81040: अहो च

Padacheda: अहो | S | 0 | 0 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The finite verb retains its accent in connection with अहो when meaning ‘praise’.

Vasu English Translation

The finite verb retains its accent in connection with अहो when meaning ‘praise’. Thus अहो देवदत्तः प꣡चति शोभनं, अहो विष्णुमित्रः करो꣡ति चारु ॥ The separation of this अहो from तु &c, of the last sutra, indicates that the next rule applies to अहो only. Had अहो been joined with तु &c, then Rule (8.1.41), would have applied to तु &c, which is not desired. Hence the making of it a separate sutra.

Kashika

अहो इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। अहो देवदत्तः पच॑ति शोभनम्। अहो विष्णुमित्रः क॒रोति॑ चारु। पृथग्योगकरणमुत्तरार्थम्॥

Siddhanta Kaumudi

एतद्योगे नानुदात्तं पूजायाम् । अहो देवदत्तः पचति शोभनम् ॥

Padamanjari

पृथग्योगकरणमुतरार्थमिति । उतरो योगोऽहोयोग एव यथा स्यात्, तुप्रभृतिभिर्योगे मा भूत् ॥

Nyaas

चकारेण पुजायामित्यनुकृष्यते। अथ योगविभागः किमर्थम्? पूर्वसूत्र एवाहोग्रहणं क्रियते? इत्यत आह -पृथक्#ं इत्यादि। पृथग्योगे शेषे विभाषा (8.1.50) इति अहेत्यनेनैव योगे यथा स्यात्, तुप्रभृतीनां मा भूदित्येवमर्थं पृथग्योगकरणम्॥

Prakriyasarvasvam

<karika>प्रशंसायामहोयुक्तं तिङन्तं न निहन्यते । अहो कृष्णो याति चारु पुष्णन् गोकुलसम्भुदम् ॥ ९०३ ॥</karika>