82027: ह्रस्वादङ्गात् ===================== **Padacheda:** ह्रस्वात् | S | 5 | 1 | अङ्गात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The स् is elided before an affix beginning with झल् consonant (all consonant except semi-vowels and nasals) when it is preceded by a अङ्ग (stem) ending in a short vowel. Vasu English Translation ------------------------ The स् is elided before an affix beginning with झल् consonant (all consonant except semi-vowels and nasals) when it is preceded by a अङ्ग (stem) ending in a short vowel. As अकृतः; अहृथाः ॥ Why do we say after a short vowel stem? Observe अच्योष्ट, अप्लोष्ट ॥ Why do we say 'after a stem'? Observe अकृथाः, अलाविष्टाम्, अलाविषुः अपाविष्टाम् and अपविषुः ॥ Why do we say "before an affix beginning with a *jhal*". Observe अकृषाताम्, अकृषत ॥ This *lopa* is also of the सिच्, therefore not here द्विष्टरां, द्विष्टमाम् ॥ Here to the word द्वि is added the affix सुच् (5.4.18), and then the comparative affixes तर and तम with आम् (V. 4. II). This स् is not dropped. Kashika ------- ह्रस्वान्तादङ्गादुत्तरस्य सकारस्य लोपो भवति झलि परतः। अकृत। अकृथाः। अहृत। अहृथाः। ह्रस्वादिति किम्? अच्योष्ट। अप्लोष्ट। अङ्गादिति किम् ? अलाविष्टाम्, अलाविषुः। झलीत्येव — अकृषाताम्, अकृषत। अयमपि सिच एव लोपः, तेनेह न भवति — द्विष्टराम्, द्विष्टमामिति। सुजन्ताद् द्विशब्दात्तरप्तमपौ, अद्रव्यप्रकर्ष आतिशायिकाद् आम् प्रत्ययः॥ Siddhanta Kaumudi ----------------- सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् ।{$ {!899 हृञ्!} हरणे$} । हरणं प्रापणं स्वीकारः स्तेयं नासनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति ।{$ {!900 धृञ्!} धारणे$} । धरति । अधार्षीत् । अधृत ।{$ {!901 णीञ्!} प्रापणे$} । निनयिथ । निनेथ । निन्यिषे ॥ अथाजन्ताः परस्मैपदिनः ॥{$ {!902 धेट्!} पाने$} । धयति ॥ Laghu Siddhanta Kaumudi ----------------------- सिचो लोपो झलि। अभृत। अभृषाताम्। अभरिष्यत्, अभरिष्यत॥ {$ {! 3 हृञ् !} हरणे $} (धातुपाठे (01.1046)) ॥ हरति, हरते। जहार। जहर्थ। जह्रिव। जह्रिम। जह्रे। जह्रिषे। हर्तासि, हर्तासे। हरिष्यति, हरिष्यते। हरतु, हरताम्। अहरत्, अहरत। हरेत्, हरेत। ह्रियात्, हृषीष्ट। हृषीयास्ताम्। अहार्षीत्, अहृत। अहरिष्यत्, अहरिष्यत॥ {$ {! 4 धृञ् !} धारणे $} (धातुपाठे (01.1047)) ॥ धरति, धरते॥ {$ {! 5 णीञ् !} (धातुपाठे (01.1049)) प्रापणे $} ॥ नयति, नयते॥ {$ {! 6 डुपचष् !} पाके $} (धातुपाठे (01.1151)) ॥ पचति, पचते। पपाच। पेचिथ, पपक्थ। पेचे। पक्तासि, पक्तासे॥ {$ {! 7 भज !} सेवायाम् $} (धातुपाठे (01.1153)) ॥ भजति, भजते। बभाज, भेजे। भक्तासि, भक्तासे। भक्ष्यति, भक्ष्यते। अभाक्षीत्, अभक्त। अभक्षाताम्॥ {$ {! 8 यज !} देवपूजासङ्गतिकरणदानेषु $} (धातुपाठे (01.1157)) ॥ यजति, यजते॥ Balamanorama ------------ **ह्रस्वादङ्गात्** - तङि तु अभृ स् त इति स्थिते -ह्रस्वादङ्गात् । ह्रस्वान्तादित्यर्थः । सिचेति भाष्यम् ।झलो झली॑त्यतो झलीति, 'संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते — इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — सिचो लोपः स्याज्झलीति । ह्रस्वात्किम् । अच्योष्ट । अङ्गात्किम् । अलाविष्टाम् । सिचः किम् । द्विष्टराम् । द्विष्टमाम् । सुजन्तात्तरप्ततमौ । अभृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।