82055: अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः

Padacheda: अनुपसर्गात् | S | 5 | 1 |

फुल्लक्षीबकृशोल्लाघाः | S | 1 | 3 |

Sutrartha


Vasu English Summary

The irregular participles 1. फुल्ल 2. क्षीब 3. कृश and 4. उल्लाघ are formed then only, when no preposition precedes them.

Vasu English Translation

The irregular participles 1. फुल्ल 2. क्षीब 3. कृश and 4. उल्लाघ are formed then only, when no preposition precedes them. The word फुल्ल is derived from the root ञिफला विशरणे the त is changed to ल ॥ The change of अ to उ (7.4.88) and the want of इट् augment (7.2.16) are regular. The same change takes place before क्तवतु also, as फुल्लवान् ॥

The affix त् is elided after the roots क्षीब्, कृश् and उत् -लाघ्, and the augment इट् is prohibited; this is the irregularity in क्षीबः, कृशः and उल्लाघः ॥

Why do we say when not preceded by a Preposition? Observe प्रफुल्लाः सुमनसः, प्रक्षीबितः, प्रकृशितः, प्रोल्लाघितः ॥ In the case of लाघ्, prepositions other than उत् are prohibited.

Or the augment इट् is added, and then इत् is elided from क्षीबितः &c. See (8.2.3) vartika

Vart:- The forms उत्फुल्लः and संफुल्लः should be enumerated. . Here त is changed to ल, though the root has taken a Preposition.

In the word परिकृशः, the word परि is not a Preposition with regard to the verb कृश्; परिगतः कृशः = परिकृशः ॥ So that परि is upasarga of the verb गतः understood, hence we have the form कृशः ॥

Bhashya

अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः अनुपसर्गादित्युच्यते तत्रेदं न सिध्यति-परिकृशमिति॥ कृशेः(2) क एष(3) विहित इगुपधात्॥ नैतन्निष्ठान्तम्॥ किं तर्हि?॥ कृश एष(3) इगुपधात्को विहितः॥ नैवं शक्यम्(4)॥ स्वरे हि दोषो भवति परिकृशे॥ नैवं शक्यम्(4)॥ इह हि परिकृश इति, स्वरे दोषः स्यात्। अन्तः थाथघञ्ञ्क्ताजबित्रकाणामित्येष स्वरः प्रसज्येत॥ पदस्य(2) लोपो विहित इति मतम्॥ एवं तर्हि पदस्य लोपोऽत्र(1) द्रष्टव्यः। पर्यागतः कार्श्येन परिकृशः(1)॥ जगत्यनूना भवति हि रुचिरा॥ झ्र्जगत्यनूना(2) भवति हि रुचिराट॥ फलेर्लत्वे उत्पूर्वस्योपसङ्ख्यानम्॥ फलेर्लत्वे उत्पूर्वस्योपसङ्ख्यानं कर्तव्यम्। उत्फुल्लोऽनृतं(3) कथयति॥ अत्यल्पमिदमुच्यते उत्पूर्वादिति॥ उत्फुल्लसंफुल्लयोरिति वक्तव्यम्(4)॥ उत्फुल्लः। संफुल्लः॥ कृशेः क एष हि विहित इगुपधात्स्वरे हि दोषो भवति परिकृशे॥ पदस्य लोपो विहित इति मतं जगत्यनूना भवति हि रुचिरा॥1॥

Kashika

फुल्ल क्षीब कृश उल्लाघ इत्येते निपात्यन्ते, न चेदुपसर्गादुत्तरा भवन्ति। फुल्ल इति ञिफला विशरणे इत्येतस्माद् धातोरुत्तरस्य निष्ठातकारस्य लकारो निपात्यते। उत्वमिडभावश्च सिद्ध एव। क्तवत्वन्तस्याप्येतद् लत्वमिष्यते — फुल्लः, फुल्लवानिति। क्षीबकृशोल्लाघा इति क्षीबिकृशिभ्यामुत्पूर्वात् च लाघेः क्तप्रत्ययस्य तलोप इडभावश्च निपात्यते, कृते वेटि इच्छब्दलोपः। क्षीबः। कृशः। उल्लाघः। अनुपसर्गादिति किम्? प्रफुल्ताः सुमनसः। प्रक्षीबितः। प्रकृशितः। प्रोल्लाघितः। लाघेरुदोऽन्य उपसर्गः प्रतिषिध्यते॥ उत्फुल्लसंफुल्लयोरिति वक्तव्यम्॥ उत्फुल्लः। संफुल्लः। परिकृश इत्यत्र यः परिशब्दः स क्रियान्तरयोगात् कृशिं प्रत्यनुपसर्ग एव — परिगतः कृशः परिकृश इति॥

