82053: क्षायो मः¶
Padacheda: क्षायः | S | 5 | 1 |
मः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
म is substituted for the निष्ठा त after the root क्षै।
Vasu English Translation¶
म is substituted for the निष्ठा त after the root क्षै। Thus क्षामः, क्षामवान् ॥
Kashika¶
क्षैधातोरुत्तरस्य निष्ठातकारस्य मकारादेशो भवति। क्षामः। क्षामवान्॥
Siddhanta Kaumudi¶
क्षामः ॥
Laghu Siddhanta Kaumudi¶
क्षामः॥
Balamanorama¶
क्षायो मः - क्षायो मः । ‘क्षै क्षये’ इत्यस्मात् परस्य निष्ठातस्य मः स्यादित्यर्थः । क्षाम इति । ‘आदेचः’ इत्यात्वम् ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । क्षीण इत्यर्थः । अन्तर्भावितण्यर्थत्वे क्षपित इत्यर्थः ।
Tattvabodhini¶
क्षायो मः - क्षाम इति । क्षै क्षये ।आदेचः॑ इत्त्यात्वम् ।
Nyaas¶
क्षै जै वै क्षये (धातुपाठः-913-915)॥प्रस्तीमः इति। ष्टऐ स्त्यै सङ्घातशब्दयोः (धातुपाठः-911,910)। स्त्यः प्रपूर्वस्य (6.1.23) इति सम्प्रसारणम्; पूर्ववद्दीर्घः। इह यदा मत्वं न भवति। तदा ऋतश्च संयोगादेः (7.2.43) इत्यनेन नत्वेन भवितव्यम्; ततश्च प्रस्तीनः, प्रस्तीनवानितीष्टं स्यात् -इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह -यदा मत्वं नास्ति इत्यादि। कृते तर्हि प्रथमं सम्प्रसारणे नत्वं कस्मान्न भवति? इत्याह -तत्र कृते इत्यादि॥