81049: आहो उताहो चानन्तरम्¶
Padacheda: आहो | S | 0 | 0 |
उताहो | S | 0 | 0 |
च | S | 0 | 0 |
अनन्तरम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
Also after an immediately preceding आहो and उताहो when these follow, no other word, the verb retains its accent.
Vasu English Translation¶
Also after an immediately preceding आहो and उताहो when these follow, no other word, the verb retains its accent. The prohibition of nighata or want of accentuation is understood here, so also there is the anuvritti of अपूर्वं from the last.
Thus आहो or उताहो भुङ्क्ते꣡, उताहो प꣡ठति ॥ Why do we say ‘immediately preceding’? In the following sutra will be taught option, when these particles do not immediately precede the verb.
Why do we say “when no word precedes them”? Observe देवदत्त आहो or उताहो भुं॒क्ते॒ ॥
Kashika¶
निघातप्रतिषेधोऽनुवर्तते, अपूर्वमिति च। आहो उताहो इत्येताभ्यामपूर्वाभ्यां युक्तमनन्तरं तिङन्तं नानुदात्तं भवति। आहो भु॒ङ्क्ते । उताहो भु॒ङ्क्ते। आहो पठ॑ति । उताहो पठ॑ति। अनन्तरमिति किम्? शेषे विभाषां (८.१.५०) वक्ष्यति। अपूर्वमित्येवदेवदत्त आहो भु॒ङ्क्ते। देवदत्त उताहो भु॒ङ्क्ते॒॥
Siddhanta Kaumudi¶
आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् । आहो उताहो वा भुङ्क्ते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् । देव आहो भुङ्क्ते ॥
Padamanjari¶
अपूविमित्येवेति । अत एवोताहोग्रहणम्, उतशब्दपूर्वत्वादाहोशब्दस्य ॥
Nyaas¶
अविद्यमानमन्तरं व्यवधानं यस्य तदनन्तरम्। अव्यवहितमित्यर्थः। तिङन्तविशेषणमेतत्। आनन्तर्यञ्चाहो, उताहो -इत्येतयोः श्रुतत्वात्? तदपेक्षयैव वेदितव्यम्।?त्रापि चकारोऽपूर्वमित्यस्यानुकर्षणार्थः॥
Prakriyasarvasvam¶
अपूर्वाभ्यामाभ्यां युक्तोऽनन्तरस्तिङ् न निहन्यते । आहो भजति हरिम् । उताहो भजति । स त्वभक्त आहो भजति ।