81047: जात्वपूर्वम्¶
Padacheda: जातु | S | 0 | 0 |
अपूर्वम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The finite verb optionally retains its accent after जातु when this जातु is not preceded by another word.
Vasu English Translation¶
The finite verb optionally retains its accent after जातु when this जातु is not preceded by another word. Thus जा꣡तु भोक्ष्य꣡से, जातु अध्यष्य꣡से, जातु करिष्या꣡मि । Here से is anudatta by (6.1.186), as it is an Sarvadhatuka affix coming after an अदुपदेश; the word जातु is first acute, as it is a Nipata. Why do we say ‘when not preceded by any other word’? Observe:- कटं जातु क॒रि॒ष्य॒ति॒ ॥ The word कटं is end-acute as it is a फिट् or noun.
Kashika¶
जातु इत्येतदविद्यमानपूर्वम्, तेन युक्तं तिङन्तं नानुदात्तं भवति। जातु भो॒क्ष्यसे॑। जातु क॒रि॒ष्यामि॑। अपूर्वमिति किम्। कटं जातु क॒रि॒ष्य॒ति॒॥
Siddhanta Kaumudi¶
अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । अपूर्वं किम् । कटं जातु करिष्यसि ॥
Padamanjari¶
जात्वित्येतदपूर्वमिति । अथ तिङ्न्तविशेषणमपूर्वत्वं कस्मान्न भवति, युक्तं चैतत्, विशषणेन सम्बन्धुं योग्ये सति निमितिनि निमितस्याप्रधानस्य न हि युक्तं विशेषणम् ? उच्यते; यदयम् ठाहो उताहो चानन्तरम्ऽ इत्यत्रानन्तरग्रहणं करोति, ततो ज्ञायते - निमितस्येदं विशेषणमिति; अन्यथा तत्रापि ठपूर्वम्ऽ इत्यनुवृतेरेव केवलतिङ्न्तस्यानन्तय लभ्यत इति किं तेन ! ननु च शेषप्रकॢप्त्यर्थं तत्स्यात् -‘शेषे विभाषा’ , कश्च शेषः ? सान्तरः शेष इति ? अन्तरेणाप्यनन्तरग्रहणं प्रकॢप्तः शेषः । कथम् ? अपूर्वमिति प्रकृतम्, सपूर्वः शेष इति ॥
Nyaas¶
अपूर्वम् इति। अविद्यमानं पूर्वं यस्मात्? तदपूर्वम्। अत्र च द्वयं सम्भाव्यते -तिङन्तस्य चेदं विशेषणं स्यात्, जातुशब्दस्य वेति। तत्र यदि तिङन्तस्य स्यात्? आहोउताहो जानन्तरन् (8.1.49) इत्यत्रानन्तर ग्रहणं न कुर्यात्। अस्यैव ह्रपूर्वग्रहणस्य तत्रानुवृत्तेस्तिङन्तस्यानन्तर्य लभ्यते; तस्माज्जातुशब्दस्येदं विशेषणम्, इत्यालोच्याह -जात्वित्येतत् इत्यादि॥
Prakriyasarvasvam¶
अविद्यमानपूर्वजातुयुक्तस्तिङ् न निहन्यते । जातु हरिं द्रक्ष्यसि । सपूर्वत्वे तु-हरिं जातु द्रक्ष्यसि ।