82050: निर्वाणोऽवाते¶
Padacheda: निर्वाणः | S | 1 | 1 |
अवाते | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word निर्वाण is irregularly formed by changing the निष्ठा त is changed to न when the sense is not that of ‘wind’.
Vasu English Translation¶
The word निर्वाण is irregularly formed by changing the निष्ठा त is changed to न when the sense is not that of ‘wind’. The word निर्वाण is formed from the root वा, with the preposition निर् and the Participial affix त ॥ Thus निर्वाणोऽग्निः = उपशान्तः, निर्वाणः प्रदीपः, निर्वाणो भिक्षुः = उपरतः ॥
Why do we say when not meaning “the wind”? Observe, निर्वातो वातः, निर्वातं वातेन ॥
In the sentences निर्वाणः प्रदीपो वातेन, निर्वाणोऽग्निर्वातेन, the न change has taken place, because the location of the verb वा is in the प्रदीप and अग्नि, and not in the वात, which is merely an Instrument. Hence the above vritti uses the words “if the sense of the verb वा does not govern वात in the locative case”.
Bhashya¶
निर्वाणोऽवाते ॥ अवाताऽभिधाने(1)॥ अवाताभिधान इति वक्तव्यम्। इहापि यथा स्यात्-निर्वाणोऽग्निर्वातेन। निर्वाणः प्रदीपो वातेनझ्र्इति(1)टझ्र्निर्वाणोऽवातेट॥
Kashika¶
निर्वाण इति निस्पूर्वाद् वातेरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते, न चेद् वाताधिकरणो वात्यर्थो भवति। निर्वाणोऽग्निः। निर्वाणः प्रदीपः। निर्वाणो भिक्षुः। अवात इति किम्? निर्वातो वातः। निर्वातं वातेन। निर्वाणः प्रदीपो वातेनेत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणमिति भवत्येव नत्वम्॥
Siddhanta Kaumudi¶
अवाते इति छेदः । निर्पूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातस्चेत्कर्ता न । निर्वाणोऽग्निर्मुनिश्च । वाते तु निर्वातो वातः ॥
Balamanorama¶
निर्वाणोऽवाते - निर्वाणोऽवाते । कर्ता नेति । निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च । तस्मिन् धात्वर्थे यदिवायुः कर्ता तदा नत्वं नेत्यर्थः । वनिर्वाणोऽग्निर्मुनिर्वेति । नष्ट, उपरत इति क्रमेणार्थः ।गत्यर्थाकर्मके॑त्यादिना कर्तरि क्तः । निर्वातो वात इति । अत्र वातस्य कर्तृत्वान्नत्वं नेति भावः ।निर्वाणो दीपो वातेने॑त्यत्र तु वातस्य करणत्वे विवक्षितत्वात्कर्तृत्वाऽभावान्नत्वं निर्वाह्रम् । भावे तु निर्वातं वातेन ।
Tattvabodhini¶
निर्वाणोऽवाते - निर्वाणोऽवाते । वा गतिगन्धनयोः,निर्पूर्वादस्मान्निष्ठातस्य नत्वे णत्वम् । वातश्चेत्कर्ता नेति । एवं चवातेन हेतुना निर्वाणो दीप॑ इत्यत्र निषेधो नेत्याहुः । निर्वात इति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । नितरां वातो गतः इत्यर्थः ।
Padamanjari¶
वाताधिकरण इति । वातकर्तृक इत्यर्थः । यदि’वातश्चेदभिधेयो न भवति’ इत्यर्थः स्यात्, तदा निर्वातो वात इत्यत्रैव प्रतिषेधः स्याद्यत्र कर्तरि क्तः; यत्र तु भावे तत्र न स्यात् - निर्वातं वातेनेति । निर्वाणोऽग्निरिति । उपशान्त इत्यर्थः । निर्वाणो भिक्षुरिति । उपरत इत्यर्थः । वातस्तु करणमिति । यथासम्भवं करणत्वे हेतौ वा तृतीया द्रष्टव्या । यथा तु वार्तिकं तथा भावे प्रतिषेधो न भवति, निर्वाणं वातेनेत्येव भवति ॥
Nyaas¶
दातेरुत्तरस्य इति। वा गतिगन्धनयोः (धातुपाठः-1050) इत्येतस्मात्। न च इत्यादि। धातमचिकरणमाधारो यस्य स तथोक्तः। एतदुक्तं भवति -धातेर्धातोर्योऽर्थः स यदि धातेन समवेतो भवतीत्यर्थः। निर्वाणोऽग्निः, निर्वाणः प्रदीपः इति। अत्र स्वरूपस्य यः प्रशम उपरतिलक्षणः स धात्वर्थः। एष निर्वाणो भिक्षुः इति। अत्रापि। अथ वा -रागादिप्रहाणं धात्वर्थः। निर्वातो वातः इति। अकर्मकत्वात्? कर्तरि निष्ठा। निर्वातं वातेन इति। अत्र भावे। उभयत्राप्यत्र गतिनिरोधो धात्वर्थ-। निर्वाणः प्रदीपी वातेन इति। अत्र वातेनेति कर्त्रि तृतीया। तस्माद्वात एव दात्यर्थस्याधारः, ततश्च नत्वेन भवितव्यमिति कस्यचिद्व्यामोहः स्यात्, अतस्तान्निराकरणायाह -निर्याणः प्रदीपः इत्यादि। अत्र निर्वाणंधात्वर्थः, तच्च प्रदपाधारम्, न वाताधारम्। वाताधारे हि तस्मिन्निर्वाण इति यदि कर्तरि निष्ठा, तदा तयैवाभिहितत्वात्? कर्त्तुर्वातात्? तृतीया न स्यात्। अथ नपुंसके भावे क्तः (3.3.114) इति भावे? एवं ससि निर्वाण इति पुंल्लिङ्गं न स्यात्। तस्मात्? प्रदीप एव कर्ता धात्वर्धस्याधारः। यद्येवम्, कथं वातेनेत्यत्र तृतीया? इत्यत आह -वातस्तु इत्यादि। एतेनैषा तृतीया न कर्तरीति दर्शयति॥
Prakriyasarvasvam¶
वातादन्यत्र निर्वाणोऽग्निरित्यादि नत्वम् । वाते निर्वातः पवनः । शान्त इत्यर्थः । वातेऽपि भावे वा नत्वमाह हरः । निर्वाणं निर्वातं वा वायुना ।।
Sutra Prayogas¶
निर्वाणालातलाघवम् (कुमारसम्भवम्): निर्वाणोऽवाते इति निपातनान्निष्ठानत्वम्।