81048: किम्वृत्तं च चिदुत्तरम् ============================== **Padacheda:** किम्वृत्तम् | S | 1 | 1 | च | S | 0 | 0 | चिदुत्तरम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Also after a form of किम् when the particle चित् follows it and when no other word precedes such form of किम् the finite verb retains its accent. Vasu English Translation ------------------------ Also after a form of किम् when the particle चित् follows it and when no other word precedes such form of किम् the finite verb retains its accent. The word किम्वृत्तं is a Genitive *Tatpurusha* meaning किमोवृत्तं ॥ The word किम्वृत्तं means any form of किम् with its case-affixes, as well as the forms of किम् when it takes the affixes डतर and डतम ॥ Thus कश्चिद् भुङ्क्ते꣡, कश्चिद् भोज꣡यति, कश्चिद् अधीते, केनचित् करो꣡ति, कस्मैचिद् द꣡दाति, कतरश्चित् करो꣡ति, कतमश्चिद् भुङ्क्ते꣡ ॥ Why do we say 'followed by चित्'? Observe को भुङ्क्ते ॥ The word अपूर्वं of the last *sutra* qualifies this also; therefore, the verb loses its accent here:- देवदत्तः किंचित् प॒ठ॒ति॒ ॥ Kashika ------- किमो वृत्तं किंवृत्तम्। किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ, तत् किंवृत्तं चिदुत्तरमविद्यमानपूर्वं यत् तेन युक्तं तिङन्तं नानुदात्तं भवति। कश्चिद् भु॒ङ्क्ते। कश्चिद् भो॒जय॑ति। कश्चिदधी॒ते। केचनित् क॒रोति॑। कस्मैचिद् ददा॑ति। कतरश्चित् क॒रोति॑। कतमश्चिद् भु॒ङ्क्ते। चिदुत्तरमिति किम् ? को भु॒ङ्क्ते। अपूर्वमित्येव — देवदत्तः किंचित् प॒ठ॒ति॒॥ Siddhanta Kaumudi ----------------- अविद्यमानपूर्वं चिदुत्तं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ॥ Padamanjari ----------- वृत्तिमित्यधिकरणे क्तः, किमो वृतं किंवृतमिति, ठधिकरणवाचिनश्चऽ इति कर्तरि षष्ठी, ठधिकरणवाचिना चऽ इति समासप्रतिषेधे प्राप्तेऽस्मादेव निपातनात्समासः । यदि यत्र किंशब्दो वर्तते तत्सर्वं गृह्यएत - किमीयः, कैमायनिः, किंतरामित्यादेर्ग्रहणप्रसङ्ग इति मत्वा परिसञ्चष्टे - किंवृतग्रहणेनेति । चिदुतरमित्येतत्किंवृतस्य विशेषणम्, न तिङ्न्तस्य; पूर्वोक्तात् सामान्यापेक्षया ज्ञापकात् ॥ Nyaas ----- `चिदुत्तरम्` इति। चिदित्येतदुत्तरं यस्मात्? तत्? तथोक्तम्। पूर्वोक्तया नोत्यैतदपि किवृत्तस्यैव विशेषणम्। `किंवृत्तग्रहणेन तद्विभक्त्यन्तम्` इत्यादि। `किवृत्ते लिप्सायाम्` (3.3.6) इत्यत्रैतदुक्तार्थम्। `भोजयति` इति। पूर्ववन्मध्योदात्तमेवैतत्। `कस्मैचिद्ददाति` इति। **अभ्यस्तानामादिः** (6.1.189) इत्याद्युदात्तमेतत्। `कतरः` इति। `किंयत्तदोर्निर्धारणे` (5.3.92) इति डतरच। `कतमः` इति। `वा बहूनां जातिपरिप्रश्ने` (5.3.93) इति डतमच्॥ Prakriyasarvasvam ----------------- चित्परापूर्वकिंवृत्तयुक्तस्तिङ् न निहन्यते । कश्चित्कृष्णं सेवतेऽत्र तत्र कश्चिद्विमुच्यते ॥ ९०७ ॥ Sutra Prayogas -------------- * **इन्द्राणी** (भट्टिकाव्यम्): `पुंयोगादाख्यायां` इति ङीष्।