Siddhanta Kaumudi

ञिफाला । फुल्लः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिष्यते । फुल्लवान् । क्षीबादिषु तु क्तप्रत्ययस्यैव तलोपः । तस्यासिद्धत्वात्प्राप्तस्येटोऽभावश्च निपात्यते । क्षीबो मत्तः । कृशस्तनुः । उल्लाघो नीरोगः । अनुपसर्गात्किम् ॥

Balamanorama

अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः - अनुपसर्गात् । एते निपात्यन्ते, उपसर्गात्परा न चेदित्यर्थः । लत्वमिति ।आदितश्चे॑ति इडभावः,ति चे॑त्युत्त्वं च सिद्धमिति भावः । ‘फल निष्पत्तौ’ इत्यस्य तु नाऽत्र ग्रहणम्, इडभावस्याऽपि निपात्यत्वापत्तेः । ननु क्तवतुप्रत्यये फुल्लवानिति कथं, क्तवतुप्रत्यये क्तस्याऽनर्थकत्वेन फुल्लशब्देनाऽग्रहणादित्यत आह — क्तवत्वेकदेशस्यापीति । क्षीबादिष्विति । क्षीबकृशोल्लाघेष्वित्यर्थः । क्तप्रत्ययस्यैवेति । नतु क्तवत्वेकदेशस्यापीत्यर्थः । अनर्थकत्वादित भावः । तस्येति । तलोपस्येत्यर्थः । क्षीबो मत्त इति । क्षीबेः क्तः, तलोपः, इडभावश्च । अत्र मत्तादिरेवार्थः, निपातनबलात् । अनुपसर्गात्किमिति । अत्र ‘प्रफुल्त’ इति प्रत्युदाहरणं विवक्षंस्तत्र विशेषमाह —

Tattvabodhini

अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः - क्षीबादिष्विति । क्षीबृ मदे,कृश तनुत्वे, लाघृशक्तावुत्पूर्वः, एभ्यः क्तः । ननु फुल्ल विकसन इत्यस्मादुल्लाघेश्च पचाद्यचि इतराभ्यामिगुपधलक्षणे कप्रत्यये च फुल्लादयः सिध्यन्ति तत्क सूत्रेणेत्यत आह — सूत्रं त्विति ।

Padamanjari

फुल्ल इति । ठादितश्चऽ इतीट्प्रतिषेधः, ठुत्परस्यातःऽ,’ति च’ इत्युत्वम् । क्तवत्वन्तस्याप्येतल्लत्वमिष्यत इति । निष्ठायास्तशब्दान्तं यद्रूपं तस्य फुल्लः - इत्येतन्निपात्यत इति भावः । क्षीबादिषु तु नैतदिष्यते । इडभाव इति । अन्यथा तलोपस्यासिद्धत्वाद्वलादित्वादिट् प्रसज्येत । कृते वा इटि इच्छब्दलोप इति । निपात्यत इत्यपेक्षते । लाघेरुदोऽन्य इति । उदस्तु प्रतिषेधो न भवति; निर्देशसामर्त्यात् । कृशि प्रत्यनुपसर्ग एवेति ।’यत्क्रियायुक्ताः प्रादयस्तं प्रति’ इति वचनात् । क्रियान्तरयोगमेव दर्शयति - परिगतः कृश इति । कार्श्येन परिगत इत्यर्थः । यद्यपि फुल्लादयः पचाद्यचि इगुपधलक्षणे के च सिध्यन्ति, तथापि’निष्ठा च द्व्यजनात्’ इत्यादिकार्यसिद्धये, क्षीबिताद्यनिष्टशब्द निवृतये च निपातनम्; फुल्लशब्दे तु फुल्लावनित्येतदर्थं च ॥

