82027: ह्रस्वादङ्गात्¶
Padacheda: ह्रस्वात् | S | 5 | 1 |
अङ्गात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The स् is elided before an affix beginning with झल् consonant (all consonant except semi-vowels and nasals) when it is preceded by a अङ्ग (stem) ending in a short vowel.
Vasu English Translation¶
The स् is elided before an affix beginning with झल् consonant (all consonant except semi-vowels and nasals) when it is preceded by a अङ्ग (stem) ending in a short vowel. As अकृतः; अहृथाः ॥ Why do we say after a short vowel stem? Observe अच्योष्ट, अप्लोष्ट ॥ Why do we say ‘after a stem’? Observe अकृथाः, अलाविष्टाम्, अलाविषुः अपाविष्टाम् and अपविषुः ॥ Why do we say “before an affix beginning with a jhal”. Observe अकृषाताम्, अकृषत ॥
This lopa is also of the सिच्, therefore not here द्विष्टरां, द्विष्टमाम् ॥ Here to the word द्वि is added the affix सुच् (5.4.18), and then the comparative affixes तर and तम with आम् (V. 4. II). This स् is not dropped.
Kashika¶
ह्रस्वान्तादङ्गादुत्तरस्य सकारस्य लोपो भवति झलि परतः। अकृत। अकृथाः। अहृत। अहृथाः। ह्रस्वादिति किम्? अच्योष्ट। अप्लोष्ट। अङ्गादिति किम् ? अलाविष्टाम्, अलाविषुः। झलीत्येव — अकृषाताम्, अकृषत। अयमपि सिच एव लोपः, तेनेह न भवति — द्विष्टराम्, द्विष्टमामिति। सुजन्ताद् द्विशब्दात्तरप्तमपौ, अद्रव्यप्रकर्ष आतिशायिकाद् आम् प्रत्ययः॥
Siddhanta Kaumudi¶
सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् ।{$ {!899 हृञ्!} हरणे$} । हरणं प्रापणं स्वीकारः स्तेयं नासनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति ।{$ {!900 धृञ्!} धारणे$} । धरति । अधार्षीत् । अधृत ।{$ {!901 णीञ्!} प्रापणे$} । निनयिथ । निनेथ । निन्यिषे ॥ अथाजन्ताः परस्मैपदिनः ॥{$ {!902 धेट्!} पाने$} । धयति ॥
Laghu Siddhanta Kaumudi¶
सिचो लोपो झलि। अभृत। अभृषाताम्। अभरिष्यत्, अभरिष्यत॥ {$ {! 3 हृञ् !} हरणे $} (धातुपाठे (01.1046)) ॥ हरति, हरते। जहार। जहर्थ। जह्रिव। जह्रिम। जह्रे। जह्रिषे। हर्तासि, हर्तासे। हरिष्यति, हरिष्यते। हरतु, हरताम्। अहरत्, अहरत। हरेत्, हरेत। ह्रियात्, हृषीष्ट। हृषीयास्ताम्। अहार्षीत्, अहृत। अहरिष्यत्, अहरिष्यत॥ {$ {! 4 धृञ् !} धारणे $} (धातुपाठे (01.1047)) ॥ धरति, धरते॥ {$ {! 5 णीञ् !} (धातुपाठे (01.1049)) प्रापणे $} ॥ नयति, नयते॥ {$ {! 6 डुपचष् !} पाके $} (धातुपाठे (01.1151)) ॥ पचति, पचते। पपाच। पेचिथ, पपक्थ। पेचे। पक्तासि, पक्तासे॥ {$ {! 7 भज !} सेवायाम् $} (धातुपाठे (01.1153)) ॥ भजति, भजते। बभाज, भेजे। भक्तासि, भक्तासे। भक्ष्यति, भक्ष्यते। अभाक्षीत्, अभक्त। अभक्षाताम्॥ {$ {! 8 यज !} देवपूजासङ्गतिकरणदानेषु $} (धातुपाठे (01.1157)) ॥ यजति, यजते॥
Balamanorama¶
ह्रस्वादङ्गात् - तङि तु अभृ स् त इति स्थिते -ह्रस्वादङ्गात् । ह्रस्वान्तादित्यर्थः । सिचेति भाष्यम् ।झलो झली॑त्यतो झलीति, ‘संयोगान्तस्य लोपः’ इत्यतो लोप इति चानुवर्तते — इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — सिचो लोपः स्याज्झलीति । ह्रस्वात्किम् । अच्योष्ट । अङ्गात्किम् । अलाविष्टाम् । सिचः किम् । द्विष्टराम् । द्विष्टमाम् । सुजन्तात्तरप्ततमौ । अभृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।