81037: पूजायां नानन्तरम्

Padacheda: पूजायाम् | S | 7 | 1 |

न | S | 0 | 0 |

अनन्तरम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

But not so when these particles यावत् and यथा immediately precede the verb an denote ‘praise’.

Vasu English Translation

But not so when these particles यावत् and यथा immediately precede the verb an denote ‘praise’. That is, the verb loses its accent, and becomes anudatta. Thus यावत् प॒च॒ति॒ शोभनम्, यथा पचति शोभनम्, यावत् करोति चारु ॥

Why do we say when denoting ‘praise’? Observe यावद् भुङ्क्ते꣡, यथा भुङ्क्ते꣡ ॥

Why do we say ‘immediately’? Observe यावद् देवदत्तः प꣡चति शोभनं, यथा देवदत्तः करो꣡ति चारु ॥ Here the verbs retain their accent by the last sutra.

Kashika

यावद् यथा इत्येताभ्यां युक्तमनन्तरं तिङन्तं पूजायां विषये नानुदात्तं न भवति। किं तर्हि ? अनुदात्तमेव। यावत् प॒च॒ति॒ शोभनम्। यथा प॒च॒ति॒ शोभनम्। यावत् क॒रो॒ति॒ चारु। यथा क॒रो॒ति॒ चारु। पूजायामिति किम् ? यावद् भु॒ङ्क्ते। यथा भु॒ङ्क्ते। अनन्तरमिति किम् ? यावद् देवदत्तः पच॑ति शोभनम्। यथा देवदत्तः क॒रोति॑ चारु। पूर्वणात्र निघातः प्रतिषिध्यते॥

Siddhanta Kaumudi

यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ॥

Padamanjari

द्वौ प्रतिषेधौ प्रकृतमर्थं गमयत इत्याह - कि तर्ह्यनुदातमिति । यावद्देवदत इति । ननु चोतरत्र नियमो विज्ञास्यते - व्यवाये यदि भवति उपसर्गेणैवेति ? एवं तर्ह्युतरत्रास्य प्रयोजनम् - उपसर्गव्यपेतस्य यावद्यथाशब्दयोश्च मध्ये शब्दान्तरं मा भूत् । अथ तु’व्यवाये यदि भवति उपसर्गेणैव’ इत्यस्मादेव नियमातत्राप्रसङ्गः ? ततोऽनन्तरग्रहणं शक्यमकर्तुम् ॥

Nyaas

पूजायां विषये इति। विषयग्रहणे पूजायामिति विषयसप्तमीति दर्शयति। किं तह्र्रमुदात्तमेव इति। द्वौ प्रतिषेधो प्रकृतमर्थं गमयत इति कृत्वा। यावत्? पचति शोभनम् इति। स्तुतिरत्र पूजा, सा च क्रियायाः साधनस्य वा॥

Prakriyasarvasvam

प्रशंसायां यावद्यथाभ्यां युक्तमनन्तरं तिङन्तमनिहतं न, निहतमेव । यावदर्चति हरिं चारु । यथार्चति सुष्ठु । सान्तरे तु न निघातः । यावत्कृष्णमर्चति ।