Nyaas

फुल्लः इति। ञिफला विशरणे (धातुपाठः-516), आदितश्च (7.2.16) इतीट्प्रतिषेधथः, उत्परस्यातः (7.4.88) इत्युत्त्वम्। क्तवत्वन्तस्याप्येतल्लत्वमिष्यते इति। कथं पुनरिष्ययाणमपि लभ्यते, न हि क्तवत्वन्तः शब्दः सूत्र उपात्तः? उच्यते; इह निष्ठायास्तकारान्तं यच्छब्दरूपं तस्य फुल्ल इत्येतन्निपात्यते, क्तवतोश्च [क्तक्तवतोश्च इति काशीमुद्रितः पाठः] तत्? तुल्यम्। परस्तु यदि क्तवतोऽर्थो वा विशेष्यते? विशेष्यताम्, न हि तेन समानेनासमानेन वा परयोजनमस्ति। तस्मात्? क्तवत्वन्तस्याप्येतल्लत्वं भवति। एवमनयैव युक्त्या क्षीबकृशोल्लाघादिष्वपि यन्निपात्यते, तदपि क्तवत्वन्तस्य प्रसज्यते[प्रसज्येत -इति कांउ।पाठः] नैष दोषः; वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोर्योगयोः शेषः। व्यवस्थितविभाषा च न ज्ञायते, तेनातिप्रसङ्गो न भविष्यतीति।क्षीविकृशिभ्याम् इति। क्षीबृ मदे (धातुपाठः-382), कृश तनूकरणे (धातुपाठः-382), कृश तनूकरणे (धातुपाठः-1227)। इडभावश्च निपात्यते इति। क्तलोपस्यासिद्धत्वाद्वलादिरार्धधातुको भवतीतीट्? प्राप्नोति; अतस्तदभावश्च निपात्यते। कृते वा इटि इच्छब्दलोपः इति। निपात्यत इति सम्बन्धः। इडभावापेक्षो विकल्पः। अथ वा -नेडभावो निपात्यते। किं तर्हि? कृत इटीच्छब्दलोपः। लाघेरुदोऽन्य उपसर्गः प्रतिषिध्यते इति। उत्पूर्वस्य ग्रहणसामर्थायत्। अन्यथा ह्रुत्पूर्वस्योपादानमनर्थकं स्यादित्यभिप्रायः। अनुपसर्गादित्युच्यते, तत्र परिकृश इति न सिध्यति? इत्यत आह -परिकृश इत्यत्र इत्यादि। तनूकरणलक्षणक्रियाया अन्यक्रिया गमनलक्षणा क्रियान्तरम्, तेन योगोऽयम्, न परिशब्दः, अतर कृशिं प्रत्युपसर्गसंज्ञा भवतीति कृत्वा। परिगतः कृशः इति। अनेन तं क्रियान्तरयोगं दर्शयति। अथ किमर्थं निपातनम्; यावता फुल्ल इति फुल्ल विकसने (धातुपाठः-532) इत्यस्मात्? पचाद्यचि सिध्यति, क्षीबेरिगुपधलक्षणे के -क्षौव इति, कृश इत्यपि कृशेरचैव, उल्लराघ इति -लाघ इत्येव पचाद्यचि सिद्ध्यत्येव? सत्यमेवैतत्; निष्ठायां तु फलतिप्रभृतीनामसत्यस्मिन्ननिष्टं रूपं प्राप्नोति। अतस्तन्निवृत्त्यर्थमारब्धध्यमेतत्॥

Prakriyasarvasvam

एते उपसर्गाभावे क्तान्ता निपात्यन्ते । ‘ञि फला विशरण’ इत्यस्य फुल्लः । अस्य क्तवतावपि लत्वमिष्टम् । फुल्लवान् । ‘क्षीबृ मदे’ । क्षीबः । ‘कृश तनूकरणे’ । कृशः । उल्लाघो नीरोगः । उपसर्गात्तु प्रफल् त ।

Vartika

उत्फुल्लसंफुल्लयोरुपसंख्यानम् ।

Sutra Prayogas

  • प्रफुल्लम् (रघुवंशम्): अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः इति निषेधात्।

  • फुल्लासनाग्रविटपानिव (रघुवंशम्): अनुपसर्गात्फुल्लक्षीवकृशोल्लाघाः इति निष्ठातकारस्य लत्वनिपातः।

  • उत्फुल्ल (किरातार्जुनीयम्): उत्फुल्लसंफुल्लयोरुपसंख्यानात् (वा. ८.२.५५) इति निष्ठालत्वम्।

  • क्षीबता (किरातार्जुनीयम्): अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः इति निपातनात् क्षीबशब्दः साधुः।

  • प्रफुल्लतापिच्छनिभैः (शिशुपालवधम्): अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः इति निपातनात्।

  • सम्फुल्लस्फुरितसरोरुहावतंसा (शिशुपालवधम्): उत्फुल्लसंफुल्लयोरुपसंख्यानम् (वार्त्तिकम्) इति निष्ठातस्य लत्वम्।

  • क्षीबताम् (शिशुपालवधम्): अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः इति निष्ठान्तो निपातितः।

  • परिफुल्लगण्डफलकाः (शिशुपालवधम्): अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः इति वचनात् सोपसर्गस्य निष्ठान्तत्वनिषेधः।

  • क्षीब (भट्टिकाव्यम्): अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः इति निपातितः।