82028: इट ईटि¶
Padacheda: इटः | S | 5 | 1 |
ईटि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The स् is elided after the augment इट् if after this स् the augment ईट् follows.
Vasu English Translation¶
The स् is elided after the augment इट् if after this स् the augment ईट् follows. Thus the Aorist-stem of लू is अलाविस् (3.1.44); (7.2.35), the Personal ending त् gets the augment ईट् by (7.3.96); and by the present sutra , this स् between इ and ई is dropped, and we have अलावीत्; so also अदावीत्, असेवीत्, अकोषीत्, अमोषीत् ॥
Why do we say ‘after the augment इट्’? Observe अकार्षीत्, अहार्षीत् ॥ Why when the augment ईट् follows ? Observe अलाविष्टाम् अलाविषुः ॥
Kashika¶
इट उत्तरस्य सकारस्य लोपो भवतीटि परतः। अदेवीत्। असेवीत्। अकोषीत्। अमोषीत्। इट इति किम् ? अकार्षीत्। अहार्षीत्। ईटीति किम् ? अलाविष्टाम्, अलाविषुः॥
Siddhanta Kaumudi¶
इटः परस्य सस्य लोपः स्यादीटि परे ।<!सिज्जलोप एकादेशे सिद्धो वाच्यः !> (वार्तिकम्) ॥ आतीत् । आतिष्टाम् । आतिषुः ॥
Laghu Siddhanta Kaumudi¶
इटः परस्य सस्य लोपः स्यादीटि परे। सिज्लोप एकादेशे सिद्धो वाच्यः (वार्त्तिकम्)। आतीत्। आतिष्टाम्॥
Balamanorama¶
इट ईटि - इट ईटि । ‘इट’ इति पञ्चमी । रात्सस्येत्यतः सस्येति, संयोगान्तस्येत्यतो लोप इति चानुवर्तते । तदाह — इटः परस्येति । एवं च आति स् ई त् इति स्थिते सकारस्यलोपे आति ईत् — इति स्थिते सवर्णदीर्घे आतीदिति रूपं वक्ष्यति । तत्र सलोपस्याऽसिद्धत्वात्कथं सवर्णदीर्घं इत्यत आह — सिज्लोप एकादेशे सिद्धो वक्तव्य इति । आतिष्टामिति । लुङस्तस् । तस्य ताम् । च्लेः सिच् । तस्य इटि आचि वृद्धौ षत्वम् । अपृक्तत्वाऽभावेन ईडभावात्सलोपो न । आतिषुरिति । लुङो झिः । च्लेः सिच् । जुस् इट् आट् वृद्धिः । षत्वं रुत्वविसर्गौ । आतीः आतिष्टमातिष्ट । आतिषमातिष्व आतिष्म ।
Tattvabodhini¶
इट ईटि - ॒संयोगान्तस्य लोपः॑इत्यतो लोप इति,रात्सस्ये॑त्यतः सस्येति चानुवर्तते । तदाह — लोपः स्यादिति । इटः किम् । अहार्षीत् । ईटि किम् । आतिष्टाम् । आतिषु । सिज्लोप एकादेशे सिद्धो वाच्यः । सिज्लोप इति । अत्र वदन्ति — सलोप इति वक्तव्ये सिज्ग्रहणंझलो झली॑त्यादिसूत्रत्रयं सिज्विषयकमिति ज्ञापनार्थम् । तेनेह सोमस्तुत् । स्तोता । द्विष्रकटराम् । द्विष्टमाम् ।धि चे॑ति सूत्रे तु वामनमते सिचो लोपः । भाष्यमते तु सस्येति भेदो बोध्य इति ।
Padamanjari¶
अत्र सिच एव सम्भवः ॥
Nyaas¶
अदेवीत् इति। नेटि (7.2.4) इति वृद्धिप्रतिषेधे कृते लघूपधगुणः, अस्तिसिचोऽपृक्ते (7.3.96) इतीट्॥
Prakriyasarvasvam¶
इटःपरस्य सिच ईटि परे लोपः स्यात् । निन्दि ईत् । सिज्लोपस्यासिद्धत्वात् सन्ध्यभावे प्राप्ते<!एकादेशे सिज्लोपः सिद्धो वाच्यः!> (वा०) इति सवर्णदीर्घः । अट् । अनिन्दीत् । अनिन्दिष्टाम् । अनिन्दिषुः । कर्मणि अनिन्दि अनिन्दिपाताम् अनिन्दिषत । अनिन्दिष्ठाः अनिन्दिपाथाम् । ध्वमि ‘धि च’ इति सलोपो इट्पर्यन्त- स्याङ्गत्वात् ततः परस्य ध्वम ‘इणः षीध्वम्-’ इति नित्यं ढः । इटः परस्य ‘इणः षीध्वम्—’ इति विध्यभावादत्र ढत्वं नास्तीति केचिदिति च हरः । अनिन्दिढ्वम्, अनिन्दिध्वम् । <karika>लुङ्येवं पक्षभेदात्तु सेट्सु ढत्वं विकल्प्यते । इट इण्पूर्वताभावाद्दिभाषेट इतीह न ॥ ६९१ ॥</karika> अनिन्दिषि अनिन्दिष्वहि अनिन्दिष्महि । लिटि निनिन्द निनिन्दतुः निनिन्दुः । निनिन्दिथ । निनिन्दिव ॥ कर्मणि निनिन्दे निनिन्दाते । निनिन्दिषे निनिन्दिध्वे । आशिषि निन्द्यात् निन्द्यास्ताम् । निन्दिषीष्ट निन्दिषीयास्ताम् । निन्दिषीध्वम् । लुडादौ निन्दिता, निन्दिष्यति, अनिन्दिष्यत् ।
Sutra Prayogas¶
ऐषीः (भट्टिकाव्यम्): मध्यमैक- वचने इट ईटि इति सिचो लोपे रूपम् ॥
न्यगादीत् (भट्टिकाव्यम्): इट ईटि इति सिचो लोपः।
साऽतियासीः (भट्टिकाव्यम्): इट ईटि इति सिचो लोपः।
श्वसीः (भट्टिकाव्यम्): इट ईठि इति सिचो लोपः।
अश्वयीत् (भट्टिकाव्यम्): इट ईटि इति सिचो लोपः ।
आटीत् (भट्टिकाव्यम्): इट ईटि इति सिचो लोपः।
अभाणीन्माल्यवान्युक्तमक्षंस्थास्त्वं (भट्टिकाव्यम्): इट ईटि इति सिचो लोपः।