82052: पचो वः¶
Padacheda: पचः | S | 5 | 1 |
वः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
व is substituted for the निष्ठा त after the root पच् ‘to cook’ ।
Vasu English Translation¶
व is substituted for the निष्ठा त after the root पच् ‘to cook’ । As पक्वः, पक्ववान् ॥
Kashika¶
पचेर्धातोरुत्तरस्य निष्ठातकारस्य वकारादेशो भवति। पक्वः। पक्ववान्॥
Siddhanta Kaumudi¶
पक्वः ॥
Laghu Siddhanta Kaumudi¶
पक्वः॥ क्षै क्षये॥
Balamanorama¶
पचो वः - पचो वः । पचेः परस्य निष्टातस्य वः स्यादित्यर्थः । पक्व इति । वत्वस्याऽसिद्धत्वात्कुत्वम् ।
Nyaas¶
पक्वः, पक्ववान् इति। डुपटचष्? पाके (धातुपाठः-996)। यद्येवम्, पक्व इत्यतत्? सिद्धशुष्कपक्वबन्धैश्च (2.1.41) इति निपातनादपि हि सिध्यति; तथापि पक्ववानित्येतदर्थमिदमवश्यमारब्धव्यम्। अन्यार्थं चारभ्यमाणं पक्व इत्येतदर्थरूपमपि भवतीति पस्वशब्दोऽस्योदाहरणमुपन्यस्तम्। निपातनद्वारेण हि तद्व्युत्पत्तौ प्रतिपत्तिगौरवं स्यादित्यभिप्रायः॥
Prakriyasarvasvam¶
पक्वः पक्ववान् ।।
Sutra Prayogas¶
विपक्वं (कुमारसम्भवम्): पचो वः इति निष्ठातस्य वत्वम्