82013: उदन्वानुदधौ च ==================== **Padacheda:** उदन्वान् | S | 1 | 1 | उदधौ | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The word उदन्वान् is irregularly formed in the sense of 'a sea'. Vasu English Translation ------------------------ The word उदन्वान् is irregularly formed in the sense of 'a sea'. It is derived from उदक 'water' with the affix मत् ॥ उदन्वान् is the name of a *Rishi*, because he controlled the rains, it rained at his command. It also means occan or that in which water is held, like तटाक &c. The affix कि is added by (3.3.93), and उदक changed to उद् by (6.3.58), and thus we have उदधिः ॥ Why do we say "when meaning a sea"? Observe उदकवान् घटः 'a pot having water'. Here the main idea is not that of "holding or containing", but simply the general fact of possessing water: a human being may also possess water in the same way. Kashika ------- उदन्वानित्युदकशब्दस्य मतावुदन्भावो निपात्यत उदधावर्थे संज्ञायां च विषये। उदन्वान् नाम ऋषिर्यस्यौदन्वतः पुत्रः। उदधौ — उदन्वान्। यस्मिन्नुदकं धीयते, स एवमुच्यते। उदधाविति किम्? उदकवान् घट इत्यत्र तु दधात्यर्थो न विवक्ष्यते। किं तर्हि? उदकसत्तासंबन्धसामान्यम्॥ Siddhanta Kaumudi ----------------- उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः ऋषिश्च ॥ Balamanorama ------------ **उदन्वानुदधौ च** - उदन्वानुदधौ च । उदधौ संज्ञायां चेति । वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात् । Padamanjari ----------- उदन्वान्नाम ऋषिरिति । यस्य च कामवर्षो पर्जन्यः - यस्मिन्नुदकं धीयत इति, स पुनस्तटाकादिः ।'कर्मण्यधिकरणे च' इति किप्रत्ययः,'पेषंवासवाहनधिषु च' इति उदकस्योद्भावः । उदकसतासम्बन्धसामान्यमिति । तच्च देवदतादिष्वपि सम्भवति । असंज्ञार्थं वोदधिग्रहणम् ॥ Nyaas ----- `उदधावर्थे` इति। यस्मिन्नुदकं धीयते तस्मिन्नर्थं इत्यर्थः। तथा ह्रुदके कर्मण्युपपदे **कर्मण्यधिकरणे च** (3.3.93) इति किप्रत्यये कृते **पेषंवासवाहनधिषु च** (6.3.58) इत्युदकस्योदभावे कृत उदधिशब्दो व्युत्पाद्यते। चकारेण **संज्ञायाम्** (8.2.11) इत्यनुकृष्यत इति दर्शयति। `संज्ञायां च` इत्यादि। `उदधावर्थे` इत्यादि। उदधिग्रहणञ्च संज्ञार्थम्। `उदन्दान्` इति। डदकं धेयमास्मिन्नस्तीत्यर्थविवक्षायां मतुप्। `स एव मुच्यते` इति। न तु गङ्गादिः। यदि यस्मिन्नुदकं धीयते [नास्ति -कांउ।पुस्तके] स एव मुच्यते -उदकवान्? घट इत्यभिधानं प्राप्नोति, घटेऽप्युदकं धीयत इत्यत आह -`उदकवान्? घटः` इत्यादि। इह विवक्षा शब्दव्युत्पत्तेः प्रधानं कारणम्, न वस्तुनः सत्ता। स च येन दधात्यर्थेनोदधिरित्युच्यते, सोऽस्मिन्? प्रयोगे घटे न विवक्षितः, किं तर्हि? उदकसत्तायाः सम्बन्धमात्रम्। उदकमस्मिन्नस्तीत्येवन्मात्रं विवक्षितम्। अतो दधात्यर्थस्याविवक्षितत्वाद्घटस्योदधित्वं विद्यमानमप्यसङ्कल्प्यमेवेति नायं निपातनस्य विषयः। तेन घट उदकवानित्युच्यते। यदा तु दधात्यर्थो विवक्ष्यते तदोदन्वानित्येवं वक्तव्यम्॥ बाल-मनोरमासंज्ञायाम् 1874, 8.2.13 संज्ञायाम्। `अहीवती`त्यादि नदीविशेषस्य, नगरीविशेषस्य वा संज्ञा। शरादित्वादिति। `शरादीनां चे`ति दीर्घ इत्यर्थः। बाल-मनोरमाउदन्वानुदधौ च 1876, 8.2.13 उदन्वानुदधौ च। उदधौ संज्ञायां चेति। वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात्। Prakriyasarvasvam ----------------- चकारात्कस्यचिदृषेर्नाम्नि च ॥ Sutra Prayogas -------------- * **उदन्वान्** (किरातार्जुनीयम्): `उदन्वानुदधौ च` इति निपातनात्साधुः।