82019: उपसर्गस्यायतौ ==================== **Padacheda:** उपसर्गस्य | S | 6 | 1 | अयतौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ल् is substituted for the र् of a preposition when अयते follows. Vasu English Translation ------------------------ ल् is substituted for the र् of a preposition when अयते follows. Thus पलायते, प्लायते ॥ Here arises the question, does the word अयति qualify the word र्, or does it qualify the word Preposition. In the first view, the *sutra* would mean, "the र् immediately followed by अयति is changed to ल ॥" But as a matter of fact, र् is never immediately followed by अयति ॥ Thus in प्र + अयति or परा + अयति, the letter अ and आ intervene respectively. The *ekadesa* *sandhi* of these, will make र् immediately followed by अयति; but the *ekadesa*, being *sthanivat* will prevent it. This difficulty however, is overcome by the maxim येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्, for otherwise the rule will be useless. For the same reasons, परि + अयते = पल्ययते, though here र् intervenes between र् and अयते ॥ In short, the intervention of one letter is considered as no intervention. In the second view, the *sutra* would mean when a Preposition is followed by *ayat* then its र् is changed to ल, and none of these difficulties will arise with regard to the above forms. But then would arise a fresh difficulty, for the र् of प्रति would also require to be changed into ल् ॥ Some say, that प्रति is never followed by अयति; while others hold that the form प्लत्ययते (प्रति + अयते) is valid. According to the first view, the valid form is प्रत्ययते ॥ The स् of the Prepositions दुस् and निस् is changed to र्, but this र् is not changed to ल्, because it is *asiddha*: thus we have the forms निरयणम्, दुरयणम् ॥ But there is a preposition निर् also the र् of which is changed to ल्, as निलयनम् ॥ See (7.2.46). According to the *Siddhanta* *Kaumudi*, there is a Preposition दुर् also, which gives दुलयते ॥ Bhashya ------- उपसर्गस्यायतौ किमिदमयतिग्रहणं रेफविशेषणम्-अयतिपरस्य रेफस्य लो भवति स चेदुपसर्गस्य भवतीति,-आहोस्विदुपसर्गविशेषणम्-अयतिपरस्योपसर्गस्य यो रेफस्तस्य लो भवतीति॥ कश्चात्र विशेषः? ॥ रेफस्याऽयताविति चेत्परेरुपसङ्ख्यानम्॥ रेफस्याऽयताविति चेत्परेरुपसङ्ख्यानं कर्तव्यम्। पल्ययते॥ वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्॥ किम्(1)?॥ प्लायते। पलायते॥ अस्तु तर्हि-उपसर्गविशेषणम्॥ उपसर्गस्येति चेदेकादेशेऽप्रसिद्धिः॥ उपसर्गस्येति चेदेकादेशेऽप्रसिद्धिर्भवति। प्लायते पलायते। एकादेशे कृते व्यपवर्गाभावादयताविति(2) लत्वं न प्राप्नोति॥ अन्तादिवद्भावेन व्यपवर्गः॥ उभयत आश्रये नान्तादिवत्॥ एवं तर्ह्येकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाव्द्यपवर्गः॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति॥ दोषा एवैते तस्याः परिभाषायाः-तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति॥ अथवा पुनरस्तु रेफविशेषणम्॥ ननु चोक्तं-रेफस्यायताविति चेत्परेरुपसङ्ख्यानमिति॥ वचनाद्भविष्यति॥ ननु चोक्तम्-अस्ति वचने प्रयोजनं(1), किं, प्लायते पलायतइति॥ अत्राप्यकारेण व्यवहितत्वान्न प्राप्नोति॥ एकादेशे कृते नास्ति व्यवधानम्॥ एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्य्ववधानमेव॥ प्रतिषिध्यतेऽत्रस्थानिवद्भावः-पूर्वत्रासिद्धे न स्थानिवदिति॥ दोषा एवैते तस्याः परिभाषायास्तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति॥ Kashika ------- अयतौ परत उपसर्गस्य यो रेफस्तस्य लकार आदेशो भवति। प्लायते। पलायते। अत्र च योऽयमेकादेशः, तस्य स्थानिवद्भावादयतेरुपसर्गस्य च विभागे सति, यद्ययतिग्रहणं रेफस्य विशेषणम्, तदा **येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्** (व्या०प० ४६) इत्येकेन वर्णेन व्यवधानेऽपि सति लत्वं भवति। तथा च पल्ययत इत्यत्रापि भवति। उपसर्गविशेषणे त्वयतिग्रहणे सिद्धमेवैतत् सर्वम्, प्रतेरपि तु व्यवहितेऽपि प्राप्नोति। तत्र केषांचिद् दर्शनम् — भवितव्यमेव प्लत्ययत इति। प्रथमपक्षदर्शनाभिनिविष्टास्तु प्रत्ययत इत्येव भवतीति मन्यन्ते। अपरे तु प्रतिशब्दोपसृष्टस्यायतेः प्रयोगमेव नेच्छन्ति। निस् दुस् इत्येतयोस्तु रुत्वस्यासिद्धत्वाद् लत्वेन नैव भवितव्यम्। निरयणम्। दुरयणम्॥ Siddhanta Kaumudi ----------------- अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते । निस्दुसोरुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु । निलयते । दुलयते । प्रत्यय इति त्विणो रूपम् । अथ कथमुदयति विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा । [(परिभाषा - ) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्] । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् । ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये ।{$ {!481 दय!} दानगतिरक्षणहिंसादानेषु$} । आदानं ग्रहणम् । दयांचक्रे ।{$ {!482 रय!} गतौ $}।{$ {!483 ऊयी!} तन्तुसन्ताने$} । ऊयांचक्रे ।{$ {!484 पूयी!} विशरणे दुर्गन्धे च$} । पूयते । पुपूये ।{$ {!485 क्नूयी!} शब्दे उन्दे च$} । चुक्नूये ।{$ {!486 क्ष्मायी!} विधूनने$} । चक्ष्माये ।{$ {!487 स्फायी!} {!488 ओप्यायी!} वृद्धौ$} । स्फायते । पस्फाये । प्यायते ॥ Laghu Siddhanta Kaumudi ----------------------- अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात्। प्लायते। पलायते॥ Balamanorama ------------ **उपसर्गस्यायतौ** - उपसर्गस्याऽयतौ । अयताविति श्तिपा निर्देशः । 'कृपो रो ल' इत्यतो रो ल इत्यनुवर्तते । तदाह — अयतिपरस्येत्यादिना । प्लायत इति । प्र इत्युपसर्गः । प्लायत इति । परा इत्याकारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह -निस्दुसोरिति । तर्हि निलयते दुलयत इति कथमित्यत आह — निर्दुरोस्त्विति । एतदर्थमेव प्रादिषु रेफान्तयोश्च निर्देश इति भावः । तर्हि 'प्रत्यय' इत्यत्रापि प्रतेरयतिपरत्वाद्रस्य लत्वं स्यादित्यत आह - प्रत्यय इति त्विति । प्रतिपूर्वकादिण्धातोरतच्प्रत्यये 'प्रत्यय' इति रूपम् । अयतिपरत्वाऽभावान्न लत्वमित्यर्थः । अयधातुमादय 'प्लत्यय' इति न, अनभिधानादिति कैयटः । कथमुदयतीति । उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तेत्त्वेन लटः शानच्प्रसङ्गादिति भावः । प्रश्लिष्टस्येति ।इधातो॑रिति शेषः । तस्य अनुदात्तेत्त्वाऽबावाच्छतृप्रत्ययो निर्बाध इति भावः । ज्ञापकादिति ।