घ्रा — घ्राणः, घ्रातः। ह्री — ह्रीणः, ह्रीतः। ह्री इत्येतस्मादप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते। **विद विचारणे** इत्यस्य विदेरिह ग्रहणमिष्यते। एवं ह्युक्तम् — वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते। विन्तेर्विन्नश्च वित्तश्च भोगवित्तश्च विन्दतेः॥ इति॥ Siddhanta Kaumudi ----------------- एभ्यो निष्ठातस्य नो वा । नुन्नः । नुत्तः । विदविचारणे रौधादिक एव गृह्यते उन्दिना परेण साहचर्यात् । विन्नः । वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ॥ Balamanorama ------------ **नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्** - नुदविदोन्द । ह्यीधातोरप्राप्ते, इतरेभ्यो नित्यं प्राप्ते न्तवविकल्पोऽयम् । रौधादिक इति । 'विद विचारणे' इत्ययमित्यर्थः । वेत्तेस्त्विति । 'विद ज्ञाने' इत्यस्येत्यर्थः । अयं सेट्, अनिट्केष्वनन्तर्भावात् । तदाह — विदित इति । अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वं नेति भावः । विद्यतेर्विन्न इति ।विद सत्ताया॑मित्ययमनिट् ।रदाभ्या॑मिति नित्यं नत्वमिति भावः । उन्दीति । उदाहरणसूचनम् । Tattvabodhini ------------- **नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्** - नुदविदो ।रदाभ्यां॑संयोगादेरातः॑ इति नित्ये प्राप्ते, ह्रीत्यस्याऽप्राप्ते उभयत्र विभाषेयम् । वेत्तेस्त्विति । तथा च भाष्यम् - वेत्तेस्तु विदितो निष्ठा विद्यतेर्विघ्न इष्यते । विन्तेर्विन्नश्च वित्तश्च भोगे वित्ततश्च विदन्तेः॑ इति । नुन्नः नुत्त इति ।अनिदिता॑मिति नलोपः । Padamanjari ----------- अत्रानन्तरस्य निपातनस्य विधातुमशक्यत्वाद्व्यवहितं विधेयमिति स्थिते'शुषः कः' इत्यादिभिरादेशान्तरैर्व्यवहितमपि नत्वमेव विधीयते । कथम् ? उतरसूत्रे तावतदेव प्रतिषिध्यते; प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । तस्मातदेव बुद्धौ विपरिवर्तमानमत्रापि विकल्प्यते । समुन्न इति । ठुन्दी क्लेदनेऽ, ईदित्वादिट्प्रतिषेधः, ठनिदिताम्ऽ इत्युपधालोपः । उभयत्र विभाषेयमित्याह - ह्री इत्येतस्येति । विद विचारण इत्यस्येति । रौधादिकस्य; उन्दिना रौधादिकेन साहचर्यात् । यद्यपि तौदादिकेन नुदिनापि साहचर्यम्, तथापि परसाहचर्यमेव व्यवस्थापकम्;'विप्रतिषेधे परम्' इत्यस्यैवमादावप्युपयोगात् । विचारणार्थस्य ग्रहणमित्येतदाप्तागमेन द्रढयति - एवं ह्युक्तमिति । वितेर्धातोर्निष्ठान्तशब्दरूपं विदित इतीष्यते, तस्य सेट्त्वात्; इह च रदाभ्यां निष्ठातःऽ इत्यनुवृतेः विद्यतेः सतार्थस्य विदेर्विन्न इतीष्यते; तस्यानिट्त्वात्, इह च तस्याग्रहणात् । विन्तेरिति । तिङ्न्तानुकरणात् षष्ठी । भोगवित इति । एकार्थीभावाभावेऽपि भाष्यकरनिपातनात्सप्तमीसमासः । भोगग्रहणमुपलक्षणम् । भोग प्रत्यययोरर्थयोः विन्दतेस्तौदादिकस्य विदेर्वित इतीष्यते, अन्यत्र विन्न इति नत्वमेव भवति, न त्वयं विकल्प इत्यर्थः । उक्तोऽत्र हेतुः ॥ Nyaas ----- `समुन्नः, समुत्तः` इति। `अनिदिताम्` (6.4.24) इति नलोपः। `ह्रीत्यस्य` [`ह्यी` इत्यतस्य -काशिका, पदमञ्जरी च] इति। `ह्री लज्जायाम्` (धातुपाठः-108530 इत्यस्य। `अप्राप्त्रः` इति। केनचिदविधानात्। `इतरेषाम्` इति। तत्र `नुद प्रेरणे` [`णुद प्रेरणे` -धातुपाठः] (धातुपाठः-1426), `उन्दी क्लेदने` (धातुपाठः-1457) -तयोः `रदाभ्याम्` (8.2.42) इति नित्यं प्राप्सम्। `त्रैङ्? पालने` (धातुपाठः-965), `घ्रा गन्धोपादाने` (धातुपाठः-926) -एतयोः **ऋतश्च संयोगादेः** (7.2.43) इत्यादिना। `विद विचारणे` इत्यस्य विदेरिह ग्रहणमिध्यते` इति। कथं पुनरस्य ग्रहणमिष्यते, श्लुविकरणेन