82051: शुषः कः¶
Padacheda: शुषः | S | 5 | 1 |
कः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
क is substituted for the निष्ठा त after the root शुष्।
Vasu English Translation¶
क is substituted for the निष्ठा त after the root शुष्। As शुष्कः, शुष्कवान् ॥
Kashika¶
शुषेर्धातोरुत्तरस्य निष्ठातकारस्य ककारादेशो भवति। शुष्कः। शुष्कवान्॥
Siddhanta Kaumudi¶
निष्ठात इत्येव । शुष्कः ॥
Laghu Siddhanta Kaumudi¶
निष्ठातस्य कः॥ शुष्कः॥
Balamanorama¶
शुषः कः - शुषः कः । निष्ठात इति । शुषः परस्य निष्ठातस्य कः स्यादिति फलितम् ।
Tattvabodhini¶
शुषः कः - शुष्क इति । शुष शोषणे ।
Nyaas¶
शुष शोषणे (धातुपाठः-1183) इत्यस्मात्? परस्य निष्ठातकारस्य ष्टुत्वे प्राप्ते ककारो विधीयते। अकार उच्चारणार्थः। शुष्कः, शुष्कवान् इति। युक्तं शुष्वानित्येतदुदाहरणम्, शुष्क इत्येतत्त्वयुक्तम्; न ह्रेतदर्थेऽस्य सूत्रस्यारम्भो युज्यते, शुष्कधृष्टौ (6.1.206) इति निपातनेनैव सिद्धत्वात्? नैतदस्ति; निपातनेन हि ककारे सति शुष्किकेत्यत्र उदीचामातः स्थाने यकपूर्वायाः (7.3.46) इति विभाषेत्वं स्यात्, शुष्कजङ्घेत्यत्र च न कोपधायाः (6.3.37) इति पुंवद्भावप्रतिषेधः स्यात्; इह तु ककारस्य विधाने सति तस्यासिद्धत्वादेतदुभयं न भवति। तस्माच्छुष्क इत्येतदर्थोऽप्यस्यारम्भो युक्तः॥
Prakriyasarvasvam¶
शुषेर्निष्ठातस्य कः स्यात् । शुष्कः, शुष्कवान् ।।
Sutra Prayogas¶
शुष्कम् (किरातार्जुनीयम्): शुषः कः इति निष्ठातकारस्य ककारः।
युगान्तसंशुष्कजलौ (किरातार्जुनीयम्): शुषः कः इति निष्ठातकारस्य ककारः।