82026: झलो झलि¶
Padacheda: झलः | S | 5 | 1 |
झलि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The स् is elided when it is preceded by a झल् consonant (all consonant except semi-vowels and nasals) and is followed by an affix beginning with a झल् consonant.
Vasu English Translation¶
The स् is elided when it is preceded by a झल् consonant (all consonant except semi-vowels and nasals) and is followed by an affix beginning with a झल् consonant. Thus अभित्त for अभित्स्त, अभित्थाः for अभित्स्थाः ॥ So also अच्छित्त, अच्छित्थाः, अवात्ताम्, अवात्त ॥ The last example may also be explained by (7.4.49); the elision of the स of सिच् being considered as asiddha, the स् of the root is changed to त् ॥
Why do we say ‘of a jhal consonant’? Observe अमंस्त and अमंस्थाः ॥ Why do we say followed by a jhal consonant ? Observe अभित्साताम्, अभित्सत ॥
The स of this sutra refers also to the स of सिच्; no other स is elided. As सोममसुत् स्तोता; दृषत् स्थानम् ॥ Here the स of स्तोता and स्थानं, though preceded by a jhal letter त्, could never be elided as they do not form portion of one word.
Kashika¶
झल उत्तरस्य सकारस्य झलि परतो लोपो भवति। अभित्त। अभित्थाः। अच्छित्त। अच्छित्थाः। अवात्ताम्, अवात्तेत्यत्र वा सिचः सकारलोपस्यासिद्धत्वात् सः स्यार्धधातुके (७.४.४९) इति सकारस्य तकारः। झल इति किम्? अमंस्त। अमंस्थाः। झलीति किम्? अभित्साताम्। अभित्सत। अयमपि सिच एव लोपः, तेनेह न भवति — सोमसुत् स्तोता, दृषत्स्थानमिति॥
Siddhanta Kaumudi¶
झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टाम् । इत्यादि ।{$ {!49 खादृ!} भक्षणे$} । ऋकार इत् । खादति । चखाद ।{$ {!50 खद!} स्थैर्ये हिंसायां च$} । चाद्भक्षणे । स्थैर्ये अकर्मकः । खदति ॥
Laghu Siddhanta Kaumudi¶
झलः परस्य सस्य लोपो झलि। अगौप्ताम्। अगौप्सुः। अगौप्सीः। अगौप्तम्। अगौप्त। अगौप्सम्। अगौप्स्व। अगौप्स्म। अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत्॥॥ {$ {! 13 क्षि !} क्षये $} (धातुपाठे (01.0269))॥ क्षयति। चिक्षाय। चिक्षियतुः। चिक्षियुः। एकाचेति निषेधे प्राप्ते -
Balamanorama¶
झलो झलि - असैध् स् तामिति स्थिते, अपृक्तत्वाभावादीडभावादिडभावाच्च, इट ईटीति सिचो लोपेऽप्राप्ते — झलो झलि । झल इति पञ्चमी । संयोगान्तस्येत्यतो लोप इति, रात्सस्येत्यतः सस्येति चानुवर्तते । तदाह — झलः परस्येत्यादि । असैद्धामिति । असैध् स् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम् । पक्ष इति । इट्पक्षे इत्यर्थः । असेधीदिति । इट ईटीति सलोपः । नेटीति वृद्धिप्रतिषेधः । लघूपधगुणः । खादृ इति । अत्र ऋदित्वंनाग्लोपी॑त्याद्यर्थमित्यभिप्रेत्याह — ऋकार इदिति । खदेति । स्थैर्यं — स्थिरीभवनम् ।
Tattvabodhini¶
