81039: तुपश्यपश्यताहैः पूजायाम् =============================== **Padacheda:** तुपश्यपश्यताहैः | S | 3 | 3 | पूजायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The finite verb retains its accent in connection with 1. तु 2. पश्य 3. पश्यत and 4. अह when meaning 'praise'. Vasu English Translation ------------------------ The finite verb retains its accent in connection with 1. तु 2. पश्य 3. पश्यत and 4. अह when meaning 'praise'. Thus माणवकस्तु भुङ्क्ते꣡ शोभनम्; पश्य माणवको भुङ्क्ते꣡ शोभनं, पश्यत माणवको भुङ्क्ते꣡ शोभनम्, अह माणवको भुङ्क्ते꣡ शोभनम् ॥ Why do we say 'when meaning praise'? Observe, पश्य मृगो धा॒व॒ति॒ ॥ The repetition of the word पूजायाम् here, though its *anuvritti* could have been supplied from (8.1.37), shows that the negation of that *sutra* does not extend here: for the पूजायाम् of that *sutra* is connected with two negatives, the म of that *sutra*, and the न of (8.1.29), but the पूजायाम् of this *sutra* is connected with the general न of (8.1.29) only. Another example is आदह॑ स्व॒धामनु पुन॑र्गर्भ॒त्वमे॑रि॒रे ॥ Bhashya ------- तुपश्यपश्यताऽहैः पूजायाम् पूजायामिति वर्त्तमाने पुनः पूजाग्रहणं किमर्थम्?॥ अनिघातप्रतिषेधाऽभिसंबद्धं तत्(1)। यदि तदनुवर्त्तेत(2) इहाऽप्यनिघातप्रतिषेधः प्रसज्येत। इष्यते चाऽत्र निघातप्रतिषेधः॥ यथा पुनस्तत्र यावद्यथेत्येताभ्यामनिघाते प्राप्तेऽनिपातप्रतिषेध उच्यते इहेदानीं केनाऽनिघाते प्राप्तेऽनिघातप्रतिषेध उच्येत(7)?॥ इहापि यद्वृत्तान्नित्यमित्येवमादिभिः॥ (तुपश्यपश्य) Kashika ------- तु पश्य पश्यत अह इत्येतैर्युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। तु — माणवकस्तु भु॒ङ्क्ते शोभनम्। पश्य — पश्य माणवको भु॒ङ्क्ते शोभनम्। पश्यत — पश्यत, माणवको भु॒ङ्क्ते शोभनम्। अह — अह माणवको भु॒ङ्क्ते शोभनम्। पूजायामिति किम् ? पश्य मृगो धा॒व॒ति॒। पूजायामिति वर्तमाने पुनः पूजायामित्युच्यते निघातप्रतिषेधार्थम्। तद्धि प्रतिषेधस्य प्रतिषेधेन संबद्धमिति॥ Siddhanta Kaumudi ----------------- एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह धामनु पुनर्गर्भत्वमेरिरे (आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रिरे) ॥ Padamanjari ----------- तुप्रभृतीनि पूजाविषयाणि । माणवकस्तु भुङ्क्त इति । आश्चर्ये तुशब्द इति भोजनस्य पूजा गम्यते, एवमन्यत्रापि - पश्य मृगो धावतीति । तत्वकथनमेतत् । ननु'पूजायां नानन्तरम्' इत्यतः पूजायामित्यनुवर्तत एवं, तत्किं पूजायामित्यनेन ? तत्राह - पूजायामिति वर्तमान इति । तद्धीति । ततश्च तदनुवृताविहापि'न लुट्' इत्यादिके विषये प्रतिषेधस्य प्रिषेधः स्यात्, मा भूदेवम्; निघातस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं पूजाग्रहणमित्यर्थः । किञ्च - अनन्तरमित्येवं तदभूत्, इह त्वविशेषेणेष्यते ॥ Nyaas ----- ननु **पूजायां नानन्तरम्** (8.1.37) इति पूजाग्रहणमनुवर्तत एव, तत्किमर्थं पूजायामित्युच्यते? इत्याह -`पूजायामित्यनुवर्तते` इत्यादि। स्यादेतत् -तदेव पूजाग्रहणमिहानुवर्तमानं निघातप्रतिषेधार्थं भविष्यतीति? अताअह -`तद्धि` इत्यादि। तद्धि पूर्वत्र पूजाग्रहणं निघातप्रहतिषेधस्य प्रतिषेधेन सम्बद्धम्। तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। एवञ्च तेषां निघातप्रतिषेधः। लुडादीनां तेषां तुप्रभृतिभिर्योगे निघातप्रतिषेधस्य प्रतिषेधो विज्ञायेत। तस्मान्निघातस्य प्रतिषेधो यथा स्यादित्येवमर्थं पुनः पूजाग्रहणम्। अत्राहग्रहयणं किमर्थम्, चनादिषु (8.1.57) चेत्येव सिद्धम्? न सिध्यति; `चनचिदिवगोत्रादितद्धिताम्रेडितेवष्गतेः` (8.1.57) इत्यतो गतेरिति तत्रानुवृत्तेः। तथा च-देवदत्तः प्रपचत्यहेत्यत्र प्रतिषेधो न स्यात्। परभूतेषु वा स प्रतिषेध इति पूर्वभूतेऽबशब्दे च न स्यात् -देवदत्तोऽह पचतीति#ई॥ Prakriyasarvasvam ----------------- प्रशंसाद्योतकैरेतैर्युक्तस्तिङ् तत्र नो हतः । भक्तस्तु भजते कृष्णमेवं पश्याद्दिषह्यताम् ॥ ९०२ ॥