82057: न ध्याख्यापॄमूर्छिमदाम्¶
Padacheda: न | S | 0 | 0 |
ध्याख्यापॄमूर्छिमदाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The निष्ठा त is not changed to न after 1. ध्या 2. ख्या 3. पॄ 4. मूर्छि and 5. मद।
Vasu English Translation¶
The निष्ठा त is not changed to न after 1. ध्या 2. ख्या 3. पॄ 4. मूर्छि and 5. मद। Thus ध्यातः, ध्यातवान्, ख्यातः, ख्यातवान्, पूर्त्तः, पूर्त्तवान्, मूर्त्तः, मूर्त्तवान्, मत्तः, मत्तवान् ॥
This debars the न change prescribed by (8.2.42), (8.2.43).
The root मूर्च्छि is exhibited in the sutra_ in its lengthened form; the root मूर्च्छ is lengthened by (8.2.78), and the च्छ is elided before त by (6.4.21).
Kashika¶
ध्या ख्या पृृ मूर्च्छि मद इत्येतेषां निष्ठातकारस्य नकारादेशो न भवति। ध्यातः। ध्यातवान्। ख्यातः। ख्यातवान्। पूर्तः। पूर्तवान्। मूर्तः। मूर्तवान्। मत्तः। मत्तवान्। **रदाभ्यां०**(८.२.४२),**संयोगादेः०**(८.२.४३) इति च प्राप्तः प्रतिषिध्यते॥
Siddhanta Kaumudi¶
एभ्यो निष्ठातस्य नत्वं न । ध्यातः । ख्यातः । पूर्तः । राल्लोपः (SK2655) । मूर्तः । मत्तः ॥
Balamanorama¶
न ध्याख्यापॄमूर्छिमदाम् - न ध्याख्या । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । ध्यात इति । ध्यैधातोः क्तः । ‘आदेचः’ इत्यात्वम् । अत्र ‘संयोगादेरातः’ इति प्राप्तं नत्वं न । ख्यात इति । ख्याञादेशपक्षे यण्वत्त्वात् ‘संयोगादेरातः’ इति प्राप्तं नत्वं न । ख्यादेशस्य शस्य यत्वे तु यस् णत्वप्रकरणगतस्याऽसिद्धत्वाद्यण्वत्त्वाऽभावात् ‘संयोगादेरातः’ इति नत्वस्य न प्रसक्तिः । स्वतः सिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नाऽस्त्येवेति ख्याग्रहणं व्यर्थमेव । पूर्त इति । पृधातोः क्तः ।श्र्युकः किती॑ति नेट् ।उदोष्ठपूर्वस्ये॑ति उत्त्वं,रपरत्वम् । इहरदाभ्या॑मिति प्राप्तं नत्वं न । मुर्छाधातोः क्ते आह — राल्लोप इति । छस्य लोप इति भावः । मूर्त इति ।आदितश्चे॑ति नेट् । छलोपेरदाभ्या॑मिति प्राप्तं नत्वं न ।हलि चे॑ति दीर्घः । मत्त इति । ‘मदी हर्षग्लेपनयोः’ अस्मात् क्तः । ‘श्वीदितः’ इति नेट् । अत्ररदाभ्या॑मिति प्राप्तं नत्वं न ।
Tattvabodhini¶
न ध्याख्यापॄमूर्छिमदाम् - न ध्या । ध्यै चिन्तायाम् । ख्या प्रकथने । प पालनपूरणयोः । मुच्र्छा मोहसमुच्छ्राययोः । मदी हर्षे । पूर्त इति ।श्र्युकः किती॑ति इण्निषेधः । छलोपविधिं स्मारयति -राल्लोपैति । मूर्तैति ।आदितश्चे॑ति नेट् । मत्त इति ।श्वीदितः॑ इति नेट् ।
Padamanjari¶
मूर्त इति । ठादितश्चऽ इतीट्प्रतिषेधः, राल्लोपःऽ इति च्छस्य लोपः । मत इति । ईदित्वादिट्प्रतिषेधः ॥
Nyaas¶
ध्यै चिन्तायाम् (धातुपाठः-908), ख्या प्रकथने (धातुपाठः-1060), चक्षिङः ख्याञ् (2.4.54) इति च -द्वयोरपि ग्रहणम्। ननु च चक्षिङादेशस्य सानुबन्धकत्वान्निरनुबन्धकग्रहणपरिभाषया (व्या।प।53) न प्राप्नोतीति? नैष दोषः; इह हि निष्ठातकारस्य परत्वप्रतिपादने पञ्चमी युक्ता, यथा -रदाभ्याम्? (8.2.42) इति। तत्र पञ्चमीनिर्देशे कर्तव्ये यः षष्ठीनिर्देशः क्रियते, स सम्बन्धसामान्यं प्रतिपादयितुम्। न च सम्बन्धिन मन्तरेण सम्बन्धसामान्यमुपपद्यते। न च सानुबन्धके परित्यज्यमाने सम्बन्धिभेदः सम्भवतीति युक्तं तस्यापि ग्रहणम्, `पृ? पालनपूरणयोः (धातुपाठः-1489), मुच्र्छा मोहसमुच्छ्राययोः (धातुपाठः-212), मदी हर्षे (धातुपाठः-1208)। एषु ध्याख्याप्रभृतिषु -आद्ययोः ऋतश्च संयोगादेः (7.2.43) इत्यादिना नत्दे प्राप्ते, इतरेषामपि रदाभ्याम् (8.2.42) इत्यादिना, प्रतिषेधोऽयमारभ्यते। पूर्त्तः इति। श्रयुकः किति (7.2.11) इतीट्प्रतिषेधः, उदोष्ठपूर्वस्य (7.1.102) इत्युत्त्वम्, पूर्ववद्दीर्घः। मूर्त्तः इति राल्लोपः (6.4.21) इति च्छकारलोपः, आदितश्च (7.2.16) इतीट्प्रतिषेधः। मत्तः इति। अत्रापि श्वीदितो निष्ठायाम् (7.2.14) इति॥
Prakriyasarvasvam¶
एभ्यो निष्ठानत्वं न स्यात् । ध्यातः । ख्यातः । पृ त ।