81048: किम्वृत्तं च चिदुत्तरम्

Padacheda: किम्वृत्तम् | S | 1 | 1 |

च | S | 0 | 0 |

चिदुत्तरम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

Also after a form of किम् when the particle चित् follows it and when no other word precedes such form of किम् the finite verb retains its accent.

Vasu English Translation

Also after a form of किम् when the particle चित् follows it and when no other word precedes such form of किम् the finite verb retains its accent. The word किम्वृत्तं is a Genitive Tatpurusha meaning किमोवृत्तं ॥ The word किम्वृत्तं means any form of किम् with its case-affixes, as well as the forms of किम् when it takes the affixes डतर and डतम ॥ Thus कश्चिद् भुङ्क्ते꣡, कश्चिद् भोज꣡यति, कश्चिद् अधीते, केनचित् करो꣡ति, कस्मैचिद् द꣡दाति, कतरश्चित् करो꣡ति, कतमश्चिद् भुङ्क्ते꣡ ॥

Why do we say ‘followed by चित्’? Observe को भुङ्क्ते ॥

The word अपूर्वं of the last sutra qualifies this also; therefore, the verb loses its accent here:- देवदत्तः किंचित् प॒ठ॒ति॒ ॥

Kashika

किमो वृत्तं किंवृत्तम्। किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ, तत् किंवृत्तं चिदुत्तरमविद्यमानपूर्वं यत् तेन युक्तं तिङन्तं नानुदात्तं भवति। कश्चिद् भु॒ङ्क्ते। कश्चिद् भो॒जय॑ति। कश्चिदधी॒ते। केचनित् क॒रोति॑। कस्मैचिद् ददा॑ति। कतरश्चित् क॒रोति॑। कतमश्चिद् भु॒ङ्क्ते। चिदुत्तरमिति किम् ? को भु॒ङ्क्ते। अपूर्वमित्येव — देवदत्तः किंचित् प॒ठ॒ति॒॥

Siddhanta Kaumudi

अविद्यमानपूर्वं चिदुत्तं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ॥

Padamanjari

वृत्तिमित्यधिकरणे क्तः, किमो वृतं किंवृतमिति, ठधिकरणवाचिनश्चऽ इति कर्तरि षष्ठी, ठधिकरणवाचिना चऽ इति समासप्रतिषेधे प्राप्तेऽस्मादेव निपातनात्समासः । यदि यत्र किंशब्दो वर्तते तत्सर्वं गृह्यएत - किमीयः, कैमायनिः, किंतरामित्यादेर्ग्रहणप्रसङ्ग इति मत्वा परिसञ्चष्टे - किंवृतग्रहणेनेति । चिदुतरमित्येतत्किंवृतस्य विशेषणम्, न तिङ्न्तस्य; पूर्वोक्तात् सामान्यापेक्षया ज्ञापकात् ॥

Nyaas

चिदुत्तरम् इति। चिदित्येतदुत्तरं यस्मात्? तत्? तथोक्तम्। पूर्वोक्तया नोत्यैतदपि किवृत्तस्यैव विशेषणम्। किंवृत्तग्रहणेन तद्विभक्त्यन्तम् इत्यादि। किवृत्ते लिप्सायाम् (3.3.6) इत्यत्रैतदुक्तार्थम्। भोजयति इति। पूर्ववन्मध्योदात्तमेवैतत्। कस्मैचिद्ददाति इति। अभ्यस्तानामादिः (6.1.189) इत्याद्युदात्तमेतत्। कतरः इति। किंयत्तदोर्निर्धारणे (5.3.92) इति डतरच। कतमः इति। वा बहूनां जातिपरिप्रश्ने (5.3.93) इति डतमच्॥

Prakriyasarvasvam

<karika>चित्परापूर्वकिंवृत्तयुक्तस्तिङ् न निहन्यते । कश्चित्कृष्णं सेवतेऽत्र तत्र कश्चिद्विमुच्यते ॥ ९०७ ॥</karika>

Sutra Prayogas

  • इन्द्राणी (भट्टिकाव्यम्): पुंयोगादाख्यायां इति ङीष्।