82011: संज्ञायाम् ================= **Padacheda:** संज्ञायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The व् is substituted for the म् of मत् when the word so formed is a Name. Vasu English Translation ------------------------ The व् is substituted for the म् of मत् when the word so formed is a Name. As आहीवती, कपीवती, ऋषीवती, सुनीवती ॥ For long vowel, see (6.3.120). Bhashya ------- संज्ञायामासन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्द्रुमण्वच्चर्मण्वती ॥ किमयमेक योग आहो स्विन्नानायोगौ?॥ किं चातः?॥ यद्येकयोगः अहीवती कपीवती-अत्र न प्राप्नोति॥ अथ नानायोगौ-ःइक्षुमती द्रुमती-अत्रापि प्राप्नोति॥ यथेच्छसि तथास्तु॥ अस्तु तावदेकयोगः॥ कथमहीवती कपीवती?॥ आचार्यप्रवृत्तिर्ज्ञापयति-भवत्येवंजातीयकानां वत्वमिति यदयमन्तोऽवत्या इर्वत्या इत्याह॥ अथवा पुनरस्तु नानायोगौ। ननु चोक्तमिक्षुमती द्रुमती अत्रापि प्राप्नोतीति॥ यवादिषु पाठः करिष्यते॥ Kashika ------- संज्ञायां विषये मतोर्व इत्ययमादेशो भवति। अहीवती। कपीवती। ऋषीवती। मुनीवती॥ Siddhanta Kaumudi ----------------- मतोर्मस्य वः स्यात् । अहीवती । मुनीवती ।शरादीनां च (SK1042) इति दीर्घः ॥ Padamanjari ----------- अहीवतीत्यादौ चातुरर्थिको नद्यां मतुप् ॥ Nyaas ----- `अहीवती` इति। **नद्यां मतुप्** (4.2.85) इति चातुरर्थिको भतुप्, **शरादीनां च** (6.3.120) दीर्घः॥