82017: नाद्घस्य =============== **Padacheda:** नात् | S | 5 | 1 | घस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) the affixes तर and तम get the augment नुट् after a stem in न्। Vasu English Translation ------------------------ In the छन्दस् (Vedas) the affixes तर and तम get the augment नुट् after a stem in न्। The affixes तरप् and तमप् are called घ ॥ Thus सुपथिन् + तर = सुपथि + तर (8.2.7) = सुपथि + न्तर (8.2.17) = सुपथिन्तरः ॥ So also दस्युहन्तमः ॥ Vart:- The augment तुट् is added to these affixes after भूरिदावन्; as भूरिदावत्तरः ((3.2.74), the affix is वनिप्). Vart:- Long ई is the substitute of the final of रथिन् before तर and तम ॥ The word रथिन् is formed by the affix इनि in the sense of मतुप् ॥ The final न् is first elided by (8.2.7), and then for the short इ of रथि the long ई is substituted by the present *vartika*. If the long ई were substituted for the final न् of रथिन् as रथिई + तर, then this long ई being *asiddha*, it could not be compounded by *ekadesa* with the preceding इ into ई, and the form would always remain रथिईतरः ॥ As रथीतरः, and रथीतमं रथीनाम् ॥ Or this ई may be considered to have come after रथ in the sense of मतुप् ॥ Bhashya ------- नाद्धस्य ॥ इर्द्रथिनः॥ रथिन इर्द्वक्तव्यः। रथीतरः॥ भूरिदाव्नस्तुट्॥ भूरिदाव्नस्तुड् वक्तव्यः। भूरिदावत्तरो जनः॥ झ्र्नाद्धस्यट॥ Kashika ------- नकारान्तादुत्तरस्य घसंज्ञकस्य नुडागमो भवति छन्दसि विषये। सुपथिन्तरः। दस्युहन्तमः॥ भूरिदाव्नस्तुड् वक्तव्यः॥ भूरि॒दाव॑त्तरः॒ (ऋ० ८.५.३९)॥ ईद्रथिनः॥ रथिन ईकारान्तादेशो घे परतः। र॒थीत॑रः॒ (ऋ० १.८४.६)। रथशब्दादेव वा मत्वर्थीयोऽयमीकारः **छन्दसीवनिपौ॰** (५.२.१०९ वा०) इति॥ Siddhanta Kaumudi ----------------- नान्तात्परस्य घस्य नुट् । सुपथिन्तरः । (वार्तिकम्) ॥ भूरिदावत्तरो जनः (भू॒रि॒दाव॑त्तरो जनः॑) । (वार्तिकम्) ॥ रथीतरः (र॒थीत॑रः) । रथीतमं रथीनाम् (र॒थीत॑मं र॒थीना॑म्) ॥ Padamanjari ----------- भूरिदावतर इति । ठातो मनिन्ऽ इत्यादिना वनिप् । रथीतर इति । रथशब्दान्मत्वर्थीय इनिः, तदन्तातरप्, नकारलोपे कृते दकारस्य ईकारः । यदि तु नकारलोपापवादो नकारस्य स्थाने विधीयेत, तदा तस्यासिद्धत्वादेकादेशो न स्यात् ॥ Nyaas ----- `सुपथिन्तरः` इति। शोभनः पन्था इति प्रादिसमासः -सुपन्थाः, सुशब्दात्? `न पूजनात्` (5.4.69) इति प्रतिषेधात्? `ऋक्पूरब्धूः` (5.4.74) इत्यादिना समासान्तो न भवति, तरप्। `दल्युहन्तमः`। दस्युं हतवानिति क्विप्, तदन्तात्? तमप्। `भूरिदावत्तरः` इति। भूरि वदातीति `आतो मनिन्` (3.2.74) इत्यादिना वनिप्, तदन्तादुत्तरपदस्य तुट्। `रथीतरः` इति। रथिन्नित्येतस्मान्मत्वर्थीयेनिप्रत्ययान्तात्? तरप्, नकारस्य लोपः, ईकारः अथ वा -नकारस्यैवेकारः, सवर्णदीर्घत्वम्॥ Vartika ------- भूरिदान्नस्तुड्वाच्यः ।