झली॑त्युक्तेरभृषातामभृषतेत्यत्र न सिज्लोपः । अनतः परत्वाज्झस्य अदादेशः । अभृथाः अभृषाथामभृढ्वम् । अभृषि अभृष्वहि अभृष्महि । ह्मधातुरनिट् । हरणं चतुर्विधमित्याह — प्रापणमित्यादि । तद्यथा — भारं हरति । प्रापयतीत्यर्थः । अशं हरति । स्वीकरोतीत्यर्थः । परत्वं हरति । चोरयतीत्यर्थः । पापं हरति हरते वा । नाशयतीत्यर्थः । जहार जह्यतुः जह्युः । 'एकाचः' इतीण्निषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्तेअचस्तास्व॑दिति तन्निषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि इण्निषेध एव । तदाह — जहर्थेति । जह्यथुः जह्य । जहार — जहर । इति सिद्धवत्कृत्याह -जह्यिवेति । क्रादिनियमादिट् । जह्यिम । जह्यिषे । क्रादिनियमादिट् । जह्याथे जह्यिढ्वे — जह्यिध्वे । जह्य#ए जह्यिवहे जह्यिमहे । लुडादिषु भृञ इव रूपाणि । धृञ्धातुरनिट् । ह्मञ इव रूपाणि । णीञ्धातुरनिट् । णोपदेशः । नयति नयते । निनाय निन्यतुः निन्युः । क्रादिनियमाल्लिटि इट् । थलि तु 'अचस्तास्व' दितीण्निषेधस्य भारद्वाजनियमादिड्विकल्प इत्यभिप्रेत्याह — निनयिथ निनेथेति । निन्यिषे निन्याथे निन्यिढ्वे — निन्यिध्वे । निन्ये निन्यिवहे निन्यिमहे । नेता । नेष्यति नेष्यते । नयतु नयताम् । अनयत् अनयत । नयेत् नयेत । नीयात् नेषीष्ट । अनैषीत् अनेष्ट । अनेष्यत् अनेष्यत । इत्यजन्ता उभयपदिनो गताः । परस्मैपदिन इति ।जि ज्र अभिभवे इत्येत्पर्यन्ता॑ इति शेषः । धेट् पाने इति ।स्तनन्धयी॑त्यादौ ङीबर्थं टित्त्वम्, अवयवे टित्त्वस्यव्यर्थतया समुदायार्थत्वादिति हरदत्तः । Tattvabodhini ------------- **ह्रस्वादङ्गात्** - प्रत्ययस्यैव तत्रापीष्टत्वात्सिच एव लोपो भवति । तेनेह न - अस्तं द्विष्टमाम् । केचित्त्विहाऽङ्गग्रहणाऽभावे अयाविष्टामलाविष्टामित्यादावपि अतिप्रसङ्गः स्यादित्याहुः । तदपरे न क्षमन्ते । संनिपातपरिभाषयापि परिहारसंभवादिति । झलीति किम । अभृषाताम् । अभृषत । ह्मञ् हरणे । चत्वार इहाऽर्थाः । भारं हरति । प्रापयतीत्यर्थः । अंशं हरति । स्वीकरोतीत्यर्थः । स्वर्णं हरति । चोरयति । पापं हरति । नाशयति । धृञ् । दधार । दध्रतुः । दधर्थ । दध्रे । दध्राते । धर्ता । ध्रियात् । णीञ् । निनयिथेति । भारद्वाजनियमादिङ्विकल्पः । Padamanjari ----------- अच्योष्टेति । सलोपस्यासिद्धत्वात्पूर्वं गुणः, ततो विहितनिमितत्वाल्लोपाभावः । अयमपीति । अत्र ठुदः स्थास्तम्भोःऽ इति पूर्वोक्तं ज्ञापकमेव शरणम् । द्विष्टमामिति ।'ह्रस्वातादौ तद्धिते' इति षत्वम् ॥ Nyaas ----- `अलाविष्टाम्` इति। तसस्ताम्, सिचि वृद्धिः। अत्र श्रुतिकृते पौर्वापये सति ह्रस्वादिङः परः सकारो भवति, न त्वङ्गात्; इडागमः प्रत्ययभक्तत्वेनानङ्गत्वात। `अलाविषुः` इति। `सिजभ्यस्तविदिभ्यश्च` (3.4.109) इति झेर्जुस्। `अकृषाताम्` इति। `उश्च` (1.2.12) इति कित्त्वाद्गुणाभावः। `द्विष्टचाम्` इति। `द्वित्रिचतुभ्र्यः सुच्` (5.4.18) तदन्तादतिशायने तरप्; `किमेत्तिङ्` (5.4.11) इत्यादिनामुः, **ह्रस्वात् तादौ तद्धिते** (8.3.101) इति सकारस्य मूर्धन्यः॥ Sutra Prayogas -------------- * **न्यधित** (शिशुपालवधम्): `हृस्वादङ्गात्` इति सकारलोपः। * **समधित** (शिशुपालवधम्): `ह्रस्वादङ्गात्` इति सकारलोपः। * **जिष्णुरभृतोष्णवारणम्** (शिशुपालवधम्): `हस्वादङ्गात्` इति सकारलोपः। * **नादित** (शिशुपालवधम्): `ह्रस्वादङ्गात्` इति सलोपः। * **विप्रसादकृत** (शिशुपालवधम्): `ह्र्स्वादङ्गात्` इति सकारलोपः। * **अवास्थित** (भट्टिकाव्यम्): `ह्रस्वादङ्गात्` इति सिचो लोपः। * **कृथा** (भट्टिकाव्यम्): `ह्रस्वादङ्गात्` इति सिचो लोपः । * **माऽन्तिर्धथाः** (भट्टिकाव्यम्): `ह्रस्वादङ्गात्` इति सिचो लोपः । * **अहृत** (भट्टिकाव्यम्): `हस्वादङ्गात्` इति सिचो लोपः। * **प्रत्यवास्थित** (भट्टिकाव्यम्): `हस्वादङ्गात्` इति सिचो लोपः । * **अमृत** (भट्टिकाव्यम्): `हस्वादङ्गात्` इति सिचो लोपः।