81038: उपसर्गव्यपेतं च¶
Padacheda: उपसर्गव्यपेतम् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
A finite verb loses its accent when it denotes ‘praise’ and is joined immediately with यावत् and यथा through the intervention of an उपसर्ग (verbal Preposition).
Vasu English Translation¶
A finite verb loses its accent when it denotes ‘praise’ and is joined immediately with यावत् and यथा through the intervention of an उपसर्ग (verbal Preposition). The last sutra taught that the verb loses its accent when immediately preceded by यावत् and यथा ॥ This qualifies the word ‘immediately’ and teaches that the intervention of a Preposition does not debar immediateness. Thus यथा प्रकरोति चारु, यथा प्रपचति शोभनं, यावत् प्रकरोति चारु, यावत् प्रपचति शोभनम् ॥
The word ‘immediately’ is understood here also. Thus यावद् देवदत्तः प्रप꣡चति, शोभनं, यथा विष्णुमित्रः प्रकरोति चारु ॥ The upasarga प्र has udatta accent. Prof. Bohtlingk’s Edition reads the sutra as व्यपेतं ॥
Kashika¶
यावद्यथाभ्यां युक्तम् उपसर्गव्यपेतं च पूजायां विषये नानुदात्तं न भवति। किं तर्हि? अनुदात्तमेव भवति। पूर्वमनन्तरमित्युक्तम् , उपसर्गव्यवधानार्थोऽयमारम्भः। यावत् प्रप॒च॒ति॒ शोभनम्। यथा प्रप॒च॒ति॒ शोभनम्। यावत् प्रक॒रो॒ति॒ चारु। यथा प्रक॒रो॒ति॒ चारु। अनन्तरमित्येव — यावद् देवदत्तः प्रपच॑ति शोभनम्। यथा विष्णुमित्रः प्रक॒रोति॑ चारु॥
Siddhanta Kaumudi¶
पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रत्पचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ॥
Padamanjari¶
व्यवायः उ व्यवधानम् । अनन्तरमित्येवेति । तच्चानन्तर्यं सोपसर्गस्य, न तिङ्न्तमात्रस्य ॥
Nyaas¶
उपसर्गव्यपेतम् इति। उपसर्गव्यवहितम्। चकारेण पूजायाम् इत्यनुकृष्यते; अनन्तरमिति चानुवर्तते। तत्रोपसर्गेण व्यवधानमाश्रीयत इति। सामर्थ्यात्? अनन्तरग्रहणं शब्दान्तरव्यवधाननिरासार्थं विज्ञायते॥
Prakriyasarvasvam¶
पूजायां यावद्यथा युक्तं प्रादिव्यवहितमनन्तरं तिङन्तं निहतमेव । याव- त्प्रार्चति शोभनम् । यथा प्रार्चति ! सान्तरे तु—यावद्भक्तः प्रार्चति चारु ।