चक्षिङ् धातोरिकारस्याऽनुदात्ततया अनुदात्तेत्त्वादेवात्मनेपदसिद्धौ ङित्करणमनुदात्तेत्त्वप्रयुक्तात्मनेपदस्याऽनित्यतां ज्ञापयति । तस्याऽनित्यत्वे तु नित्यात्मनेपदार्थं ङित्करणमर्थवदिति भावः । इदं तु भाष्ये न दृश्यते । वादित्वादिति वयधातोर्लिटि वादित्वादेत्वाभ्यासलोपयोरभावे सति 'ववये' इति रूपमित्यर्थः । णयधातुर्णोपदेश इति मत्वा आह — प्रणयत इति ।उपसर्गादसमासेऽपी॑ति णत्वमिति भावः । दयांचक्र इति ।दयायासश्चे॑त्याम् । ऊयांचक्र इति । इजादित्वादाम् । उन्दने चेति । क्लेदने चेत्यर्थः । स्फायी ओप्यायीति । ओदित्त्वम्ओदितश्चे॑ति निष्ठानत्वार्थम् । ईदित्त्वं तुश्वीदितो निष्ठाया॑मितीण्निषेधार्थम् । Tattvabodhini ------------- **उपसर्गस्यायतौ** - अथ कथमिति । शानचा भाव्यमिति शङ्कितुराशयः । क्नूयी शब्दे शब्दे च । उन्दः क्लेदनम् । Padamanjari ----------- अयतौ पर इति । अत्र द्वौ पक्षौ - अयतिग्रहणं रेफविशेषणम् - अयतिपरस्य रेफस्य, स चेदुपसर्गस्येति; उपसर्गविशेषणं वा - अयतिपरस्योपसर्गस्य यो रेफ इति । तत्राद्ये पक्षे एवमन्वयः - अयतौ परतो यो रेफ उपसर्गसम्बन्धी तस्येति; द्वितीये तु - अयतौ परतो य उपसर्गस्तस्य यो रेफस्तस्येति । प्लायत इति । अयतिरनुदातेत् । कथं तहि ठुदयति विततोर्ध्वरश्मिरज्जौऽ इति परस्मैपदम् ? किमनेन वन्यगजशौचेन ! यदि वा - पचाद्यजन्तादुदयशब्दादाचारे क्विपि लट् । केचितु ठिट कटी गतौऽ इत्यत्र इकारमपि धातुं पठन्ति । यथा त्वत्र दर्शिते पक्षद्वयेऽपि दोषो न भवति, तथा क्रमेण दर्शयति -अत्रेति । स्थानवद्भावादिति ।'पूर्वत्रासिद्धे न स्थानिवत्' इत्येतत्विह न भवति;'तस्य दोषः संयोगादिलोपलत्वणत्वेषु' इत्यपवादस्मरणात् । यद्ययतिग्रहणं रेफस्य विशेषणमिति । कार्यित्वेन प्रधानत्वात् । एकेन वर्णेनेति । एकग्रहणं प्रत्यय इत्यत्र सङ्घातेन व्यवाये न भवतीति प्रदर्शनार्थम् । तथा चेति । एवं च कृत्वेत्यर्थः । पल्ययत इत्यत्रापीति । यत्र श्रूयमाणेनैकेनैव वर्णेन लौकिकं व्यवधानम्, तत्रापि प्रवर्तते । न केवलं प्लायत इत्यादौ यत्र स्थानिभावद्वारेण शास्त्रीयं तत्रैवेत्यपिशब्दस्यार्थः । अमुमेव विशेषं दर्शयितुमस्य पृथगुपन्यासः । ननु च'निर कुषः' ,'सुदुरोरधिकरणे' इति निर्देशाद्रेकान्तावप्युसर्गौ स्तः, तौ वचनस्यावकाशौ इति कथं व्यवधाने भवति ? उच्यते; यद्येतावत्प्रयोजनं स्यात्,'दुरोरयतौ' इत्येव ब्रूयात्, उपसर्गग्रहणातु व्यवायेऽपि भविष्यति, एतच्चैकवर्णव्यवधानेनाप्युपपन्नमिति न प्रत्ययत इत्यत्र प्रसङ्गः । उपसर्गविशेषणेत्विति । श्रुतत्वादिति भावः । सिद्धमेवैतत्सवामति ।'येन नाव्यवधानमित्यादि न कश्चित् यत्नो' स्मिन्पक्षेऽ इत्येवशब्दस्यार्थः । प्रतेरपि तु प्राप्नोतीति । पूर्वस्मिन्पक्षे सङ्घातेन व्यवायान्न प्राप्नोति, अत्र तु प्राप्नोतीत्यमुं विशेषं तुशब्दो द्योतयति । प्रथमपक्षदर्शनाभिनिविष्टास्त्विति । प्रथमपक्षस्य या दर्शनाउपरेभ्यः प्रतिपादना, तत्राभिनिविष्टाः उ तत्परायणा इत्यर्थः । अपरे त्वित्यादि । आप्तपर्यायः प्रत्ययितशब्द इतच्प्रत्ययान्तः, सञ्जातप्रत्ययाः प्रत्ययिता इति । निस्दुस् इत्येतयोस्त्विति । सकारान्तविषयो ग्रन्थः, रेफान्तयोस्तु भवितव्यमेव लत्वेन ॥ Nyaas ----- इह द्वौ पक्षौ सम्भवतः -अयतिग्रहणं रेफविशेषणमित्येकः पक्षः, उपसर्गस्य विशेषणमिति द्वितीयः। तत्राद्ये पक्षेऽयतौ परत इत्येवामादिको वृत्तिग्रन्थ एवं नेयः -अयतौ परतो यो रेफ उपसर्गस्थस्तस्य लकारादेशो भवतीति। द्वितीये ह्रेवं नेयः -अयतौ परतो म उपसर्गस्तस्योपसर्गस्य यो रेफस्तस्य लकारादेशो भवतीति। `प्लायते` पलायते` इति। `अय ण्य` इत्यस्मादनुदात्तेत्त्वादात्मनेपदम्। कथमत्राद्ये पक्षे लत्वं भवति, यावता तस्मिन्? कर्तव्ये **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति स्थानिवद्भावेन भवितव्यम्, ततश्च प्रकृत्युपसर्गयोर्निमागे सत्यवर्णेन व्यवधानद्रेफस्यायतिपरता न सम्भवति? इत्याह -`अत्र योऽयम्` इत्यादि। विभागे विश्लेष इत्यर्थः। एकग्रहणं प्रत्यय इत्यत्र सङ्घाते व्यवधाने लत्वं न भवतीति प्रदर्शनार्थम्। येन हि व्यवधानमेव नाव्यवधानं तेन व्यवधाने वचनाप्रामाण्याल्लत्वेन भवितव्यम्। केन व्यवधानमेवम्? एकेन वर्णेन। सङ्घातेन पुनव्र्यवधानमस्ति नास्ति चेति, तेन व्यवधाने भवति। `तथा च` इत्यादि। एवमाद्ये पक्ष एकेन वर्णेन व्यवधाने लत्वं भवति। न केवल पल्ययत इत्यत्र प्रवर्तते यत्र स्यानिवद्भावद्वारेणाशास्त्रीयं व्यवधानम्; यत्रापि तु श्रूयमाणेनैव वर्णेन लौकिकं व्यवधानम्, तत्रापि प्रवर्त्त्त इत्येषोऽपिशब्दस्यार्थः।ननु च निरः कुषः` (7.2.46) इत्यत्र निर इति निर्देशेन ज्ञापितमेतत् -निरिति रेफान्तमुपसर्गान्तर मस्तीति, ततश्च निलय इत्यत्र वचनस्यावकाशे सति कथं `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।पा।46) इत्युक्तम्? एवं मन्यते -नैकमुदाहरणं सामान्यलक्षणं सामान्यलक्षणं प्रयोजयति, यदि ह्रेतावत्? प्रयोजनं स्यात्, निर एव ग्रहणं कुर्यादिति। एवं प्रथमे पक्षे सर्वस्य सिद्धतां प्रतिपाद्य द्वितीये पक्षे प्रतिपादयितुमाह -`उपसर्गविशेषणे तु` इत्यादि। तुशब्दोऽयमपिशब्दस्यार्थे वर्तते। न केवलं रेफविशेषणेऽयतिग्रहणे पल्ययत इत्यादि सर्वं सिद्धम्, अपि तूपसर्गविशेषणेऽपि तस्मिन्? सर्वमेतत्? सिद्धम्। अथ वा -तुशब्दः पूर्वस्मात्पक्षादस्य विशेषं द्योतयति। तत्र हि वयवधानाल्लत्वं प्राप्नोतीत्येतच्चोद्यमवतरति। अतो यदेतत्? प्रतिपाद्यमेतत्? सर्वम्। इह त्वस्य चोद्यस्यावतार एव नास्तीति सिद्धमेवैतत्, न यत्नसाध्यमित्यर्थः। प्रतेरपि प्राप्नोतीति चोदकः। तुशब्दः पूर्वस्माद्विशेषणार्थः, पूर्वत्र प्रतेर्न प्राप्नोति; सङ्घातेन व्यवधानात्; इह तु नास्ति केनचिद्व्यवधानम्, अतः प्रतेरपि प्राप्नोतीति मन्यन्ते। `अपरे` इति। द्वितीयपक्षाभिनिविष्टानामम्यतमे। `निस्दुसित्येतयोः` इति। यद्ययतिग्रहणं रेफस्य विशेषणम्, अथाप्युपसर्गस्य विशेषणम्, सर्वथाः रत्वे कृते लत्वं प्राप्नोति? इति यश्चोदयेत्, तं प्रत्याह -`निस्दुस्` इत्यादि। गतार्थम्॥ Prakriyasarvasvam ----------------- अयतौ परे उपसर्गरेफस्य लत्वं स्यात् । प्लायते, पलायते पल्ययते । निर्दुरो रान्तयोरपि भावात्¹ निलयते । दुलयते । सान्तयोस्तु रुत्वस्यासिद्धत्वान्न लः । निरयते । दुलयते । 'प्रतेर्वैय्यते' । प्रत्ययते प्लत्ययते । कर्मणि अय्यते । लङि अजादित्वादाट् । आयत । आयेताम् । लुङि आयिष्ट आयिषाताम् । आयिढ्वम्, आयिध्वम् । चिणि आयि । लिटि— Sutra Prayogas -------------- * **पलायन्ते** (किरातार्जुनीयम्): `उपसर्गस्यायतौ` इति रेफस्य लत्वम्। * **पलायत** (शिशुपालवधम्): `उपसर्गस्यायतौ` इति रेफस्य लत्वम्। * **पलाय्यत** (शिशुपालवधम्): `उपसर्गस्यायतौ` इति लत्वम् । * **पलायांचक्रे** (भट्टिकाव्यम्): `उपसर्ग- स्यायतौ` इति लत्वम्। * **पलायांचक्रिरे** (भट्टिकाव्यम्): `उपसर्गस्यायतौ` इति लत्वम्। * **प्रपलायिष्ट** (भट्टिकाव्यम्): `उपसर्गस्यायतौ` इति लत्वम्।