झली॑त्युक्तेरभृषातामभृषतेत्यत्र न सिज्लोपः । अनतः परत्वाज्झस्य अदादेशः । अभृथाः अभृषाथामभृढ्वम् । अभृषि अभृष्वहि अभृष्महि । ह्मधातुरनिट् । हरणं चतुर्विधमित्याह — प्रापणमित्यादि । तद्यथा — भारं हरति । प्रापयतीत्यर्थः । अशं हरति । स्वीकरोतीत्यर्थः । परत्वं हरति । चोरयतीत्यर्थः । पापं हरति हरते वा । नाशयतीत्यर्थः । जहार जह्यतुः जह्युः । ‘एकाचः’ इतीण्निषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्तेअचस्तास्व॑दिति तन्निषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि इण्निषेध एव । तदाह — जहर्थेति । जह्यथुः जह्य । जहार — जहर । इति सिद्धवत्कृत्याह -जह्यिवेति । क्रादिनियमादिट् । जह्यिम । जह्यिषे । क्रादिनियमादिट् । जह्याथे जह्यिढ्वे — जह्यिध्वे । जह्य#ए जह्यिवहे जह्यिमहे । लुडादिषु भृञ इव रूपाणि । धृञ्धातुरनिट् । ह्मञ इव रूपाणि । णीञ्धातुरनिट् । णोपदेशः । नयति नयते । निनाय निन्यतुः निन्युः । क्रादिनियमाल्लिटि इट् । थलि तु ‘अचस्तास्व’ दितीण्निषेधस्य भारद्वाजनियमादिड्विकल्प इत्यभिप्रेत्याह — निनयिथ निनेथेति । निन्यिषे निन्याथे निन्यिढ्वे — निन्यिध्वे । निन्ये निन्यिवहे निन्यिमहे । नेता । नेष्यति नेष्यते । नयतु नयताम् । अनयत् अनयत । नयेत् नयेत । नीयात् नेषीष्ट । अनैषीत् अनेष्ट । अनेष्यत् अनेष्यत । इत्यजन्ता उभयपदिनो गताः । परस्मैपदिन इति ।जि ज्र अभिभवे इत्येत्पर्यन्ता॑ इति शेषः । धेट् पाने इति ।स्तनन्धयी॑त्यादौ ङीबर्थं टित्त्वम्, अवयवे टित्त्वस्यव्यर्थतया समुदायार्थत्वादिति हरदत्तः ।
Tattvabodhini¶
ह्रस्वादङ्गात् - प्रत्ययस्यैव तत्रापीष्टत्वात्सिच एव लोपो भवति । तेनेह न - अस्तं द्विष्टमाम् । केचित्त्विहाऽङ्गग्रहणाऽभावे अयाविष्टामलाविष्टामित्यादावपि अतिप्रसङ्गः स्यादित्याहुः । तदपरे न क्षमन्ते । संनिपातपरिभाषयापि परिहारसंभवादिति । झलीति किम । अभृषाताम् । अभृषत । ह्मञ् हरणे । चत्वार इहाऽर्थाः । भारं हरति । प्रापयतीत्यर्थः । अंशं हरति । स्वीकरोतीत्यर्थः । स्वर्णं हरति । चोरयति । पापं हरति । नाशयति । धृञ् । दधार । दध्रतुः । दधर्थ । दध्रे । दध्राते । धर्ता । ध्रियात् । णीञ् । निनयिथेति । भारद्वाजनियमादिङ्विकल्पः ।
Padamanjari¶
अच्योष्टेति । सलोपस्यासिद्धत्वात्पूर्वं गुणः, ततो विहितनिमितत्वाल्लोपाभावः । अयमपीति । अत्र ठुदः स्थास्तम्भोःऽ इति पूर्वोक्तं ज्ञापकमेव शरणम् । द्विष्टमामिति ।’ह्रस्वातादौ तद्धिते’ इति षत्वम् ॥
Nyaas¶
अलाविष्टाम् इति। तसस्ताम्, सिचि वृद्धिः। अत्र श्रुतिकृते पौर्वापये सति ह्रस्वादिङः परः सकारो भवति, न त्वङ्गात्; इडागमः प्रत्ययभक्तत्वेनानङ्गत्वात। अलाविषुः इति। सिजभ्यस्तविदिभ्यश्च (3.4.109) इति झेर्जुस्। अकृषाताम् इति। उश्च (1.2.12) इति कित्त्वाद्गुणाभावः। द्विष्टचाम् इति। द्वित्रिचतुभ्र्यः सुच् (5.4.18) तदन्तादतिशायने तरप्; किमेत्तिङ् (5.4.11) इत्यादिनामुः, ह्रस्वात् तादौ तद्धिते (8.3.101) इति सकारस्य मूर्धन्यः॥
Sutra Prayogas¶
न्यधित (शिशुपालवधम्): हृस्वादङ्गात् इति सकारलोपः।
समधित (शिशुपालवधम्): ह्रस्वादङ्गात् इति सकारलोपः।
जिष्णुरभृतोष्णवारणम् (शिशुपालवधम्): हस्वादङ्गात् इति सकारलोपः।
नादित (शिशुपालवधम्): ह्रस्वादङ्गात् इति सलोपः।
विप्रसादकृत (शिशुपालवधम्): ह्र्स्वादङ्गात् इति सकारलोपः।
अवास्थित (भट्टिकाव्यम्): ह्रस्वादङ्गात् इति सिचो लोपः।
कृथा (भट्टिकाव्यम्): ह्रस्वादङ्गात् इति सिचो लोपः ।
माऽन्तिर्धथाः (भट्टिकाव्यम्): ह्रस्वादङ्गात् इति सिचो लोपः ।
अहृत (भट्टिकाव्यम्): हस्वादङ्गात् इति सिचो लोपः।
प्रत्यवास्थित (भट्टिकाव्यम्): हस्वादङ्गात् इति सिचो लोपः ।
अमृत (भट्टिकाव्यम्): हस्वादङ्गात् इति सिचो लोपः।