झलो झलि - ॒संयोगान्तस्ये॑त्यतो लोप इति,रात्सस्ये॑त्यतः सस्येति चानुवर्तते । तदाह — सस्य लोपः स्यादिति । पदस्येत्यधिकारात्प्रत्यासत्तेर्झलो झलि सस्येति निर्दिष्टानां त्रयाणामेकपदसंबन्धित्वे लोपोऽयम् । तेनसोमसुत्स्थानटमित्यत्र नभवति । झलः किम् । अनैष्टाम् । झलि किम् । असैत्सीत् । असेधीदिति ।नेटी॑ति वृद्धिप्रतिषेधः गुणः । रखादृ भक्षणे । ऋकार इदिति । तेननाग्लोपी॑ति निषेधः । अचखादत् ।
Padamanjari¶
भिदिच्छिदी स्वरितेतौ, मन्यतिहनुदातेत् । अयमपि सिच एव लोप इति । यदि वा’पदस्य’ इति वर्तते, तत्र प्रत्यासतेः’झलो झलि’ सस्येति निर्द्दिष्टानां त्रयाणामप्येकसम्बन्धत्वे विधिरयमिति सोमसुत् स्तोतेत्यादौ न भविष्यति । समासेऽपि न भवति - सोमसुत्स्थितिरिति । किं कारणम् ? सकारथकाराभ्यां यत्पदमारब्धं तत्प्रति तकारस्यावयवत्वाभावात् ॥
Nyaas¶
अभित्त, अभित्थाः इति। भिदेर्लुङि स्वरितेत्त्वादात्मनेपदम्; तथासो, दकारस्य खरि च (8.4.54) इति चत्त्र्वम् -तकारः। अवात्ताम् इति। दसेर्लुङि तसस्ताम्। अदात्त इति। थस्य तः, वदव्रज (7.2.3) इत्यादिना वृद्धिः। अत्र सकारलोपे कृते सः स्यार्धधातुके (7.4.49) इति तकारो न प्राप्नोतीति यस्य भ्रान्तिः स्यात्, तं प्रत्याह -अवात्ताम् इत्यदि। अमंस्त, अमंस्थाः इति। मन ज्ञाने (धातुपाठः-1176), अनुदात्तेत्त्वादात्मनेपदम्। अभित्साताम् इति। भिदेराताम्। अभित्सत इति। आत्मनेपदेष्वनतः (7.1.5) इति झस्यादादेशः॥
Prakriyasarvasvam¶
झलः परस्य सस्य झलि परे लोपः स्यात् । अताप्ताम् । अताप्सुः । अताप्सीः अताप्तम् अताप्त । अताप्सम् अताप्स्व अताप्स्म । कर्मणि चिण् । अतापि अताप्साताम् अतप्सत । ‘झलो झलि’ । अतप्थाः । ‘धिच’ । पस्य जश्त्वम् । अतब्ध्वम् । अतप्सि अतप्स्वहि अतप्स्महि । अनुतापार्थस्य तु कर्मणि ।
Sutra Prayogas¶
शाधि (शिशुपालवधम्): झलो झलि इति सकारलोपः।
समनद्ध (शिशुपालवधम्): झलो झलि इति सकारलोपः।
वेदांस्त्रिदशानयष्ट (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः ॥
अध्यवात्तां (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः ।
प्रयुक्थाः (भट्टिकाव्यम्): झलो झलि इति सलोपः।
माऽऽरब्धा (भट्टिकाव्यम्): झलो झलि इति सिजलोपः।
उपालब्ध (भट्टिकाव्यम्): झलो झलि इति सिज्लोपे धत्वजश्त्वे रूपम्।
अलिप्तेवा (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः।
उपालब्ध (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः।
संप्राप्था (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः।
समरुद्धेव (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः।
मोपालब्धाह्कृतैर्दोषैर्मा (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः ।
प्रत्यपत्था (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः।
अबुद्ध (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः।
आरब्ध (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः।
अरुद्ध (भट्टिकाव्यम्): झलो झलि इति।
अच्छैत्तां (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः।
अगौप्तां (भट्टिकाव्यम्): झलो झलि इति सिचो लोपः।