81039: तुपश्यपश्यताहैः पूजायाम्¶
Padacheda: तुपश्यपश्यताहैः | S | 3 | 3 |
पूजायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The finite verb retains its accent in connection with 1. तु 2. पश्य 3. पश्यत and 4. अह when meaning ‘praise’.
Vasu English Translation¶
The finite verb retains its accent in connection with 1. तु 2. पश्य 3. पश्यत and 4. अह when meaning ‘praise’. Thus माणवकस्तु भुङ्क्ते꣡ शोभनम्; पश्य माणवको भुङ्क्ते꣡ शोभनं, पश्यत माणवको भुङ्क्ते꣡ शोभनम्, अह माणवको भुङ्क्ते꣡ शोभनम् ॥ Why do we say ‘when meaning praise’? Observe, पश्य मृगो धा॒व॒ति॒ ॥
The repetition of the word पूजायाम् here, though its anuvritti could have been supplied from (8.1.37), shows that the negation of that sutra does not extend here: for the पूजायाम् of that sutra is connected with two negatives, the म of that sutra, and the न of (8.1.29), but the पूजायाम् of this sutra is connected with the general न of (8.1.29) only.
Another example is आदह॑ स्व॒धामनु पुन॑र्गर्भ॒त्वमे॑रि॒रे ॥
Bhashya¶
तुपश्यपश्यताऽहैः पूजायाम् पूजायामिति वर्त्तमाने पुनः पूजाग्रहणं किमर्थम्?॥ अनिघातप्रतिषेधाऽभिसंबद्धं तत्(1)। यदि तदनुवर्त्तेत(2) इहाऽप्यनिघातप्रतिषेधः प्रसज्येत। इष्यते चाऽत्र निघातप्रतिषेधः॥ यथा पुनस्तत्र यावद्यथेत्येताभ्यामनिघाते प्राप्तेऽनिपातप्रतिषेध उच्यते इहेदानीं केनाऽनिघाते प्राप्तेऽनिघातप्रतिषेध उच्येत(7)?॥ इहापि यद्वृत्तान्नित्यमित्येवमादिभिः॥ (तुपश्यपश्य)
Kashika¶
तु पश्य पश्यत अह इत्येतैर्युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। तु — माणवकस्तु भु॒ङ्क्ते शोभनम्। पश्य — पश्य माणवको भु॒ङ्क्ते शोभनम्। पश्यत — पश्यत, माणवको भु॒ङ्क्ते शोभनम्। अह — अह माणवको भु॒ङ्क्ते शोभनम्। पूजायामिति किम् ? पश्य मृगो धा॒व॒ति॒। पूजायामिति वर्तमाने पुनः पूजायामित्युच्यते निघातप्रतिषेधार्थम्। तद्धि प्रतिषेधस्य प्रतिषेधेन संबद्धमिति॥
Siddhanta Kaumudi¶
एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह धामनु पुनर्गर्भत्वमेरिरे (आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रिरे) ॥
Padamanjari¶
तुप्रभृतीनि पूजाविषयाणि । माणवकस्तु भुङ्क्त इति । आश्चर्ये तुशब्द इति भोजनस्य पूजा गम्यते, एवमन्यत्रापि - पश्य मृगो धावतीति । तत्वकथनमेतत् । ननु’पूजायां नानन्तरम्’ इत्यतः पूजायामित्यनुवर्तत एवं, तत्किं पूजायामित्यनेन ? तत्राह - पूजायामिति वर्तमान इति । तद्धीति । ततश्च तदनुवृताविहापि’न लुट्’ इत्यादिके विषये प्रतिषेधस्य प्रिषेधः स्यात्, मा भूदेवम्; निघातस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं पूजाग्रहणमित्यर्थः । किञ्च - अनन्तरमित्येवं तदभूत्, इह त्वविशेषेणेष्यते ॥
Nyaas¶
ननु पूजायां नानन्तरम् (8.1.37) इति पूजाग्रहणमनुवर्तत एव, तत्किमर्थं पूजायामित्युच्यते? इत्याह -पूजायामित्यनुवर्तते इत्यादि। स्यादेतत् -तदेव पूजाग्रहणमिहानुवर्तमानं निघातप्रतिषेधार्थं भविष्यतीति? अताअह -तद्धि इत्यादि। तद्धि पूर्वत्र पूजाग्रहणं निघातप्रहतिषेधस्य प्रतिषेधेन सम्बद्धम्। तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। एवञ्च तेषां निघातप्रतिषेधः। लुडादीनां तेषां तुप्रभृतिभिर्योगे निघातप्रतिषेधस्य प्रतिषेधो विज्ञायेत। तस्मान्निघातस्य प्रतिषेधो यथा स्यादित्येवमर्थं पुनः पूजाग्रहणम्। अत्राहग्रहयणं किमर्थम्, चनादिषु (8.1.57) चेत्येव सिद्धम्? न सिध्यति; चनचिदिवगोत्रादितद्धिताम्रेडितेवष्गतेः (8.1.57) इत्यतो गतेरिति तत्रानुवृत्तेः। तथा च-देवदत्तः प्रपचत्यहेत्यत्र प्रतिषेधो न स्यात्। परभूतेषु वा स प्रतिषेध इति पूर्वभूतेऽबशब्दे च न स्यात् -देवदत्तोऽह पचतीति#ई॥
Prakriyasarvasvam¶
<karika>प्रशंसाद्योतकैरेतैर्युक्तस्तिङ् तत्र नो हतः । भक्तस्तु भजते कृष्णमेवं पश्याद्दिषह्यताम् ॥ ९०२ ॥</karika>