82051: शुषः कः ============== **Padacheda:** शुषः | S | 5 | 1 | कः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- क is substituted for the निष्ठा त after the root शुष्। Vasu English Translation ------------------------ क is substituted for the निष्ठा त after the root शुष्। As शुष्कः, शुष्कवान् ॥ Kashika ------- शुषेर्धातोरुत्तरस्य निष्ठातकारस्य ककारादेशो भवति। शुष्कः। शुष्कवान्॥ Siddhanta Kaumudi ----------------- निष्ठात इत्येव । शुष्कः ॥ Laghu Siddhanta Kaumudi ----------------------- निष्ठातस्य कः॥ शुष्कः॥ Balamanorama ------------ **शुषः कः** - शुषः कः । निष्ठात इति । शुषः परस्य निष्ठातस्य कः स्यादिति फलितम् । Tattvabodhini ------------- **शुषः कः** - शुष्क इति । शुष शोषणे । Nyaas ----- `शुष शोषणे` (धातुपाठः-1183) इत्यस्मात्? परस्य निष्ठातकारस्य ष्टुत्वे प्राप्ते ककारो विधीयते। अकार उच्चारणार्थः। `शुष्कः, शुष्कवान्` इति। युक्तं शुष्वानित्येतदुदाहरणम्, शुष्क इत्येतत्त्वयुक्तम्; न ह्रेतदर्थेऽस्य सूत्रस्यारम्भो युज्यते, **शुष्कधृष्टौ** (6.1.206) इति निपातनेनैव सिद्धत्वात्? नैतदस्ति; निपातनेन हि ककारे सति शुष्किकेत्यत्र **उदीचामातः स्थाने यकपूर्वायाः** (7.3.46) इति विभाषेत्वं स्यात्, शुष्कजङ्घेत्यत्र च **न कोपधायाः** (6.3.37) इति पुंवद्भावप्रतिषेधः स्यात्; इह तु ककारस्य विधाने सति तस्यासिद्धत्वादेतदुभयं न भवति। तस्माच्छुष्क इत्येतदर्थोऽप्यस्यारम्भो युक्तः॥ Prakriyasarvasvam ----------------- शुषेर्निष्ठातस्य कः स्यात् । शुष्कः, शुष्कवान् ।। Sutra Prayogas -------------- * **शुष्कम्** (किरातार्जुनीयम्): `शुषः कः` इति निष्ठातकारस्य ककारः। * **युगान्तसंशुष्कजलौ** (किरातार्जुनीयम्): `शुषः कः` इति निष्ठातकारस्य ककारः।