ह्यीत्यनेन [`ह्यीणा` -प्रांउ पाठः] साहचार्यात्? नैतदस्ति; शविकरणेन नुदिना साहचर्याल्लाभार्थस्य विदेग्र्रहणप्रसङ्गात्? एवं तह्र्रन्यतरस्यामित्येषा व्यवस्थितविबाषा, तेन विचारणार्थस्यैव भवितव्यम्, नान्यस्य; यस्यैवं भवितव्यं तस्यैव ग्रहणं युक्तमिति स एव गृह्रते। कथं पुनज्र्ञायते -विचारणार्थस्य विदेर्यहणमिष्यते? इत्याह -`एवं हि` इत्यादि। इष्यत इति वक्ष्यमाणं प्रत्येकमभिसम्बध्यते। `निष्ठा` इत्यनेन निष्ठान्तमुपलक्षयतिः `वेत्तेः` इत्यादि। `विद ज्ञाने` (धातुपाठः-1064) इत्यस्य `विदितः` इत्येतद्रूपमिष्यते; नित्येट्त्वात्, तस्येटा निष्ठातकारस्य व्यवधाने सति नत्वस्यासम्भवात्। `विद्यतेः` इति। `विद सत्तायाम्` (धातुपाठः-1171) इत्यस्य श्यन्विकरतस्य [नास्ति -कांउपाठे] निष्ठान्तस्य `विन्नः` इत्येतद्रूपमिध्यते; `एकाचः` (7.2.10) इतीट्प्रतिषेधात्; `रदाभ्याम्` (8.2.42) इत्यादिना च नित्यं नत्वविधानात्। `विन्तेविन्नश्च वित्तश्च` इति। `विद विचारणे` (धातुपाठः-1450) इत्यस्य निष्ठान्तस्यैतद्रूपद्व्यमिष्यते; पूर्ववदिट्प्रतिषेधात्, अनेन च सूत्रेण (8.2.56) पक्षे नत्वविधानात्। `भोगिवित्तश्च विन्दतेः` इति। विब्दतेरित्यनेन लाभार्थविदिं दर्शयति। तस्य हि **शे मुचादीनाम्** (7.1.59) इति नुमि कृते विन्दतीत्येतद्रूपं भवति। भोगवित्त इति -भोगे वित्तो भोगवित्तः, `सप्तमी` (2.1.40) इति योगविभागात्? समासः। भोगग्रहणं चोपलक्षणमात्रम्। प्रत्ययोऽयि गृह्रते। `विद्लृ लाभे` (धातुपाठः-1432) इत्यस्य भोगे प्रत्यये चार्थे वित्त इत्येतद्रूपं निष्ठायामिष्यते; `वितो भोगप्रत्यययोः` (8.2.58) इति नत्वाभावस्य निपातनात्, **यस्य विभाषा** (7.2.15) इति निष्ठायामिट्प्रतिषेधाच्च। विन्दतेर्हि क्वसौ **विभाषा गमहनविदविशाम्** (7.2.68) इतीङ्विभाषितः; `भोगवित्तश्च विन्दतेः` इति ब्राउवताऽर्थतौ भोगप्रत्ययाभ्यामन्यत्र विन्न इत्येतद्रूपमिष्यत इत्युक्तं भवति॥ Prakriyasarvasvam ----------------- एभ्यो निष्ठानत्वं वा स्यात् । नुन्नः, नुतः । 'विद विचारणे' विन्नः, वित्तः । उन्नः, उत्तः । त्राणः त्रातः । घ्राणः, घ्रातः । ह्रीणः, ह्रीतः । वेत्तेस्तु सेट्त्वाद् विदितः । विद्यतिविन्दत्योर्विन्न एव । Sudha ----- तदाह - साड् रूपस्येति । तुराषाट्, तुराषाड् । तुरासाह् + स् अत्र **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सलोपे **हो ढः**(8.2.31) इति हस्य ढत्वे तस्य पदान्तत्वात् जश्त्वेन डत्वे कृते **सहेः साडः सः**(8.3.56) इति साड् रूपस्य सकारस्य षत्वे डस्य च **वाऽवसाने**(8.4.56) इत्यनेन वा चर्त्वे 'तुराषाट' इति । चर्त्वाभावपक्षे 'तुराषाड्' इति रूपम् । तुरासाहौ । अपदान्तत्वान्न मूर्धन्य इति भावः । **तुराषाड्भ्यामिति ।** तुरासाह् + भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदान्तत्वात् **हो ढः**(8.2.31) इति हस्य ढत्वे तस्य जश्त्वेन डत्वे **सहेः साडः सः**(8.3.56) इति सस्य मूर्धन्यादेशे 'तुरावाड्भ्याम्' इति रूपम् । इत्यादीति । तुराषाड्भिः । तुरापाड्भ्यः । तुरासाहे । तुरासाहः । तुरासाहः । तुरासाहोः तुराषाट्सु । Sutra Prayogas -------------- * **असंशयालोचितकार्यनुन्नः** (किरातार्जुनीयम्): `नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्` इति निष्ठानत्वम्। * **नुन्नम्** (शिशुपालवधम्): `नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्` इति विकल्पान्निष्टानत्वभावः। * **समुन्नमद्भि** (शिशुपालवधम्): `नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्` इति निष्ठानत्वम्। * **संह्रीणैः** (भट्टिकाव्यम्): `नुद-विद` इत्यादिना ।